कुमार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमार, त् क केलौ । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-अकं-सेट् ।) ह्रस्वी । अचुकुमारत् । इति दुर्गादासः ॥
कुमारम्, क्ली, (कुमारयति नन्दति यत्र यस्मिन् सती- त्यर्थः ।) जात्यकाञ्चनम् । इति मेदिनी । खा~टि सोणा इति भाषा ॥
कुमारः, पुं, (कुत्सितो मारः कन्दर्पो यस्मात् ।) कार्त्तिकेयः तदुत्पत्तिविवरणन्तु कार्त्तिकेयशब्दे द्रष्टव्यम् ॥ (तथा महाभारते । १ । ६६ । २३-२४ । “अग्नेः पुत्त्रः कुमारस्तु श्रीमान् शरवणालयः । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः । कीर्त्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः” ॥ कौ पृथिव्यां मारयति दुष्टान् । कु + मृ + णिच् + अच् ।) नाठ्योक्तौ युवराजः । इत्यमरः ॥ (राज- कुमारः । यथा, रघौ ७ । ६३ । “ततः प्रियोपात्तरसेऽधरौष्ठे निवेश्य दध्मौ जलजं कुमारः” ॥) शुकः । अश्ववारकः । (कुमारयति क्रीडतीति । कुमार-त् क क्रीडने + अच् ।) पञ्चवर्षीयबालकः । (यथा मनौ ७ । १७५ । “कन्यानां सम्प्रदानञ्च कुमाराणाञ्च रक्षणम्” ॥ “तस्यास्तु खल्वमरायाः प्रपतनार्थे खल्वेवमेव- कर्म्मणि क्रियमाणे जातमात्रे ऽस्यैव कुमारस्य कार्य्याण्येतानि कर्म्माणि भवन्ति तद्यथा-अश्म- नोः सङ्घट्टनं कर्णयोर्मूले शीतोदकेनोष्णोदकेन वा सुखपरिषेकः । तथा संक्लेशविहतान् प्राणान् पुनर्लभेत कृष्णकपालिका शूर्पेण चैनमभिनिष्पु- नीयाद् यद् यच्चेष्टं स्यात् यावत् प्राणानां प्रत्यागमं तत्तत् सर्व्वमेव कुर्य्युः । ततः प्रत्यागतप्राणं प्रकृति- भूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपाद- येत् । अथास्य ताल्वोष्ठकण्ठ-जिह्वा-प्रमार्ज्जन- मारभेत अङ्गुल्या सुपरिलिखितनखयासुप्रक्षा- लितोपधानकार्पासपिचुमत्या प्रथमं प्रमार्ज्जित- स्यास्यच शिरस्तालू कार्पासपिचुना स्नेहगर्भेण प्रतिच्छादयेत् । ततो ऽस्यानन्तरं कार्यं सैन्धवोप- हितेन सर्पिषा प्रच्छर्द्दनम्” ।
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमार पुं।
कार्तिकेयः
समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण
1।1।40।2।3
बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः। षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः। शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः। कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥
जनक : शिवः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता
कुमार पुं।
युवराजः
समानार्थक:कुमार,भर्तृदारक
1।7।12।2।1
भगिनीपतिरावुत्तो भावो विद्वानथावुकः। जनको युवराजस्तु कुमारो भर्तृदारकः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमार¦ केलौ अद॰ चुरा॰ उभ॰ अक॰ सेट्। कुमारयति तेअचुकुमारत् त। कुमरयाम् बभूव आस चकार चक्रे।
कुमार¦ पु॰ कुमारयति क्रीडोत, कुत्सितो मारो यस्मात्, कौ-मारयति दुष्टान् मृ--णिच्--अच् वा।
