सामग्री पर जाएँ

आदित्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदित्यः, पुं, (अदितेरादित्यस्य वा अपत्यं + ण्यः ।) देवः । सूर्य्यः । इत्यमरमेदिन्यौ ॥ द्वादशादित्य- गणे बहुवचनान्तः । इत्यमरः ॥ तत्प्रत्येकनामानि । विवस्वान् १ अर्य्यमा २ पूषा ३ त्वष्टा ४ सविता ५ भगः ६ धाता ७ विधाता ८ वरुणः ९ मित्रः १० शक्रः ११ उरुक्रमः १२ । एते कश्यपात् अदितिभार्य्यायां जाताः । कल्पान्तरे त्वष्टृकन्या संज्ञा आदित्यपत्नी आदित्यस्य तेजः सोढुमस- मर्था अतस्तस्याः पितृकृतादित्यद्वादशखण्डा द्वा- दशादित्याः । तेषां द्वादशमासेष्वेकैकस्योदयः । इति पुराणं ॥ अर्कवृक्षः । इत्यमरः ॥ आकन्द इति भाषा । (“आदित्यमण्डलस्थितो हिरण्म- योविष्णुः” । यथा शान्तिशतके । ४ । २४ । “आदित्यस्य गतागतैरहरहःसंक्षीयते जीवितं” । भारते । “आदित्यचन्द्रावनिलाऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च” । हरिवंशे द्वादशादित्यकथा यथा । “मरीचात् कश्यपाज्जातास्तेऽदित्या दक्षकन्यया । तत्र शक्रश्च विष्णुश्च जज्ञाते पुनरेवह ॥ अर्य्यमा चैव धाता च त्वष्टा पूषा च भारत । विवस्वान् सविता चैव मित्रो वरुण एव च । अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः” ॥ तस्य संवत्सरात्मनो भगवानादित्यो गतिविशे- षेणाक्षिनिमेषकाष्ठाकलामुहूर्त्ताहोरात्रपक्षमास- र्त्त्वयनसंवत्सरयुगप्रविभागं करोति ॥ इति सुश्रुतः)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदित्य पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।28।1।4

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदित्य¦ पु॰ अदितेरपत्यं ण्य।

१ देवमात्रे
“तस्मा आदित्याश्चविश्वे च देवास्तृतीयसवने संप्रयन्ति” छा॰ उ॰।

२ सूर्य्ये च
“आदित्योब्रह्मेत्यादेशः” छा॰ उ॰
“जिगी-षुरेष दिनकृदादित्येष्विवकल्पते इति” माघः।
“अमी-च कथमादित्याः प्रतापक्षतिशीतलाः” कुमा॰।

३ तद-धिष्ठिते गगने दिवानिशं बंभ्रम्यमाणे लोकप्रकाशकरे तेजोमण्डले च
“अग्नौ प्रस्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” मनुनाअग्निहुतद्रव्याणां हविराज्यादीनां परमाणु मात्रतयाऽव-स्थितानां दग्धशेषाणां सूर्य्यरश्मिनाकर्षणेन सूर्य्यलोक-प्राप्त्या वृष्टिहेतुत्वमुक्तम् तच्च मण्डलार्थपरत्वएव सम्भवति
“अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णंतत्साम”
“अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा, अथयन्नील कृष्णं तदम” इति च छा॰ उ॰। अत्र शुक्लकृष्णभा-युक्ततया मण्डलपरत्वं गम्यते।
“असौ वा आदित्यो देवमधु” छा॰ उ॰ अत्र च मण्डलपरत्वम् उत्तरत्र आकाशे रश्मि सम्बन्धकीर्त्तनात् स्पष्टमेव।
“ज्योतिश्चरणाभिधानात्” शा॰ सू॰भाष्ये च चक्षुर्वृत्तेर्निरोधकं शार्व्वरादिकं तमौच्यते तस्या[Page0696-a+ 38] एवानुग्राहकमादित्यादिकं ज्योतिः” इत्यादित्यस्य चक्षुर्वृ-त्तेरनुग्राहकतथा ज्योतिःपदार्थपरत्वमुक्तम्।

