दया
संस्कृतम्
[सम्पाद्यताम्]- दया, करुणा, अनुकम्पा, कृपा, दयालुता, पीडा।
लिङ्ग
[सम्पाद्यताम्]एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | दया | दये | दयाः |
सम्बोधनप्रथमा | दये | दये | दयाः |
द्वितीया विभक्तिः | दयाम् | दये | दयाः |
तृतीया विभक्तिः | दयया | दयाभ्याम् | दयाभिः |
चतुर्थी विभक्तिः | दयायै | दयाभ्याम् | दयाभ्यः |
पञ्चमी विभक्तिः | दयायाः | दयाभ्याम् | दयाभ्यः |
षष्ठी विभक्तिः | दयायाः | दययोः | दयानाम् |
सप्तमी विभक्तिः | दयायाम् | दययोः | दयासु |
नामम्
[सम्पाद्यताम्]- दया नाम करुणा, जालि।
अनुवादाः
[सम्पाद्यताम्]- आङ्ग्लम्-kindness sympathy pity
- मलयालम्-കരുണ,ദയ അനുകമ്പ
- हिन्दि-दया
- बङ्गाळि-(bn) (देखना)
- फ़्रॆन्च्-bonté (fr) स्त्री
- रूसीय्-доброта (ru) (डॊब्रोथा) स्त्री
- जेर्मन्-Liebenswürdigkeit (de)स्त्री
- स्पानिष्-bondad (es)स्त्री
- तेलुगु-దయ(te) (दया)
- तमिल्- அன்பு (ta)
- पोलिष्-, (pl)स्त्री
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दया, स्त्री, (दय + भिदाद्यङ् । ततष्टाप् ।) करुणा । अस्या लक्षणं यथा, पाद्मे क्रियायोगसारे । “यत्नादपि परक्लेशं हर्त्तुं या हृदि जायते । इच्छा भूमिसुरश्रेष्ठ ! सा दया परिकीर्त्तिता ॥” अपि च मत्स्यपुराणे । “आत्मवत् सर्ब्बभूतेषु यो हिताय शुभाय च । वर्त्तते सततं हृष्टः क्रिया ह्येषा दया स्मृता ॥” * ॥ “परे वा बन्धुवर्गे वा मित्रे द्बेष्टरि वा सदा । आत्मवद्वर्त्तितव्यं हि दयैषा परिकीर्त्तिता ॥” इत्येकादशीतत्त्वम् ॥ (इयं हि शक्तीनामन्यतमा । यथा, देवीभाग- वते । १ । १५ । ६० । “श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया गतिः । “संस्थिताः सर्व्वतः पार्श्वे महादेव्याः पृथक् पृथक् ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दया स्त्री।
करुणरसः
समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त
1।7।18।2।2
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥
पदार्थ-विभागः : , गुणः, मानसिकभावः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दया¦ स्त्री दय--भिदा॰ भावे अङ्।
१ दुःखितेषु भूतेष्वनुक-म्पायाम्।
२ परदुःखाऽसहने करुणाशब्दे दृश्यम्।
३ पर-दुःखप्रहरणेच्छायाम्।
“यत्नादपि परक्लेशं हर्तुं याहृदि जायते। इच्छा भूमिसुरश्रेष्ठ! सादया परिकीर्त्तितेति”। आत्मवत् सर्वभूतेषु योहिताय शुभाय च। वर्तते सततं हृष्टः क्रिया ह्येषादया स्मृता। प्राणा यथात्मनोऽभीष्टा भूतानाम-पि ते तथा। आत्मौपम्येन सर्वत्र दयां कुर्वन्तिसाधवः”। इयं मोहपत्नी यथा।
“मोहपत्नी दयासाध्वी पूजिता च जगत्प्रिया। सर्वलोकाश्च सर्वत्रनिष्फलाश्च यया विना” देवीभागवते
९ स्क॰
१ अ॰। यत्रमोहोस्ति तत्र दयायाः सत्त्वाद्दया मोहपत्नीति
“अहिंसापरमो धर्म्मो विप्राणां नात्र संशयः। दया सर्वत्र कर्त्तव्याब्राह्मणेन विजानता। यज्ञादन्यत्र विप्रेन्द्र! न हिंसा या-ज्ञिकी मतेति” देवीभागवतम्। यज्ञादन्यत्र दया कर्त्तव्यायज्ञे तु हिंसैव कर्त्तव्या न सा याज्ञिकी हिंसा हिंसाभवति।
“अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः” इति श्रुतेः।
“या वेदविहिता हिंसा नियतास्मिंश्चराचरे। अहिंसामेव तां विद्याद् वेदाद् धर्मो हि निर्बभाविति” मनु-स्मृतेश्च।
“तृणं वाप्यविधानेन छेदयेन्न कदाचनेति” कुलार्णवोक्तेश्च।
४ दक्षकन्याजाते धर्मस्य पत्नीभेदेतदपत्यम् अभयम् धर्म्मशब्दे दृश्यम्।
“धनुर्भृतोऽप्यस्यदयार्द्रभावम्” रघुः।
“तव धर्म्मः सदयोदयोज्ज्वलः” नैष॰ सा च शान्तिरसस्य व्यभिचारिभावः यथाह सा॰द॰। शान्तरसोपक्रमे
“रोमाञ्चाद्याः स्वानुभावास्तथास्युर्व्यभिचारिणः निर्वेदहर्षस्मरणमतिभूतदयादयः”।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दया [dayā], [दय् भिदा-भावे अङ्] Pity, tenderness, compassion, mercy, sympathy; निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः H.1. 6; R.2.11; यत्नादपि परक्लेशं हर्तुं या हृदि जायते । इच्छा भूमि- सुरश्रेष्ठ सा दया परिकीर्तिता ॥. -Comp. -कर a. kind, sympathetic. (-रः) an epithet of Śiva. -कूटः, -कूर्चः epithets of Buddha.
वीरः (in Rhet.) the sentiment of heroic compassion; the sentiment of heroism arising out of compassion; e. q. Jīmūtavāhana's remark to Garuḍa in Nāg.: शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तथापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन् ॥ cf. also R. G. under दयावीर
a. Very merciful man.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दया f. sympathy , compassion , pity for( loc. MBh. Pan5cat. Bhartr2. etc. Page470,1 ; gen. R. Hariv. 8486 ; in comp. MBh. xiv Hit. i , 6 , 41 ) S3Br. xiv etc. ( यांकृ, " to fake pity on " [ loc. MBh. Hit. i , 2 , 7 ; gen. Vop. ])
दया f. Pity (daughter of दक्षand mother of अ-भयBhP. iv , 1 , 49 f. ) Hariv. 14035 ; See. अ-दय; निर्-, and सदय.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a daughter of दक्ष, and a wife of Dharma; mother of Abhaya; फलकम्:F1: भा. IV. 1. ४९-50.फलकम्:/F a शक्ति. फलकम्:F2: Br. IV. ४४. ८९.फलकम्:/F