१ कार्त्तिकेये,नाट्यीक्तौ
२ युवराजे, अम॰
३ शुके पक्षिणि
४ अश्ववारके,
५ वरुणवृक्षे
६ पञ्चवर्षीये, बालके च मेदि॰।
“कौनारंपञ्चमाब्दान्तं पौगण्डं दशमावधि” भाग॰
१० श्रीधर[Page2106-a+ 38] धृतवचनम्। स्त्रियां वयोवाचित्वात् ङीष्।
“त्रीणिवर्षाण्युदीक्षेत कुमार्य्युतुमती सती” मनुः।
७ सिन्धुनदेशब्दर॰।
८ अर्हदुपासकभेदे हेमच॰।
९ शाकद्वीपेश्वरपुत्रभेदे
१० तदीयवर्षभेदे च विष्णुपु॰
“शाकद्वीपेश्वरस्यापि भवस्यसुमहात्मनः। सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त च। जलदश्च कुमारश्च सुकुमारो मणीवकः। कुमुदोदः, समो-दाकिः सप्तमश्च महाद्रुमः। तत्संज्ञान्यपि तान्येव सप्त-वर्षाण्यनुक्रमात्”।
११ शुक्तिमत्पर्व्वतोद्भवे ऋषिकुल्या-भेदे
“ऋषिकुल्याः कुमाराद्याः शुक्तिमत्पादसम्भवाः” वि-ष्णुपु॰।
१२ सुन्दरे त्रि॰।
१३ अविवाहितावस्थायामुपचारात्।
“कौमारा पूर्ब्बबचने” पा॰।
“अनेकानि सहस्राणिकुमारव्रह्मचारिणाम्। दिबं गतानि विप्राणामकृत्वाकुलसन्ततिम्” मनुः। अतएव अन्नदाकल्पे
“एकवर्षाभयेत्सन्ध्या इत्यादिना षोडशवर्षान्ताया अपि कुमारीत्वमुक्तम्। तत्र बालके
“कुमारं माता बिभर्त्ति” ऋ॰
५ ,
२ ,
१ , कुमारस्य रेतः सिक्तं न सम्भवति”
“शत॰ ब्रा॰
१ ,
४ ,
५ ,
७ ,
“कन्यानां संप्रदानञ्च कुमाराणाञ्च रक्षणम्” मनुः नाट्योक्तिं विनापि काव्ये राजदारके कुमारशब्दःप्रयुज्यते।
“आप्तः कुमारानयनोत्सुकेन भोजेन दूतो-रघवे विसृष्टः”।
“कुमारसैन्यं सपदि स्थितं च तत्” रघुः
“तदानुजग्मतुः स्थाणुं कुमाराविव पाचकी” रामा॰। विश्वसारोक्ते
१५ मन्त्रमेदे पु॰
१६ विद्यायां स्त्री ङीप्। मन्त्रविशेषाणां संज्ञाभेदाश्च तन्त्रसारे दर्शिता यथा( विश्वसारे निबन्धे च।
“छिन्नोरुद्धः शक्तिहीनःपराङ्मुख उदीरितः। बधिरोनेत्रहीनश्च कीलितःस्तम्भितस्तथा। दग्धःस्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः। भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः। हृतवीर्य्यश्चभीमश्च प्रध्वस्तोबालकः पुनः। कुमारश्च युवा प्रौढोवृद्धोनिस्त्रिंशकस्तथा। निर्व्वीजः सिद्धिहीनश्च मन्दः कू-टस्तथा पुनः। निरंशकः सत्वहीनः केकरोजीवही-नकः। धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्त्तकः। अतिदीप्तोऽङ्गहीनः स्यादतिक्रुद्धः समीरितः। अति-क्रूरश्च सुब्रीडः शान्तमानस एव च। स्थानभ्रष्टश्च विक-लोनिःस्नेहः परिकीर्त्तितः। अतिवृद्धः पीडितश्च व-क्ष्याम्येषन्तु लक्षणम्। मनोर्यस्वादिमध्यान्तेष्वानिलं वीज-मुच्यते। संयुक्तं वा वियुक्तं वा पुराक्रान्तस्त्रिधा पुनः। चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः। आदिमध्या-वसानेषु भूवीजद्वयलाञ्छितः। रुद्धमन्त्रः स विज्ञेयोभ-[Page2106-b+ 38] क्तिमुक्तिविवर्जितः। मायात्रितयश्रीवीजराकाहीनस्तुयोमनुः। शक्तिहीनः स कथितो यस्य मध्ये न विद्यते। कामवीजं मुखे माया शिरस्यङ्कुशमेव च। असौ परा-ङ्मुखः प्रोक्तोहकारो विन्दुलाञ्छितः। आद्यन्तमध्येविन्दुर्व्वा न भवेद्बधिरः