गीत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गीतम्, क्ली, (गीयते इति । गै गाने + भावे क्तः ।) गानम् । इत्यमरः । १ । ६ । २५ ॥ तस्य लक्षणं यथा, “धातुमातुसमायुक्तं गीतमित्युच्यते बुधैः । तत्र नादात्मको धातुर्मातुरक्षरसञ्चयः ॥” * ॥ तद्द्विविधं यथा, -- “गीतञ्च द्विविधं प्रोक्तं यन्त्रगात्रविभागतः । यन्त्रं स्याद्वेणुवीणादि गात्रन्तु मुखजं मतम् ॥” अपि च । “निबद्धमनिबद्धञ्च गीतं द्विविधमुच्यते । दोहा स्याद्बहुलस्तथा गुरुबलो गीता च गोविस्तथा । हेम्नोकोऽप्यथ कारिका त्रिपदिकेत्येतानि काम- द्बिषा संक्षेपेण चतुर्द्दशः प्रकटितान्यत्राधमानि क्रमात् ॥ इति सङ्गीतदामोदरः ॥ (सङ्गीतस्यान्यद्विवरणं गानशब्दे द्रष्टव्यम् ॥ * ॥ गीयते स्म इति । गै शब्दे + कर्म्मणि क्तः ।) शब्दिते त्रि । इति मेदिनी । ते । १६ ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गीत नपुं।
गानम्
समानार्थक:गीत,गान
1।6।25।3।3
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः। कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्.। स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे॥
पदार्थ-विभागः : , गुणः, शब्दः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गीत¦ न॰ गे--गाने भावे क्त। गाने स्वरविशेषनिष्पाद्येशब्दभेदे। तच्च द्विविधं लौकिकं वैदिकञ्च तत्र गान-शब्द वदिकगानलक्षणादिकमुक्तं लौकिमधुनोच्यते। (
“धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः। तत्रनादात्मकोधातुर्मात्रा ह्यक्षरसञ्चयः”। तद्धिविधं यया
“गीतञ्च द्विविधं प्रोक्तं यन्त्रगात्रविभागतः। यन्त्रंस्याद्वेणुवीणादि गात्रन्तु मुखजं मतम्। निवन्ध-मनिवन्धञ्च गीतं द्विविधमुच्यते। अनिवन्धं भवे-द्गीतं वर्णादिनियमं विना। तद्वा गमकधात्वाद्यैरनिवन्धं विनाकृतम्। निवन्धञ्च भनेद्गीतं तालमानरसाञ्चितम्। छन्दोगमकधात्वाद्यैर्वर्णादिनियमैः कृ-तम्। ऋग्भिः पाठ्यमभूद्गीतं सामभ्यः समपद्यत। यजुर्भ्योऽभिनया जाता रसाश्चाथर्वणः स्मृताः। अथसंगीतलक्षणम्
“तालवाद्यानुगं गीतं नटीभिर्यत्रगीयते नृत्यस्यानुग तं रङ्गे तत्सङ्गीतकमुच्यते। सङ्गीतकेन रम्येण सुखं यस्य न चेतसि। मनुष्य-वृषभो लोके विधिनैव स वञ्चितः। संसारदुःखदग्धानामुत्तमानामनुग्रहात्। प्रभुणा शङ्करेणात्रगीतवाद्यं प्रकाशितम्। गीतं वाद्यं तथा नृत्यं तौर्य्य-त्रिकमिदं मतम्। तूर्य्यशब्दोमृदङ्गे स्यात् मुर-[Page2593-a+ 38] जेऽपि च दृश्यते। गीतज्ञो यदि गीतेन नाप्नोति परमंपदम्। रुद्रत्यानुचरो भूत्वा तेनैव सह मोदते। गीतेनहरिणा रङ्गं प्राप्नुवन्त्यपि पक्षिणः। वनादायान्तिफणिनः शिशवो न रुदन्ति च। हृदि चमत्कृतयेकिमतः परं फणिवरोऽश्वतरो वत पञ्चमः। अपिमृता यदवाप मदालसां मधुरगीतवशीकृतशङ्करः। परमानन्दविबर्द्धनमभिमतफल वशीकरणम्। सकल-जनचित्तहरणं विमुक्तिवीजं परं गीतम्”।
