सामग्री पर जाएँ

हरिणः

विकिशब्दकोशः तः

संस्कृतम्

[सम्पाद्यताम्]
हरिणः
  • हरिणः नाम मृगः, जन्तुः।

अनुवादाः

[सम्पाद्यताम्]

मृगजातयः

[सम्पाद्यताम्]

कृष्णमृगः कस्तूरीमृगः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिणः, पुं, (हरति मनः ह्रियते गीतादिना वा । हृ + “श्यास्त्याहृञविभ्य इनच् ।” उणा० २ । ४६ । इति इन्च ।) स्वनामाख्यातपशुः । तत्प- र्य्यायः । मृगः २ कुरङ्गः ३ वातायुः ४ अजिन- योनिः ५ । इत्यमरः । २ । ५ । ८ ॥ सारङ्गः ६ चलनः ७ पृषत् ८ भीरुहृदयः ९ मयुः १० । इति जटाधरः ॥ चारुलोचनः ११ जिनयोनिः १२ कुरङ्गमः १३ ऋष्यः १४ ऋश्यः १५ रिष्यः १६ रिश्यः १७ एणः १८ एणकः १९ । इति शब्दरत्नावली ॥ कृष्णतारः २० सुलोचनः २१ पृषतः २२ । अस्थ मांसगुणाः । “एणस्य मांसं लघु शीतवृष्यं त्रिदोषहृत् षड्रसदञ्च रुच्यम् । कुरङ्गमांसं मधुरञ्च यद्वत् कफापहं पित्तहरं मरुत्प्रदम् ॥” इति राजनिर्घण्टः ॥ * ॥ अपि च । “हरिणः शीतलो बद्धबिण्मूत्रो दीपनो लघुः । रसे पाके च मधुरः सुगन्धिः मन्निपातहा ॥ एणः कषायो मधुरः पित्तासृक्कफनाशनः । संग्राही रोचनो हृद्यो बलकृज्ज्वरनाशनः ॥” इति राजवल्लभः ॥ * ॥ अन्यच्च । “कुरङ्गो वृंहणो बल्यः शीतलः पित्तहृद्गुरुः । मधुरो वातहृद् ग्राही किञ्चित्कफकरो मतः ॥” इति भावप्रकाशः ॥ * ॥ हरिणस्य पञ्चमेदो यथा, -- “हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्रु भैरव । ऋष्यः खङ्गो रुरुश्चैव पृषतश्च मृगस्तथा । एते बलिप्रदानेषु चर्म्मदाने च कीर्त्तिताः ॥” इति कालिकापुराणे ६६ अध्यायः ॥ * ॥ शुक्लवर्णः । विष्णुः । शिवः । (यथा, महा- भारते । १३ । १७ । ११९ । “आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ॥”) सूर्य्यः । हंसः । इति केचित् ॥ (ऐरावत- वंशोद्भूतनागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”) पाण्डुवर्णः । तद्युक्ते, त्रि ॥ इत्यमरः । १ । ५ । १३ ॥ (यथा, महाभारते, । १ । १ । १३५ । “स भोगान् विविधान् भुञ्जन् रत्नानि विवि- धानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥”)

"https://sa.wiktionary.org/w/index.php?title=हरिणः&oldid=462161" इत्यस्माद् प्रतिप्राप्तम्