स्मृतः। पञ्चवर्णोमनुर्यःस्याद्रेफा-र्केन्दुविवर्ज्जितः। नेत्रहीनः स विज्ञेयो दुःखशो-कामयप्रदः। आदिमध्यावसानेषु हंसप्रासादवाग्भवौ। हकारोविन्दुमान् जीवो वावश्चापि चतुःकलः। मायानमामि च पदं नास्ति यस्मित् स कीलितः। एकं म-ध्ये द्वयं मूद्ध्नि यस्मिन्नस्त्रपुरन्दरौ। न विद्येते स मन्त्रस्तुस्तम्भितः सिद्धिवर्ज्जितः। वह्निर्वायुसमायुक्तो यस्य म-न्त्रस्य मूर्द्धनि। सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते। अस्त्रंद्वाभ्यां त्रिभिः षड्भिरष्टभिर्दृश्यतेऽक्षरैः। स्रस्तः सोऽभिहितो यस्य मुखे न प्रणव स्मृतः। शिवो-वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः। आदौमध्ये तथा चान्ते यस्य मार्ण्णचतुष्टयम्। सएव मलि-नो मन्त्रः सर्वविघ्नसमन्वितः। यस्य मध्ये दकारोऽस्तिकवचं मूर्द्धनि द्विधा। अस्त्रं तिष्टति मन्त्रः स तिर-स्कृत उदाहृतः। द्योद्वयं हृदये शीर्षे वषट्वौषट् तुमध्यमे। सएव भेदितोमन्त्रः सर्वशास्त्रविवर्ज्जितः। त्रि-वर्ण्णो हंसहीनोयः स सुषुप्तौदाहृतः। मन्त्रोवाप्यथ वाविद्या सप्ताधिकदशाक्षरा। फट्कारपञ्चकादिर्योमदोन्म-त्त उदाहृतः। तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रःस मूर्च्छितः। विरामेऽङ्गस्य यो मन्त्रो हृतवीर्य्यः सउच्यते। आदौ मध्ये तथा चान्ते चतुरस्रयुतोमनुः। ज्ञातव्योभीम इत्येष यःस्यादष्टादशाक्षरः। एकोनविं-शत्यर्ण्णो वा योमन्त्रस्तारसंयुतः। हृल्लेखाङ्कुशवीजाढ्यंप्रध्वस्तं तं प्रचक्षते। सप्तवर्ण्णो भवेद्बालः कुमारोऽष्टा-क्षरःस्मृतः। पोडशार्ण्णो युवा प्रौढश्चत्वारिंसल्लिपिर्म्मनुः। त्रिंशदर्णश्चतुःषष्टिवर्णोमन्त्रः शताक्षरः। चतुःशताक्षर-श्चापि वृद्धः स परिकीर्त्तितः। नवाक्षरो ध्रुवयुतो म-नुर्निस्त्रिंश ईरितः। यस्यावसाने हृदयं शिरोमन्त्रौ चमध्यतः। शिखा वर्म्म च न स्यातां वौषट्फट्कार एववा। शिबशक्त्यर्ण्णहीनो वा स निर्वीजः उदाहृतः। एषु स्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते। समन्त्रः सिद्धिहीनःस्या न्मन्दःपङ्क्त्यक्षरोमनुः। कूट एका-क्षरो मन्त्रः स एवोक्तोनिरंशकः। द्विवर्ण्णः सत्वहीनःस्याच्चुतर्व्वर्ण्णस्तु केकरः। षडक्षरोजीवहीनः सार्द्धसप्ता-[Page2107-a+ 38] क्षरोमनुः। सार्द्धद्वादशवर्णो वा धूमितः स तु निन्दितः। सार्द्धवीजत्रयस्तद्वदेकविंशतिवर्णकः। विंशदर्णस्त्रि-शदर्ण्णोवःस्यादालिङ्गितः स्मृतः। द्वाविंशत्यक्षरो मन्त्रोमोहितः परिकीर्त्तितः। द्वात्रिंशदर्णो मन्त्रोयः स-प्तविंशतिवर्णकः। क्षुधार्त्तः स तु विज्ञेयश्वतुर्विंशति-वर्णकः। एकादशाक्षरोवाऽपि पञ्चविंशतिसंख्यकः। त्र-योविंएतिवर्णो वा मन्त्रोऽतिदीप्तईरितः। षड्विंश-त्यक्षरोमन्त्रः षट्त्रिंशदर्णकस्तथा। त्रिंशदेकोनवर्णो वात्वङ्गहीनः स एव हि। अष्टाविंशत्यक्षरोय एकत्रिंशदथा-पि वा। अतिक्रुद्धः स विज्ञेयो निन्दितः सर्वकर्म्मसु। त्रिंदशदक्षरकोमन्त्रस्त्रयस्त्रिंशदथापि वा। अतिक्रूरःस सिज्ञेयो निन्दितः सर्वकर्म्मसु। चत्वारिंशत्तमा वि-द्या त्रिषष्टिर्यावता भवेत्। तावत्संख्या निगदिता मन्त्राः स{??