सामग्री पर जाएँ

धृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृतिः, पुं, (ध्रियते इति । धृ + क्तिन् । अभिधा- नात् पुंस्त्वम् ।) इष्टिः । इति मेदिनी । ते, २९ ॥ (विश्वेदेवविशेषः । यथा, महाभारते । १३ । ९१ । ३० । “वलं धृतिर्व्विपाप्मा च पुण्यकृत् पावनस्तथा ॥” चन्द्रवंशीयनृपविशेषस्य विजयस्य पुत्त्रः । यथा, हरिवंशे । ३१ । ५५ । “विजयस्य धृतिः पुत्त्रस्तस्य पुत्त्रो धृतव्रतः ॥” निमिवंशीयानामेकतमः । यथा, भागवते । ९ । १३ । २६ । “शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः ॥” यदुवंशीयवभ्रोः पुत्त्रः । इति विष्णुपुराणे । ४ । १२ । १५ । “रोमपादाद्वभ्रुः वभ्रोः पुत्त्रो धृतिः ॥”)

धृतिः, स्त्री, (धृ + क्तिन् ।) तुष्टिः । (यथा, मनुः । ६ । ९२ । “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्व्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम् ॥”) योगभेदः । धैर्य्यम् । (यथा, वाजसनेयसंहिता- याम् । ३४ । ३ । “यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ॥”) धारणम् । इति मेदिनी । ते, २९ ॥ सुखम् । इति हेमचन्द्रः । २ । २२२ ॥ (क्रतुः । यथा, कात्यायनश्रौतसूत्रे । २० । २ । ८ । “राजन्यो धृतिषु युद्धजपयुक्ताः ॥”) षोडशमातृकान्तर्गतत्रयोदशमातृका । इति भवदेवः ॥ अष्टादशाक्षरावृत्तिच्छन्दोमात्रम् । इति छन्दीमञ्जरी ॥ * ॥ धृतियोगजातफलं यथा, -- “धृतियोगसमुत्पन्नः प्राज्ञः संहृष्टमानसः । वावदूकः सभायाञ्च सुशीलो विनयान्वितः ॥” इति कोष्ठीप्रदीपः ॥ धारणा । सा त्रिधा । यथा, -- “धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ यया तु धर्म्मकामार्थान् धृत्या धारयतेऽर्ज्जुन ! । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ ! राजसी ॥ यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्म्मेधा धृतिः सा तामसी मता ॥” इति श्रीभगवद्गीतायाम् । १८ । ३३-३५ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृति स्त्री।

धारणम्

समानार्थक:धृति

3।3।74।2।2

वनिता जनितात्यर्थानुरागायां च योषिति। गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः॥

पदार्थ-विभागः : , क्रिया

धृति स्त्री।

धैर्यम्

समानार्थक:धृति

3।3।74।2।2

वनिता जनितात्यर्थानुरागायां च योषिति। गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृति¦ स्त्री धृ--क्तिन्।

१ धारणे

२ तुष्टौ

३ धैर्य्ये
“धृतिर-स्तमिता रतिश्च्युता” रघुः
“धृतिर्धैर्यं प्रीतिर्वा” मल्लि॰। विष्कम्भादिमध्ये

४ अष्टमे योगभेदेमेदि॰।
“अतिगण्डः सुकर्मा च धृतिः शूलं तथैव” ज्यो॰।

५ सुखे हेमच॰। गौर्य्यादिषोडशमातृमध्ये

६ मातृकाभेदे। मातृकाशब्दे दृश्यम्। अष्टाद-शाक्षरपादकछन्दोमात्रे उक्तात्युक्तेत्युपक्रमे धृति-श्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः” वृ॰ र॰।

७ मानसधारणाभेदे
“धृतिरधृतिर्ह्रीर्वीर्भीरित्येतत् सर्वंमनएव” श्रुतिः। सा च सात्विकादिभेदेन त्रिधायथाह गीतायाम्
“धृत्या यया धारयते मनःप्राणे-न्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ। सात्विकी। यया तु धर्मकामार्थान् धृत्या धारय-तेऽर्जुन!। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ!राजसी। यथा स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा घृतिः सा पार्थ! तामसी”।