४ आदि-त्यमण्डलार्न्तर्गते हिरण्यवर्ण्णे परमपुरुषे” विष्णौ
“स्वयंभूः शम्भुरादित्यः” विष्णुस॰। विष्णोश्चादित्य-शब्दवाच्यत्वे कारणमुक्तंभाष्येयथा
“आदित्यमण्डला-न्तःस्थोहिरण्मयः पुरुष आदित्यः, द्वादशादित्येषु विष्णुर्वा,
“आदित्यानामहं विष्णुरिति” स्मृतेः, अदितेरखण्डितायामहत्या अयं पतिरिति वा
“इयं वा अदितिर्मही”
“देवीविष्णुपत्नीति” श्रुतेः यथादित्यएकएवानेकजलेष्वनेकवत्प्रतिभासते एवमनेकेषु शरीरेषु एकएवानेकवत् प्रति-भासत इत्यादित्यसाधर्म्म्याद्वा आदित्यः” तत्र हिरण्मयपुरुषस्य सूर्थ्यमण्डलमध्यवर्त्तित्वे च
“य एषोऽन्तरा-दित्ये हिरण्मयः पुरुषोदृश्यते हिरण्यश्मश्रुः हिरण्यकेशआप्रणखात् सर्वएव सुवर्णः” इति छो॰ उ॰ श्रुतिर्मानम्
“अथ य एषो ऽन्तरादित्ये आदित्यस्यान्तर्मध्ये हिरण्मयोहिरण्मय इव हिरण्मयो नहि सुवर्णविकारत्वम् देवस्यसम्भवति, ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात्। नहिसोवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिषिध्येतचाक्षुषे चाग्रहणात्। अतो लुप्तोपम एव हिरण्मयशब्दोज्योतिर्म्मय इत्यर्थः। उत्तरेष्वपि समाना योजना। पुरुषः पुरि शयनात्, पूरयति वा स्वेनात्मना जगदिति। दृश्यते निवृत्तचक्षुर्भिः समाहितचेतीभिर्ब्रह्मचर्य्यादिसा-धनापेक्षैः। तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतोविशिनष्टि हिरण्यश्मश्रुर्हिरण्यकेश इति। ज्योतिर्म-यान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः” शाङ्करभाष्यम्। उपा-सकानामतिवाहनाय ईश्वरनियुक्ते अर्च्चिरादिमार्गस्थिते आ-तिवाहिके

५ देवभेदे च
“संवत्सरादादित्यमादित्याच्चन्द्रमसम्” छा॰ उ॰। आदित्याश्च द्वादश यथोक्तं विष्णुधर्मोत्तरे भारतेच
“घाता मित्रोऽर्य्यमा रुद्रो वरुणः सूर्य्यएव च। भगोविवस्वान् पूषा च सविता दशमः स्मृतः। एकादशस्तथात्वष्टा विष्णुर्द्वादश उच्यते” इति विष्णुध॰।
“धाता-र्य्यमा च मित्रश्च वरुणोऽंशुर्भगस्तथा। इन्द्रो विवस्वान्पूषा च पर्ज्जन्यो दशमः स्मृतः। ततस्त्वष्टा ततो विष्णु-रजघत्यो जघन्यज” इति भा॰ आ॰ प॰ कल्पभेदादनयोर्व्य-वस्था। मासभेदे आदित्यभेदा आदित्यहृदये दर्शिता यथा
“अरुणो माघमासे तु सूर्य्यो वै फाल्गुने तथा। चैत्रे मासिच वेदज्ञो वैशाखे तपनः स्मृतः। ज्यैष्ठे मासि तपेदिन्द्रःआषाढे तपते रविः। गभस्तिः श्रावणे मासि यमोभाद्रपदे[Page0696-b+ 38] तथा। इषे हिरण्यरेताश्च कार्त्तिके च दिवाकरः। मार्ग-शीर्षे तपेच्चित्रः पौषे विष्णुः सनातनः। इत्येते द्वादशा-दित्याः काश्यपेयाः प्रकीर्त्तिताः”।

६ अर्कवृक्षे पु॰। आदित्यस्यापत्यम् ण्य यलोपः।

७ आदित्यापत्ये पुंस्त्री॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदित्य¦ m. (-त्यः)
1. A deity in general.
2. A deity of a particular class; the ADITYAS are twelve in number, they are forms of SURYA or the sun, and appear to represent him as distinct in each month of the year.
3. The sun. E. अदिति the mother of the gods, and घञ् derivative aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदित्य [āditya], a. [अदितेरपत्यं ण्य P.IV.1.85.]

Solar, belonging to, or born in, the solar line; आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो U.6.18.

Devoted to, or originating from, Aditi; आदित्यं चरुं निर्वपेत् Yaj. Ts.2.2.6.1.

Belonging to, or sprung from, the Ādityas.

त्यः A son of Aditi; a god, divinity in general. (The number of Ādityas appears to have been originally seven, of whom Varuṇa is the head, and the name Āditya was restricted to them (देवा आदित्या ये सप्त Rv.9.114.3.). In the time of the Brāhmaṇas, however, the number of Ādityas rose to 12, representing the sun in the 12 months of the year; धाता मित्रो$र्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमः स्मृतः ॥ एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।); आदित्यानामहं विष्णुः Bg.1.21; Ku. 2.24. (These 12 suns are supposed to shine only at the destruction of the universe; cf. Ve.3.8; दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्काः).

The sun; Vāj.4.21.

A name of Viṣṇu in his fifth or dwarf-incarnation; स्वयंभूः शंभुरादित्यः V. Sah.

N. of the Arka plant (Mar. रुई). -त्यौ (dual) N. of a constellation, the seventh lunar mansion (पुनर्वसु).

Comp. केतुः N. of a son of Dhṛitarāṣtra.