}डसंज्ञकाः। पञ्चषडक्षरा ये स्युर्मन्त्रास्ते शा-न्तमानसाः। एकोनशतपर्य्यन्तं पञ्चषष्ठ्यक्षरादिति। ते सर्वेकथितामन्त्राः स्थानभ्रष्टा न शोभनाः। त्रयोदशाक्षराये स्युर्म्मन्त्राः पञ्चदशाक्षराः। विकलास्तेऽभिधीयन्ते शतं-सार्द्धशतंतथा। शतद्वयंद्विनयतिरेकहीना तथापि वा। यावच्छतत्रयं संख्या निःस्नेहास्ते प्रकीर्त्तिताः। चतुः-शतमथारभ्य यावद्वर्णसहस्रकम्। अतिवृद्धः स मन्त्र-स्तु सर्वशास्त्रविवर्ज्जितः। सहस्रार्णाधिका मन्त्रा द-ण्डकाः पीडिताह्वयाः। द्विसहस्राक्षरामन्त्राः खण्डशः-सप्तधा कृताः। ज्ञातव्यास्तोत्ररूपास्ते मन्त्राएते यथा-स्थिताः। तथा विद्याश्च वोद्धव्या मन्त्रिमिः सर्वकर्म्मसु। दोषानिमानविज्ञाय योमन्रं भजते बुधः। सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि” अथ मन्त्राणां दोष-शान्तिः तदुक्तं तत्रैव
“छिन्नादिदुष्टाये मन्त्रास्तन्त्रे-तन्त्रेनिरूपिताः। ते सर्वे सिद्धिमायान्ति मावृकार्णप्रभा-घतः। मारकार्णैः पुटीकृत्य मन्त्रं विद्यां वि-शेषतः। शतम{??}त्तरं पूर्वं प्रजपेत् फलसिद्धये। तदामन्त्रोमहाविद्या यथोकफलदा भवेत्। मातृकापुटितंकृत्वा मध्ये वर्णान्निधाय च। मत्त्रवर्णांस्ततः कुर्य्याच्छो-धनन्तत्र सम्मतम्। बद्ध्वा तु योनिमुद्रां तां संङ्कोच्याधा-रपङ्कजम्। तदुत्पन्नान् मत्त्रवर्णान् कुर्वतश्च गतागतान्। ब्रह्मरन्ध्रावधि ध्यात्वा वायुमापूर्य्य कुम्भयेत्। सहस्रंप्रजपेन्मन्त्रं मत्रदोषोपशात्तये”। तथा।
“एषु दोषेषुप्राप्तेषु मायां काममथापि वा। क्षिप्वा चादौ श्रियं चैवतद्दूषणविमुक्तये”। तथा।
“तारसंपुटितोवापि दुष्टम-[Page2107-b+ 38] न्त्रोऽपि सिध्यति। यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्यसिध्यति” तथा।
“प्रणवोमावृका देवी हृल्लेखेत्यमृत-त्रयम्। अमृतत्रयसंयोगाद्दुष्टमन्त्रोऽपि सिध्यति” तत्र विद्यायां
“कुमारी या च विद्येयं त्वया शप्तापतिव्रते!। केवलं शिवरूपेण शक्तिरूपेण केबलम्” मुण्डमा॰।
१७ स्वरोदयेक्ते बालादिचक्रस्थे स्वरभेदेपु॰ चक्रशब्दस्थबालादिचक्रे विवृतिः। तत्र स्कन्दे
“अग्नेपुत्रः कुमारस्तु श्रीमान् शरवणालयः” भा॰ आ॰
६६ अ॰।
“कुमारमभिगम्याय वीराश्रमनिवासिनम्। अश्वमेधमवाप्नोति नरो नास्त्यत्र न संशयः” भा॰ व॰
८४ अ॰। तस्य कन्दर्पापेक्षयाधिकसौकुमार्य्यात्तथात्वम्।
१८ वालोपद्रावकग्रहभेदे
“स्कन्दः सृष्टो भगवता देवेनत्रिपुरारिणा। बिभर्त्ति चापरां संज्ञां कुमारः इति सग्रहः” सुश्रुतः।
१९ शुद्धसुवर्ण्णे न॰ मेदि॰। संज्ञायां कन्। वरुणवृक्षे तिक्तशाके। स्वार्थे क। बालके हेमच॰। तस्येदं तस्य भावो वा अण्। कौमार शिशुत्वे बाल्या-वस्थायां
“देहिनोऽस्मिन् यथा देहे कौमारं यौवनंजरा” गीता।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमार¦ r. 10th cl. (कुमारयति) To play, especially as a child also कुमाल।
कुमार¦ m. (-रः)