८ दक्षसुतारूपधर्मपत्नीभेदे
“ददौ स दश धर्माय” इत्युपक्रमेधर्मपत्नीशब्दे उक्त वाक्ये

३८

५७ पृ॰ दृश्यम्।

९ जयद्रथ-नृपस्य पौत्रे पु॰ जयद्रथस्तु राजेन्द्र! यशोदेव्याम् व्यजा-यत। ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः। विजयस्य धृतिः पुत्रः” हरिवं॰

३१ अ॰।

१० मैथिलेराजभेदे पु॰ तदुपक्रमे
“शुनकस्तत्सुतो जज्ञे वीति-हव्यो धृतिस्ततः” भाग॰

९ ।

१३ ।

१६ ।

११ विश्वदेवभेदेपु॰ तन्नामोपक्रमे
“बलं धृतिर्विपाप्मा च पुण्यकृत्थाबनस्तथा” भा॰ अनु॰

९१ अ॰। सा॰ द॰ उक्ते

१२ व्यभिचारिभावभेदे। सा च
“सधृतिचपलनाग्लानिचिन्तावितर्काः” इत्युद्दिश्य तत्र लक्षिता यथा
“ज्ञानाभीष्टागमाद्यैस्तुसंपूर्णस्पृहता धृतिः। सौहित्यवचनोल्लाससहासप्रतिभादिकृत्” उदाहृतं च
“कृत्वा दीननिपीडनांनिजजने वद्ध्वा वचोविग्रहम् नैवालोच्य गरीयसी-रपि चिरादामुष्मिकीर्यातनाः। द्रव्यौघाः परिसञ्चिताःखलु मया यस्याः कृते साम्प्रतं नीवाराञ्जलिनापिकेवलमहो मेयं कृतार्था तनुः” भा॰ द॰।
“ता धृति-[Page3906-b+ 38] रस्ति गतास्मि सम्प्रतीयम्” माघः।
“स्थिता कर्थंशैलजनाशुगे धृतिः” किरा॰
“अम्बरान्तधृतेः” शा॰ सू॰

१४ गुरुत्ववतां पतनाभावे हरिदासः
“कार्य्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् सङ्ख्याविशेषच्चसाध्यो विश्वविदव्ययः कुसुमा॰। धृतीति ब्रह्माण्डादिपतनप्रतिबन्धकी भूतप्रयत्नवदधिष्टितं धृतिमन्त्वात्वियति विहङ्गमधृतकाष्ठवत् धृतिश्च गुरुत्ववतां पतना-भावः” हरिदासः। मनसो भूतपञ्चकारब्धत्वात्क्षित्यंशधारणवत्त्वात् धृतिमत्त्वं बोध्यम्। धृते-र्भूमिगुणत्वञ्च भा॰ शा॰

२५

५ अ॰ उक्तं यथा
“भूमेः स्थैर्य्यं गुरुत्वं च काठिन्यं प्रसवार्धता। गन्धोगुरुत्वं शक्तिश्च संथातः स्थापना धृतिः”।
“स्थैर्य्यमचाञ्चल्यं गुरुत्वं पतनप्रतियोगी गुणः प्रसवोधान्याद्युत्पत्तिस्तदर्थता, गुरुत्वं प्रथिमा पिण्डपुष्टिःशक्तिर्गन्धग्रहणसामर्थ्यं सङ्घातः श्लिष्टावयवत्वम् स्था-पना मनुष्याद्याश्रयत्वं धृतिः पाञ्चभौतिके मनसि योधृत्यंशः स पार्थिवः स्थैर्य्यशब्देनैवीपात्त इति धृतिशब्दे-मात्र भूतान्तरप्रवेशस्थानत्वमुच्यते” नीलकण्ठव्याख्या। तच्छन्दसोऽष्टादशसंख्यकत्वात्तत्तुल्यसंख्यायुते अष्टादश-संख्यायुक्ते च।

