एका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एका, स्त्री, (एक + टाप् ।) दुर्गा । यथा । “एका गुणार्था त्रैलोक्ये तस्मादेका स उच्यते” । देवी सा परमार्थेति वदन्ते भिन्नदर्शिनः ॥ इति” । “एका सा तु पृथक्त्वेन विना सर्व्वत्र विश्रुता । यथा तु व्यज्यते वर्णैर्विचित्रैः स्फटिको मणिः ॥ तथा गुणवशाद्देवी नानाभावेषु वर्ण्यते” ॥ इति च देवीपुराणे देवीनिरुक्तं नाम ४५ अध्यायः ॥ (अद्वितीया । यथा, मार्कण्डेये ९० । ७ । “एकैवाहं जगत्यत्र द्वितीया का ममापरा” । “अजामेकां लोहितशुक्लकृष्णां” । इति श्रुतिः ॥ एकैव । स्त्री । यथा भट्टिः १ । १४ । “प्रासोष्ट शत्रुघ्नमुदारुचेष्टम् एका सुमित्रा सह लक्ष्मणेन” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एका¦ स्त्री सर्वत्र अभिन्नत्वेन स्थितायां

१ दुर्गायाम्
“एका सातु पृथक्त्वेन विना सर्वत्र विश्रुता। यथा तु व्यज्यते व-र्णैर्विचित्रैःस्थटिकोमणिः। तथा गुणवशाद्देवी नानाभावेषुवर्ण्यते” देवीपु॰

४५ अ॰।

२ द्वितीथरहितस्त्रियाम्।
“एकै-वाहं जगत्यत्र का द्वितीया ममापराः” देवीमा॰।

३ ए-कत्वान्वितस्त्रियाञ्च
“अजामेकां लोहितशुक्लकृष्णां बह्वीः[Page1485-b+ 38] प्रजाः सृजमानां सरूपाः” इति श्रुतिः
“एका सुमित्रासह लक्षणेनेति” भट्टिः। पुत्रयोरेकत्रोत्पत्तिकथनार्थमे-केति विशेषणम्। अन्ये तु ए विष्णौ कायति अभिरमतेकै--क अलुक् स॰। विष्णुरतेत्यर्थमाहुस्तेन

४ तदर्थे त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एका f. N. of दुर्गा

"https://sa.wiktionary.org/w/index.php?title=एका&oldid=493962" इत्यस्माद् प्रतिप्राप्तम्