षट्चरणः
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षट्चरणः, पुं, (षट् चरणा यस्य ।) भ्रमरः । इति हलायुधः ॥ (यथा, आर्य्यासप्तशत्याम् । ५८७ । “षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा । त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति ॥”) यूका । इति राजनिर्घण्टः ॥ षट्पादश्च ॥