सिद्धियोगिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धियोगिनी, स्त्री, (सिद्धिप्रिया योगिनी ।) योगिनीभेदः । यथा, -- “प्रणवाद्याश्च या विद्याः शूद्रादौ न समीरिताः अस्याञ्चैव विशेषो यत् योषिच्चेत् समुपासयेत् ॥ डाकिनी सा भवत्येव डाकिनीभिः प्रजायते । पतिहीना पुत्त्रहीना यथा स्यात् सिद्धियोगिनी” इति तन्त्रसारः ॥ * ॥ दक्षस्य पञ्चाशत् कन्याः । तथा, -- “सती ज्योतिः स्मृतिः स्वाहा ह्यनसूया स्वधा तथा । प्रीतिः क्षमा च संभूतिः सन्नतिश्च अरुन्धती ॥ कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः बुद्धिर्लज्जा वपुःशान्तिस्तुष्टिः सिद्धिस्तथा रतिः ॥ अरुन्धती वसुर्यामी लम्बा भानुर्मरुन्धती । सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः अदितिश्च दितिश्चैव दनुः कालादनायुषा । सिंहिका सुरसा कद्रुर्विनता सुरभिः श्वसा ॥ क्रोधा इरा च प्राधा च दक्षकन्याः प्रकीर्त्तिताः पञ्चाशत् सिद्धियोगिन्यः सर्व्वलोकस्य मातरः ॥” इति वह्निपुराण्णे गणभेदनामाध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धियोगिनी/ सिद्धि--योगिनी f. a kind of योगिनीL.

"https://sa.wiktionary.org/w/index.php?title=सिद्धियोगिनी&oldid=229717" इत्यस्माद् प्रतिप्राप्तम्