1. A boy, one under five years of age.
2. A name of KARTIKEYA.
3. A prince, the heir apparent, and who is associated to the empire, (in theatrical language.)
4. A horse-man, a caval- ier.
5. A parrot.
6. One of the attendants on the twenty-four Jinas, and also a sanctified character amongst the Jaina sect.
7. A tree, (Tapia cratæva) see वरुण
8. A name of Sind'hu river or Indus. n. (-रं) Pure gold. f. (-री)
1. A young girl, one from ten to twelve [Page189-b+ 60] years old, a virgin: or in the Tantras any virgin to the age of sixteen, or as long as menstruation has not commenced.
2. A name of DURGA.
3. The central part of the universe according to Hindu geography, Jambu Dwipa or India.
4. The most southerly of the nine portions of the known continent, or of Jambu Dwipa, the southern extremity of the peninsula, whence Cape Comorin or Kumari.
5. The name of a river flowing from the mountain Sactiman.
6. A plant, (Clitoria ternatea:) see अपराजिता।
7. Double jasmin.
8. The aloe tree, (Aloes perfoliata:) see घृतकुमारी।
9. The Syama, a bird so named. E. कुमार to play as a child, affix अच् fem. affix ङीष्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमारः [kumārḥ], [cf. Uṇ.3.138]
A son, boy; a youth; यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः R.3.48.
A boy below five.
A prince, an heir-apparent (especially in dramas); विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् R.12.11; कुमारस्यायुषो बाणः V.5; उपवेष्टुमर्हति कुमारः Mu. 4 (said by Rākṣasa to Malayaketu).
N. of Kārtikeya, the god of war; कुमारकल्पं सुषुवे कुमारम् R.5.36; कुमारो$पि कुमारविक्रमः 3.55.
N. of Agni.
A parrot.
N. of the author of a Dharmaśāstra. -रम् pure gold. -Comp. -जीवः N. of the plant पुत्रंजीव.
पालनः one who takes care of children.
N. of king Śālivāhana.
भृत्या care of young children.
care of a woman in pregnancy or confinement, midwifery; कुमार- भृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि R.3.12. -ललिताf.
delicate love-dalliance.
N. of a metre consisting of seven syllables in a quarter. -लीढः also कुब्जालीढः N. of the founder of a sect. -वाहिन्, -वाहनः a peacock.-व्रतम् a vow of eternal celibacy. -सूः f.
an epithet of Pārvati.
N. of the Ganges. (-m.) an epithet of Agni. -संभवम् N. of Kalidāsa's epic.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमार m. (fr. 1. कु+ मार, मृ२? " easily dying " ; fr. 2. कम्Un2. iii , 138 )a child , boy , youth
कुमार m. son RV. AV. etc.
कुमार m. a prince , heir-apparent associated in the kingdom with the reigning monarch (especially in theatrical language) Ragh. Ma1lav. etc.
कुमार m. a groom L.
कुमार m. N. of स्कन्द(or कार्त्तिकेयSee. ; represented as a beautiful youth ; also as the author of certain grammatical सूत्रs See. कला-प; also as causing certain diseases Sus3r. ) MBh. Hariv. etc.
कुमार m. N. of a son of अग्नि(who is the author of some Vedic hymns) RAnukr.
कुमार m. one of the nine names of अग्निS3Br. vi
कुमार m. N. of a प्रजापतिVa1yuP.
कुमार m. of मञ्जु-श्रीBuddh.
कुमार m. of a river VP.
कुमार m. of the सिन्धुriver L.
