गर्भवती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भवती, स्त्री, (गर्भो विद्यतेऽस्याः अस्यां वा । अस्त्यर्थे मतुप् । मस्य वत्वम् ।) अन्तरापत्या । (यथा, भहार्भारते । ३ । १३४ । १७ । “दशैव मासान् बिभ्रति गर्भवत्यः । दशैरका दशदाशा दशार्हाः ॥”) तत्पर्य्यायः । अन्तर्व्वत्नी २ गुर्व्विणी ३ गर्भिणी ४ ससत्त्वा ५ आपन्नसत्त्वा ६ दोहदवती ७ । इति शब्दरत्नावली ॥ उदरिणी ८ गुर्व्वी ९ । इति हेमचन्द्रः । ३ । २०२ ॥ अथ सद्योगृहीत- गर्भाया लक्षणम् । यथा, -- “शुक्रशोणितयोर्योनेरस्रावोऽथ श्रमोद्भवः ॥ सावसादः पिपासा च ग्लानिः स्फुर्त्तिर्भगे भवेत् ॥” तस्या उत्तरोत्तरकालीनलक्षणम् । यथा, -- “स्तनयोर्मुखकार्ष्ण्यं स्यात् रोमराज्युद्गमस्तथा । अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः ॥ छर्दयेत् पक्षभुक्तापि गन्धादुद्विजतेऽशुभात् । असेकः सदनञ्चैव गर्भिण्या लिङ्गमुच्यते ॥” * ॥ पुत्त्रगर्भवत्या लक्षणम् । यथा, -- “पुत्त्रगर्भयुतायास्तु नार्य्यां मासि द्वितीयके । गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु ॥ दक्षिणाक्षिमहत्त्वं स्यात् प्राक्क्षीरं दक्षिणस्तने । दक्षिणोरुः सुपुष्टः स्यात् प्रसन्नमुखवर्णता ॥ पुन्नामधेयद्रव्येषु स्वप्नेष्वपि मनोरथः । आम्रादि फलमाप्नोति स्वप्नेषु कमलादि च ॥” * ॥ कन्यागर्भवतीलक्षणम् । यथा, -- “कन्यागर्भवतीगर्भे पेशीं मासि द्वितीयके । पुत्त्रगर्भस्य लिङ्गानि विपरीतमवेक्षते ॥” * ॥ नपुंसकगर्भवतीलक्षणम् । यथा, -- “नपुंसकं यदा गर्भो भवेद्गर्भोऽर्व्वुदाकृतिः । उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भवती¦ स्त्री गर्भो विद्यतेऽस्या मतुप् मस्य वः। आपन्न-गर्पायां स्त्रियाम् शब्दरत्ना॰ तस्या लक्षणं तत्परि-हार्य्यञ्च कायशब्दोक्तसुश्रुतवाक्ये

१९

२१ पृ॰ दृश्यम्। लब्धगर्भाया गर्भस्थैर्यकारिविधिभेदः सुश्रुतं उक्तो यथा(
“लब्धगर्भायाश्चैतेष्वहःसु लक्षणावटशुङ्गासहदेवा-विश्वदेवानामन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरो वा विन्दून्दद्याद्दक्षिणे नासापुटे पुत्रकामायै नच तान्निष्ठीवेत्। ध्रुवञ्चतुर्णां सान्निध्याद्गर्म। स्याद्विधिपूर्वकः। ऋतु-क्षत्राम्बुवीजानां सामग्र्यादङ्कुरो यथा। एवं जातारूपबन्तो महासत्वाश्चिरायुषः। भवन्त्थृणस्य मोक्तारःसत्पुत्त्राः पुत्त्रिणे हिताः”। शिशौ वर्णभेदहेतुरपितत्रोक्तः तत्र तेजोधातुः सर्ववर्णानां प्रभवः सयदा गर्भोत्पत्तावब्धातुप्रायो भयति तदा गर्भंगौरं करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाश-प्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गोरश्यामम्। यादृग्वर्णमाहारमुपर्सवते गर्भिणी तादृग्वर्णप्रसवा भवती-त्येके भाषन्ते। तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्य-न्धं करोति। तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतंपिङ्गाक्षं, श्लेष्मानुगत शुक्लाक्षं, वातानुगतं विकृताक्षमिति”
“दशैव मासान् विभ्रति गर्भ वत्यः” भा॰ व॰

१३

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भवती¦ f. (-ती) A pregnant female. E. गर्भ a fœtus, and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भवती [garbhavatī], A pregnant woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भवती/ गर्भ--वती f. pregnant MBh. iii Hit.

"https://sa.wiktionary.org/w/index.php?title=गर्भवती&oldid=499104" इत्यस्माद् प्रतिप्राप्तम्