The charioteer of the sun. -चन्द्रौ (dual) the sun and the moon. -दर्शनम् 'Showing the sun' (to a child of 4 months), one of the संस्काराs. -पत्र्यः N. of a plant. (-त्र्यम्) the leaf of the Arka tree. -पर्णिनी a creeping plant with gold-coloured flowers, growing near the bank of water. -पुराणम् N. of an Upapurāṇa.-पुष्पिका red swallow wort (Mar. शिरदोडी). -बन्धुः N. of Śākyamuni. -भक्ता [आदित्ये भक्ता] N. of a plant. see अर्कभक्ता. -मण्डलम् the disc or orb of the sun.

व्रतम् worship of the sun; a व्रत or rite.

N. of a Sāman.-सूनुः 'the son of the sun', N. of Sugrīva, Yama, Saturn, Manu and Karṇa &c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदित्य mfn. ( Pa1n2. 4-1 , 85 )belonging to or coming from अदितिTS. ii , 2 , 6 , 1 S3Br. etc. Page137,2

आदित्य m. " son of अदिति"

आदित्य m. pl. N. of seven deities of the heavenly sphere RV. ix , 114 , 3 , etc. S3Br. iii , 1 , 3 , 3 (the chief is वरुण, to whom the N. आदित्यis especially applicable ; the succeeding five are मित्र, अर्यमन्, भग, दक्ष, अंश; that of the seventh is probably सूर्यor सवितृ; as a class of deities they are distinct from the विश्वे देवाःChUp. ; sometimes their number is supposed to be eight TS. Sa1y. ; and in the period of the ब्राह्मणs twelve , as representing the sun in the twelve months of the year S3Br. iv , 5 , 7 , 2 , etc. )

आदित्य m. N. of a god in general , especially of सूर्य(the sun) RV. AV. AitBr. S3Br. S3is3. etc.

आदित्य m. N. of विष्णुin his वामनor dwarf अवतार(as son of कश्यपand अदिति) ChUp.

आदित्य m. the plant Calotropis Gigantea L.

आदित्य m. du. ( औ)N. of a constellation , the seventh lunar mansion L.

आदित्य n. = औ(See. पुनर्-वसु)

आदित्य n. N. of a सामन्ChUp.

आदित्य mfn. ( Pa1n2. 4-1 , 85 ) relating or belonging to or coming from the आदित्यs RV. i , 105 , 16 VS. S3Br. etc.

आदित्य mfn. relating to the god of the sun.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--patronymic of विधातृ. भा. VI. १८. 3.
(II)--a name of सूर्य (s.v.); फलकम्:F1:  Br. II. २१. 3; M. 2. ३१-4.फलकम्:/F presented the jewel Syamantaka to सत्राजित्. फलकम्:F2:  Vi. IV. १३. ११.फलकम्:/F
(III)--from आदान receiving waters and letting them off; कालाग्नि, पितामह and सोम, all प्रपितामहस्; फलकम्:F1:  वा. १२. ३७; ३१. २९-35.फलकम्:/F same as Rudra; see रुद्र। फलकम्:F2:  Br. II. १०. २२.फलकम्:/F
(IV)--a division of the night. वा. ६६. ४४.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀDITYA : The twelve sons born to the sage Kaśyapa of his wife Aditi are known as the twelve Ādityas. They are the following: Dhātā, Mitra, Aryamā, Rudra, Varuṇa, Sūrya, Bhaga, Vivasvān, Pūṣā, Savitā, Tvaṣṭā and Viṣṇu. Besides these Aditi had twentyone children including Indra. All of them are called Ādityas mean- ing children of Aditi. From the thirtythree sons of Aditi were born the thirtythree crores of devatās. Of these the eldest is Indra and the youngest, Vāmana. (Śloka 36, Chapter 66, Ādi Parva, M.B.). (There is corrobora- tion for this in Śloka 14, Sarga 14, Araṇya Kāṇḍa, Vālmīki Rāmāyaṇa).

Sirdar K.M. Panikar in his preface to the book “Ṛgveda- saṁhitā” writes thus about Ādityas: “Generally we think of Sūrya (the Sun) when we hear the word Āditya. But there are many different Ādityas in Ṛg- veda, chief of them is Varuṇa. Though Savitā, Pūṣā and Mitra are all synonyms of Sūrya in Ṛgveda they are all separate devas. There is no end to the varieties of Ādityas and their prominence in the Vedas. Sum- marising we can say thus. The familiar devas like Indra, Agni, Varuṇa and Sūrya are not found in the same form or power as we are taught to believe. Those whom we have lowered down to the posts of the eight sentries of the universe are very prominent devatās in the Vedas. Many Ādityas have merged in Sūrya and winds in the god of Vāyu. Rudra has merged in Śiva. Who will believe that the all-powerful Deva of the Ṛg- veda and the vainglorious Indra who lives in fear of men doing penance are one and the same person?”


_______________________________
*12th word in left half of page 86 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आदित्य&oldid=490699" इत्यस्माद् प्रतिप्राप्तम्