सामग्री पर जाएँ

क्वाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाथः, पुं, (क्वथ् + भावे घञ् ।) दुःखम् । व्यसनम् । द्रव्यनिष्पाकः । इति हेमचन्द्रः ॥ क्वाथ्यमानं तोयं त्रिविधम् । पादावशेषम् १ अर्द्धावशेषम् २ त्रि- पादावशेषञ्च ३ । अस्य नाम पारिभाषिको- ष्णोदकम् । तत्र त्रिपादावशेषं वातनाशकम् । अर्द्धावशेषं पित्तनाशकम् । पादावशेषं कफनाश- कम् । लघु अग्निवर्द्धकञ्च । तेषां मध्ये त्रिपादाव- शेषजलं हेमन्ते शिशिरे च प्रशस्तम् । वसन्ते पादावशेषजलं प्रशस्तम् । शरदि ग्रीष्मे च अ- र्द्धावशेषजलं प्रशस्तम् । वर्षायां अष्टभागावशेष- जलं प्रशस्तम् । तत्काले बहुदोषत्वात् । दिनपक्व- जलं रात्रौ गुरु रात्रिपक्वजलं दिवा गुरु । इति राजवल्लभः ॥ यथास्य करणप्रणाली ॥ “पानीयं षोडशगुणं क्षुणे द्रव्यपले क्षिपेत् । मृत्पात्रे क्वाथयेद्ग्राह्यमष्टमांशावशेषितम् ॥ तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् । शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते” ॥ इति शार्ङ्गधरेण मध्यखण्डे द्वितीयाध्याये उक्तम् ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाथ¦ पु॰ क्वथ--करणे घञ्।