कुमार m. of the author of a धर्मशास्त्र
कुमार m. of the attendant of the twelfth अर्हत्of the present अवसर्पिणीJain.
कुमार m. a parrot L.
कुमार m. the tree Capparis trifoliata(See. कुमारक)
कुमार m. pl. N. of a people MBh. ii , 1075 and 1870 (See. कुमालक)
कुमार n. N. of a वर्षgoverned by कुमार(the son of भव्य) VP.
कुमार n. pure gold L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I) (सुब्रह्मण्य)--born in शरकानन or शरवन and was nursed by the six कृत्तिकस्, hence कार्त्ति- keya: Sucking milk with six mouths, the child came to be known as षण्मुख. Appointed commander of the celes- tial army in the तारकासुर war and killed तारक. फलकम्:F1: भा. IV. 7. ६४-5; Vi. I. १५. ११५. M. 5. २६-7; १६० (whole): २२५. १८; वा. ६६. २४.फलकम्:/F शाख, विशाख and Naigameya were brothers. फलकम्:F2: Ib. ६६. २४; M. 5. २६१७.फलकम्:/F An अवतार् of Hari. फलकम्:F3: भा. XI. 4. १७.फलकम्:/F A son of Agni through स्वाहा, and the son of गन्गा by taking Agni's गर्भ due to Uma's curse. Hence son of शिव. फलकम्:F4: M. १३५. ७९.फलकम्:/F His birth was heralded by divine musicians, siddhas, चारणस्, यक्षस्, kinnaras and others. Fed with milk by the wives of the seven sages except अरुन्धती. Hari presented him two birds--fowl and peacock, सरस्वती the lute, ब्राह्मी a goat, and शिव a ram. फलकम्:F5: Br. III. 3. २४; १०. ३५. -४८; M. २०३. 6; वा. ७२. ३५-46.फलकम्:/F Married देवसेना, the daughter of Indra: also known as Skanda, Guha, and Deva- सेनापति. फलकम्:F6: Br. IV. ३०. ३९, ९९ to the end; वा. ७२. ४८-50; Br. III. १०. ४८-51.फलकम्:/F मयूर as the riding animal of. फलकम्:F7: M. १३५. ७६.फलकम्:/F Wounded by Maya in the battle of Tripuram. फलकम्:F8: M. १९२. ३३.फलकम्:/F
(III)--a son of Havya, after whom कुमार- वर्ष was called. Br. II. १४. १७-18; वा. ३३. १६.
(IV)--see भौम। Br. II. २३. ८५; २८. ९२.
(V)--a प्रजापति. Br. III. 1. ५४; वा. ६५. ५३.
(VI)--an author of Architecture. M. २५२. 3.
(VII)--rose out of the contemplation of ब्रह्मा in the २९थ् कल्प; with white complexion and a resplendant fearful countenance and mouth; ब्रह्मा wor- shipped him as the Gods of Gods, पुराणपुरुष, the best of yogins and laughed a hearty laugh in wonder; also of red colour. वा. २२. १०-23.
(VIII)--at the commencement of the eighth कल्प ब्रह्मा got a son (नीललोहित) who was weeping; he asked ब्रह्मा to give him a name for which ब्रह्मा said रुद्र; again he cried for a second name and ब्रह्मा said, भव; the other names given in order were शिव, पशुपति, ईश, भीम, उग्र and महादेव। वा. २७. 4-१६.
(IX)--a नाग. वा. ६९. ७१. [page१-397+ २५]
(X)--a son of Bhavya of शाकद्वीप. Vi. II. 4. ६०.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kumāra^1 : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 15, 1.
Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.
_______________________________
*6th word in right half of page p12_mci (+offset) in original book.
Kumāra^2 : m.: A mythical bird, living in the world of Suparṇas 5. 99. 13, 1.
Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in the destruction of kinsmen 5. 99. 2-8.
_______________________________
*7th word in right half of page p12_mci (+offset) in original book.
previous page p11_mci .......... next page p13_mci
Mahabharata Cultural Index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kumāra^1 : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 15, 1.
Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.
_______________________________
*6th word in right half of page p12_mci (+offset) in original book.
Kumāra^2 : m.: A mythical bird, living in the world of Suparṇas 5. 99. 13, 1.
Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in the destruction of kinsmen 5. 99. 2-8.
_______________________________
*7th word in right half of page p12_mci (+offset) in original book.
previous page p11_mci .......... next page p13_mci
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index