१६ विपुलाख्य विष्कुम्भपर्वतस्थे वनभेदेविष्कुम्भपर्वतोपक्रमे
“वनं तथा चैत्तरथं विचित्रं ते-ष्वप्सरो नन्दननन्दनञ्च। धृत्याह्वयं यद् धृतिकृत् सुराणांभ्राजिष्णु वैभ्राजमिति प्रसिद्धम्” सि॰ शि॰।
“विपुलशैल-मस्तके केतुवृक्षो वटो धृतिर्वनं महाह्रदः सरः” प्रमिता॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृति¦ m. (-तिः) Sacrifice, offering, religious rite or ceremony. f. (-तिः)
1. Holding, having.
2. Steadiness, firmness.
3. One of the astrolo- gical Yogas. see योग।
4. Pleasure.
5. Satisfaction, content.
6. Happiness.
7. A metre; a stanza of four lines of eighteen syll- ables each.
8. The thirteenth Ma4trika4 E. धृ to have &c. affix क्तिन्। [Page373-a+ 60]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृतिः [dhṛtiḥ], f. [धृ-क्तिन्]

Taking, holding, seizing.

Having, possessing.

Maintaining, supporting.

Firmness; steadiness, constancy.

Fortitude, energy, resolution, courage, self-command. भज धृतिं त्यज भीतिमहेतुकाम् N.4.15; Bg.16.3; Ki.6.11; R.8.66.

Satisfaction, contentment, pleasure, happiness, delight, joy; धृतेश्च धीरः सदृशीर्व्यधत्त सः R.3.1;16.82; न चक्षुर्बध्नाति धृतिम् V.2.8; Śi.7.1,14.

Satisfaction considered as one of the 33 subordinate feelings (in Rhetoric); ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धृतिः । सौहित्यवचनोल्लास- सहासप्रतिभादिकृत् S. D.198,168; cf. Ki.1.36; R.3.1; Ms.1.116.

A sacrifice.

N. of metre; Nm.

consideration, care for; अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः Ki.14.1.

N. of the numeral 18.

N. of one of the 16 kalās of the moon. -Comp. -गृहीत a. armed with constancy and resolution. -मुष्a. destroying all composure, discomposing. -होमः a sacrifice included in the marriage-rites.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृति f. holding , seizing , keeping , supporting(See. चर्षणी-, वि-) , firmness , constancy , resolution , will , command RV. etc.

धृति f. satisfaction , content , joy MBh. Ka1v. etc. ( तिं-कृ, to keep ground or stand still MBh. vii , 4540 ; to find pleasure or satisfaction Ratn. iv , 4/5 ; तिम्-बन्ध्, to show firmness Amar. 67 ; to fix the mind on Mn. v , 47 )

धृति f. Resolution or Satisfaction personified as a daughter of दक्षand wife of धर्म( MBh. Hariv. Pur. )or as a शक्ति( Hcat. etc. )

धृति f. N. of partic. evening oblations at the अश्वमेधS3Br.

धृति f. any offering or sacrifice W.

धृति f. of sev. kinds of metre and of a class of metres consisting of 4 x 18 syllables Col.

धृति f. of the numeral 18 Var. Gan2it.

धृति f. of one of the astrol. Yogas. L.

धृति f. of a mythical garden Gol.

धृति f. of one of the 16 कलाs of the moon Pur.

धृति f. of a goddess (daughter of a कलाof प्रकृतिand wife of कपिल) ib.

धृति f. of the wife of रुद्र- मनुib.

धृति f. of the 13th of the 16 मातृकाs L.

धृति m. wish क्षत्रस्य= क्षत्र-ध्La1t2y.

धृति m. N. of one of the विश्वेदेवाs MBh.

धृति m. of a preceptor Cat.

धृति m. of the son of विजयand father of धृत-व्रतHariv. Pur.

धृति m. of a son of वीत-हव्यand father of बहुलाश्वPur.

धृति m. of a son of बभ्रुL.