१ अतिदुःखे हेम॰। दुःखेन हिचित्तं क्वय्यमानमिव भवतीति तस्य तथात्वम् वैद्यकोक्तेजलादेः पाकभेदे यथा भावप्रकाशे
“पानीयं षोडशगुणं क्षुण्णं द्रव्यपले क्षिपेत्। मृत्पात्रेक्वाथयेद् ग्राह्यमष्टमांशावशेषितम्। कर्षादौ तु पलं याव-द्दद्यात् षोडशिकं जलम्। ततस्तु कुडवं यावत्तोयमष्टगुणंभवेत्। चतुर्गुणमतश्चोर्द्धं यावत्प्रस्थादिकं जलम्। षोडशिकं षोडशगुणम्।
“तज्जलं पाययेद्धीमान् कोष्णंमृद्वग्निसाधितम्। शृतः क्वाथः कषायश्च निर्यूहः सविगद्यते”। क्वाथपानमात्रामाह
“मात्रोत्तमा पलेतत् स्यात् त्रिभिरक्षैस्तु मध्यमा। जघन्या च पलार्द्धेनस्नेहकाथौषधेषु च। तन्त्रान्तरे
“क्वाथ्यद्रव्यपले वारि द्वि-रष्टगुणमिव्यते। चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम्। दीप्तानलं महाकायं पाययेदञ्जलिं जलम्। अन्ये त्वर्द्धंपरित्यज्य प्रसृतिं तु चित्किसकाः। क्काथत्यागमनिच्छन्त-स्त्वष्टभागावशेषितम्। पारम्पर्योपदेशेन वृद्धवैद्याः पल-द्वयम्”। अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया गु-रुत्वात् दीप्तानलं महाकायं पलद्वयं पाययेन्मध्यमाग्निमल्पकायं पलमात्रं पाययेत् मात्रोत्तमा पलेनस्यादित्यादिवचनात्।
“काथे क्षिपेत् सिताश्चां शैश्चतुर्थाष्टमषोडशैः। वातपित्तकफातङ्के विपरीतं मधु स्मृतम्। जीरकं गुग्गु-लुं क्षारं लवणं च शिलाजतु। हिङ्गु त्रिकटुकं चैवक्वाथे शाणोन्मितं क्षिपेत्। क्षीरं घृतं गुडं तैलं मूत्रंचान्यत् द्रयं तथा। कल्क चूर्णा दकं क्वाथे निःक्षिपेत्कर्षसंमितम्। तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः। औषधं हेमरजतमृद्भाजनपरिस्थितम्। पिवेत् प्रसन्न-हृदयः पीत्वा पात्रमधोमुखम्। बिधायाचम्य सलिलंताम्बूलाद्युपयोजयेत्”। क्वाथसेवनप्रकारादि भावप्र॰ दर्शितं यथा
“तत्रानुक्ते प्रभातं स्यात्कषायेषु विशेषतः। मुखयभैषज्यस-म्बन्धो निषिद्धस्तरुणज्वरे। तोयपेयादिसंस्कारे त्वदोषंतत्र भेषजम्”। मुख्यभेषजं क्वाथः तस्य सम्बन्धः पानम्। यतआह
“न कषायं प्रशंसन्ति नराणां तरुणे ज्वरं। [Page2351-a+ 38] कषायेणाकुलीभता दोषा जेतुं सुदुस्तराः”। आकुली-भूताः प्रवृद्धाः स्वमार्गं परिन्यज्य इतस्ततेगताः। अत्रकषायशब्देन क्वाथो गृह्यते। उक्ताश्च क्वाथस्य पर्य्यायाः।
“शृतं काथःकषायश्च निर्य्यूहः स निगद्यत, इति।
“तो-यपेयादिसंस्कारे निर्द्दोषं तत्र भेषजमिति”। तत्र तरु-णज्वरे भेषजम् मुख्यभेषजं क्वाथरूपं न तु कल्कनमु-द्दिश्य कषायः प्रतिषिध्यत इति कल्कनं तोयपेयायवा-ग्वादिकम्। ननु
“स्वरसश्च तथा कल्कः काथश्चहिमफाण्टकौ। ज्ञेया कषायाः पञ्चैते लघवः स्युर्यथो-त्तरम्” इति वचनात् स्वरसादयोऽपि कथं न निषिध्यत्ते। तत्राह
“तत्र यस्तु कषायः स्यात्स वर्ज्ज्यस्तरुणज्वरे” इति। चतुर्थमागावशेषकरणेनाष्टमभागशेषकरणे चकषायवर्णः कषायरसश्च स्यात्। स कषायः क्वाथः सतरुणज्वरे निषिद्धः। कषायस्य लक्षणमाह,
“पादशिष्टःकषायः स्यात्”। अतः षडङ्गादिस्तरुणज्वरे न निषिद्धःपाकादूर्द्धपाके चोक्तलक्षणाभावेन कषायत्वाभाबात्। अथ तरुणज्वरे कषायस्य दोषमाह
“दोषा वृद्धाःकषा-येण स्तम्भितास्तरुणज्वरे। स्तभ्यन्ते न विपच्यन्ते कुर्व-न्ति विषमज्वरम्”। कषायेण स्तम्भिता प्रवृत्तये निवा-रिताः। यत आह कषावरसगुणात्
“कषायः स्तम्भनःशीतोरूक्षः पित्तकफापहः” इत्यादि। स्तभ्यन्ते आध्मानंकुर्वन्ति न विपच्यन्ते सुखेन न विपच्यन्ते दुःखं दत्त्वा-विलम्बेन विपच्यन्ते इति यावत्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाथ¦ m. (-थः)
1. A decoction, any solution or infusion prepared with a continued and gentle heat.
2. Pain, sorrow.
3. Calamity, distress.
4. The mixture of the materials for a decoction. E. क्वथ to decoct, घञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाथः [kvāthḥ], [क्वथ्-करणे घञ्]

A decoction, solution prepared with a continued or gentle heat.

The mixture of the materials for decoction.

Pain, sorrow, distress.-Comp. -उद्भवम् blue vitriol used a collyrium. (Mar. मोरचूद.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाथ m. ( g. ज्वला-दि)boiling Ya1jn5. iii , 253 Sch.

क्वाथ m. a decoction , any solution or infusion prepared with a continued or gentle heat VarBr2S. vli , 49 Sus3r. S3a1rn3gS.

क्वाथ m. the mixture of the materials for a decoction W.

क्वाथ m. pain , sorrow , distress L.

क्वाथ etc. See. क्वथ्.

"https://sa.wiktionary.org/w/index.php?title=क्वाथ&oldid=497810" इत्यस्माद् प्रतिप्राप्तम्