“शुद्धशाल-गसङ्कीणभेदाद्गीतं त्रिधा मतम्। एला साद्यभवा सपा-ठकर तत् पञ्चतानेश्वरः कैराते स्वरचक्रपालविजयापत्रं त्रिभङ्गितया। टेङ्कावर्णसरःपुटौ द्विपदिका सुक्ता-वलीमाहकालम्बोदण्डकवर्त्तनीति कथिताः शुद्धासु तेविंशतिः” सङ्गीतदा॰। एलादीनामेतेषां विंशति संख्य-कानां प्रबन्धगीतानामङ्गानि षट् भवन्ति यथा
“पदंतानो विरुदश्च तालः पाठः स्वरस्तथा। एलादीनां षड-ङ्गानि कथितानि विरिञ्चिना। पौनरुक्त्यं न देशीये गीतेदोषोऽभिजायते। शीघ्रोच्चारेण वर्णानां तथा चैव प्रसा-रणे। लिङ्गान्यत्वे विसन्धौ च संयुक्ताक्षरमोक्षणे। परिवर्त्तेऽक्षराणाञ्च ह्रस्वदोर्घव्यतिक्रमे”। शालगसूत्रं यथा
“ध्रुवकोमण्डकश्चैव प्रतिमण्डोनिसारुकः। वासकःप्रतिलाभश्च तथान्या चैकतालिका। यतिश्च झुमरिश्चेति शालगं सूत्रमीरितम्”। सङ्कीर्णसूत्रं यथा
“चैत्रोमङ्गलकस्तथा न गणिका चर्च्चातिनाटोन्नवी दोहास्याद्वहुलस्तथागुरुबलो गीता च गोविस्तथा। हेम्नो-फोप्यथ कारिका त्रिपदिकेत्येतानि कामद्विषा संक्षे-पेण चतुर्द्दश प्रकृटितान्यत्राधमानि क्रमात्” सङ्गीतदा॰। अधिकम् उल्लोप्यशब्दे
१३
७३ पृ॰ दृश्यम्। स्वार्थे कतत्रार्थे
“काव्यालापाश्च ये केचित् गीतकान्यखिलानिच। शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मनः” अग्निपु॰। कर्म्मणि क्त।
२ शब्दिते मेदि॰।
३ स्तुते
४ गान-कर्म्मणि कृतगाने त्रि॰।
“गीता सुगीता कर्त्तव्या” गानशब्दे उदा॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गीत¦ mfn. (-तः-ता-तं) Sung, chaunted, sounded, &c. f. (-ता) A name often applied to books, as the Siva Gita, Rama Gita, Gita Govinda, Bhagavad Gita, which last is also often called Gita only. n. (-तं) Singing, song either general or particular. E. गॄ to sing, affix क्त।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गीत [gīta], p. p. [गै-क्त]
Sung, chanted (lit.); आर्ये साधु गीतम् Ś.1; चारणद्वन्द्वगीतः शब्दः Ś.2.15.
Declared, told, said; गीतश्चायमर्थो$ङ्गिरसा Māl.2; (see under गै also).-तम् Singing, a song; तवास्मि गीतरागेण हारिणा प्रसभं हृतः Ś.1.5; गीतमुत्सादकारि मृगाणाम् K.32. -Comp. -अयनम् a means or instrument of singing, i. e. a lute, flute &c. Bhāg.4.4.5. -क्रमः the arrangement of a song.-गोविन्दम् N. of a lyrical drama by Jayadeva. -ज्ञ a. versed in the art of singing; गीतज्ञो यदि योगेन नाप्नोति परमं पदम् Y.3.116. -प्रिय a. fond of song or music. (-यः) an epithet of Śiva. (-या) N. of one of the Mātṛis attending on Skanda. -बन्धनम् an epic poem to be sung; शृणुमः किमिदं स्वप्ने गीतबन्धनमुत्तमम् Rām.7.71.21.-मोदिन् m. a Kinnara. -शास्त्रम् the science of music.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गीत mfn. ( गै)sung , chanted , praised in songs Mn. ix , 42 MBh. etc.
गीत n. singing , song VS. xxx TBr. iii S3Br. iii , vi A1p. etc.
गीत n. N. of four hymns addressed to कृष्ण
गीत n. N. of a metre.