सामुद्रकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामुद्रकम्, क्ली, (सामुद्रमेव । स्वार्थे कन् ।) समुद्र- लवणम् । इति राजनिर्घण्टः ॥ समुद्रोक्तस्त्रीपुं- लक्षणग्रन्थः । तद्विवरणं यथा, -- श्रीकृष्ण उवाच । “कीदृशः पुरुषो वन्द्योऽवन्द्यो वा कीदृशो भवेत् कन्या वा कीदृशी शस्या गर्हिता वापि कीदृशी ॥ महेश उवाच । शृणु कृष्ण प्रवक्ष्यामि समुद्रवचनं यथा । लक्षणन्तु मनुष्याणां एकैकेन वदाम्यहम् ॥ वामभागे तु नारीणां दक्षिणे पुरुषस्य च । निर्द्दिष्टं लक्षणं तेषां समुद्रेण यथोदितम् ॥ पूर्व्वमायुः परीक्षेत पश्चाल्लक्षणमेव च । आयुर्हीनं नराणाञ्चेत् लक्षणैः किं प्रयो- जनम् ॥” अथ पुरुषलक्षणम् । “पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् । सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥ बाहुनेत्रद्वयं कुक्षी द्वौ तु नासा तथैव च । स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥ ग्रीवाथ कर्णौ पृष्ठ ह्रस्वे जङ्घे सुपूजिते । चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥ सूक्ष्माण्यङ्गलिपर्व्वाणि दन्तकेशनखत्वचः । पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥ नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा । हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥ पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥ स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् । उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥ कटिर्बिशाला बहुपुत्त्रभागी विशालहस्तो नरपुङ्गवः स्यात् । उरो विशालं धनधान्यभागी शिरो विशालं नरपूजितः स्यात् ॥ न श्रीस्त्यजति रक्ताङ्गं नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य्यं न मांसोपचितांसकम् । कदादिद्दन्तुरो मूर्खः कदाचित् लोमशः सुखी । तिलकं लाञ्छनं शोणं यस्या वामकुचे भवेत् ॥ एकं पुत्त्रं प्रसूयादौ अन्ते च विधवा भवेत् । गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः ॥ तदा क्षितिपतेः पत्नी सूते च क्षितिपं सुतम् । नासाग्रे मशकः शोणो महिष्या एव जायते ॥ कृष्णः स एव भर्त्तृघ्न्याः पुंश्चल्या वा प्रकी- र्त्तितः । नाभेरधस्तात् तिलकं मशको लाञ्छनं शुभम् ॥ मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत् ॥ सुलक्षणापि दुःशीला कुलक्षणशिरोमणिः ॥ कुलक्षणापि या साध्वी सर्व्वलक्षणभूस्तु सा । कृष्णा कपिलकेशी च मिलितभ्रूकुटिस्तथा । गमनं सत्वरञ्चैव त्यक्तव्या स्यात् सदा बुधैः ॥ यस्या गमनमात्रेण भूमौ कम्पः प्रजायते । बह्वाशिनीं प्रलोभाञ्च तां नारीं परिवर्जयेत् ॥ विरला दशना यस्याः कृष्णोष्ठी कृष्णजिह्विका भर्त्तारं प्रथमं हन्ति द्वितीयञ्चैव विन्दति ॥ अङ्गुली विरला यस्याः सलीमा गात्रकर्कशा । भेका भेकस्तनी क्षुद्रा दूरतः परिवर्जयेत् ॥ त्रीणि यस्याः प्रलम्बानि ललाटं उदरं भगम् । त्रीणि सा भक्षयेन्नारी श्वशुरं देवरं पतिम् ॥ ललाटे श्वशुरं हन्यात् जठरे देवरं तथा । भगञ्च हन्याद्भर्त्तारं महादोषास्त्रयः स्मृताः ॥ यस्या अत्युत्कटं नार्य्या वक्षश्च विस्तृतं भवेत् । उत्तरोष्ठे च लोमानि शीघ्रं सा भक्षयेत् पतिम् ॥ चरणानामिका यस्याः क्षितिं न स्पृ शते यदि । द्वितीया वा तृतीया वा सा कन्या सुख- वर्ज्जिता ॥ नासाग्रे दृश्यते यस्याः तिलकं मशकोऽपि च । कृष्णदन्ता कृष्णजिह्वा दशाहेन पतिं हरेत् ॥ सूक्ष्मकेशा तु या कन्या गीरवर्णा च या भवेत् अष्टौ जनयते पुत्त्रान् प्राप्नोति विपुलं सुखम् ॥” इति सामुद्रके स्त्रीलक्षणं समाप्तम् ॥ (समुद्रसम्बन्धिनि, त्रि । यथा, महाभारते । ५ । ३५ । ४४ । “सामुद्रकं बाणिजकञ्च चौरं शलाकवृत्तिञ्च चिकित्सकञ्च । अरिञ्च मित्रञ्च कुशीलवञ्च नैतान् साक्ष्ये त्वधीकुर्व्वीत सप्त ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामुद्रकम् [sāmudrakam], 1 Sea-salt.

The science of palmistry; -कः See सामुद्रः.

"https://sa.wiktionary.org/w/index.php?title=सामुद्रकम्&oldid=224511" इत्यस्माद् प्रतिप्राप्तम्