धृति m. of a वर्षin कुश-द्वीपVP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वीतहव्य and father of Bahu- लश्व. भा. IX. १३. २६; Br. III. ६४. २३; वा. ८९. २२; Vi. IV. 5. ३१. [page२-180+ २६]
(II)--a son of Vijaya and father of धृतव्रत. भा. IX. २३. १२; वा. ९९. ११६; Vi. IV. १८. २४-5.
(III)--a daughter of दक्ष; wife of Dharma and mother of a son Niyama; फलकम्:F1:  Br. II. 9. ४९, ५९; वा. १०. २५, ३४; Vi. I. 7. २३, २८.फलकम्:/F one of nine devis serving Soma. फलकम्:F2:  वा. ५५. ४३; ९०. २५.फलकम्:/F
(IV)--a son of ज्योतिष्मन्, after whom came धृतिमत्वर्ष. Br. II. १४. २७-9; वा. ३३. २४; Vi. II. 4. ३६.
(V)--a सुधामान god. Br. II. २६. ४५; ३६. २७.
(VI)--a son of सृष्ति (पुष्टि-वा। प्।) and छाया. Br. II. ३६. ९८; वा. ६२. ८३-4.
(VII)--a son of ब्रह्मधान. Br. III. 7. ९८.
(VIII)--a देवी attending on Soma. Br. III. ६५. २६.
(IX)--a son of आर्द्रक? or आहुक, said to have had ८० horses; equal to Bhoja of नागस् in the Eastern region. Br. III. ७१. १२४; वा. ९६. १२३-5.
(X)--a Sutapa god. Br. IV. 1. १५; वा. १००. १५.
(XI)--a son of सावर्ण Manu. M. 9. ३३. [page२-181+ २७]
(XII)--a mother goddess; enshrined at पिण्डा- raka. M. १३. ४८; १७९. २०; २४६. ६२.
(XIII)--same as महती; left her consort Nandi for Soma. M. २३. २६; १२२. ७४.
(XIV)--a son of वृष्णि and father of Kapota- रोमा. M. ४४. ६२.
(XV)--a son of Vibudha. वा. ८९. १२.
(XVI)--a son of Babhru and father of कौशिक. Vi. IV. १२. ३९.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHṚTI I : A daughter of Prajāpati Dakṣa. She was one of the wives of Dharmadeva. Mādrī, the mother of Nakula and Sahadeva, was the rebirth of Dhṛtī. (M.B. Ādi Parva, Chapter 67). Dhṛti had given birth to Niya- ma when she was the wife of Dharmadeva, who had married Śraddhā, Lakṣmī, Dhṛti, Tuṣṭi, Medhā, Puṣṭi, Kriyā, Buddhī, Lajjā, Vapus, Śānti, Siddhi and Kīrti, thirteen of the daughters of Dakṣa. Viṣṇu Purāṇa, Aṁśa I, Chapter 7).


_______________________________
*4th word in left half of page 238 (+offset) in original book.

DHṚTI II : A Viśvadeva god. (M.B. Anuśāsana Parva, Chapter 91).


_______________________________
*5th word in left half of page 238 (+offset) in original book.

DHṚTI III : The son of Vītahavya, the king of Videha. He was a contemporary of Vyāsa and Vicitravīrya the king of the Kurus. Bahulāśva was the son of this Dhṛti. (M.B. Ādi Parva).


_______________________________
*6th word in left half of page 238 (+offset) in original book.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृति स्त्री.
(धृ+क्तिन्) अश्वके पद-चिह्नों पर दी जाने वाली चार घृत-आहुतियों का नाम, आप.श्रौ.सू. 2०.5.19 (अश्वमेध); मा.श्रौ.सू. 6.1.7.18; अश्व को नियन्त्रित करने के लिए आहवनीय में चार आहुतियां, का.श्रौ.सू. 2०.3.4 (चार आहुतियाँ-रन्ति स्वाहा, इह रमतां स्वाहा, इह धृतिः स्वाहा, इह स्वधृतिः स्वाहा इति चतसृणां धृतिरिति संज्ञा, स.वृ.)।

"https://sa.wiktionary.org/w/index.php?title=धृति&oldid=500499" इत्यस्माद् प्रतिप्राप्तम्