सामग्री पर जाएँ

नवमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवमी, स्त्री, (नवम + टित्त्वात् ङीप् ।) तिथि- विशेषः । सा चन्द्रस्य नवमकलाक्रियारूपा । शुक्लपक्षे ९ कृष्णपक्षे २४ पञ्जिकाकारसङ्केतेन एतदङ्कबोधिता ॥ अथ नवमीव्यवस्था । “सा चाष्टमीयुता ग्राह्या युग्मात् । भविष्ये । ‘मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् । तत् फलं लभते वीर नवम्यां कार्त्तिकस्य च ॥’ तथा भविष्ये । ‘माघे मासि तु या शुक्ला नवमी लोकपूजिता । महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥ स्नानं दानं जपो होमो देवार्च्चनमुपोषणम् । सर्व्वं तदक्षयं प्रोक्तं यदस्यां क्रियते नरैः ॥’ तथा कालिकापुराणम् । ‘नवम्यां नववर्षाणि राजन् ! पिष्टाशनो भवेत् । तस्य तुष्टा भवेद्गौरी सर्व्वकामप्रदा शुभा ॥’ अद्येत्यादि नवम्यान्तिथावारभ्य नव वर्षाणि यावत् प्रतिशुक्लनम्यां पिष्टेतरभोजननिवृत्ति- व्रतमिति सङ्कल्पे विशेषः । सर्व्वकामप्रदगौरी- तोषः फलम् ।” इति तिथितत्त्वम् ॥ श्रीराम- नवमीव्यवस्था तच्छब्दे द्रष्टव्या ॥ * ॥ इयं दुर्गा- तिथिः । तत्र तस्याः पूजा कर्त्तव्या । यथा, -- ब्रह्मोवाच । “इयं देवी वरारोहा यातु शैलं हिमाचलम् । तत्र यूयं सुराः सर्व्वे गत्वा नन्दत माचिरम् ॥ नवम्याञ्च सदा पूज्या इयं देवी समाधिना । वरदा सर्व्वलोकानां भविष्यति न संशयः ॥ नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः । नारी वा तस्य सम्पन्नं भविष्यति मनोगतम् ॥” इति वराहपुराणम् ॥ कार्त्तिकशुक्लनवम्यां जगद्धात्रीपूजाप्रमाणानि यथा, -- “प्रपूजयेज्जगद्धात्रीं कार्त्तिके शुक्लपक्षके । दिनोदये च मध्याह्ने सायाह्ने नवमेऽहनि ॥” इति मायातन्त्रे १७ पटलः ॥ “कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य च । उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान् ॥ पुत्त्रारोग्यधनं लेभे लोकसाक्षित्वमेव च । तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि । प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम् ॥” इति कात्यायनीतन्त्रे ७८ पटलः ॥ “कार्त्तिके शुक्लपक्षे तु त्रेतायाः प्रथमेऽहनि । त्रिसन्ध्यं पूजयेद्देवीं दुर्गां सम्पत्प्रवृद्धये ॥” इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥ अथ नवमीजातफलम् । यथा, कोष्ठीप्रदीपे । “विरोधकर्त्ता सुजनैरगम्यः परापकारार्थमतिः कुशीलः । आचारहीनः कृपणः कठोरः प्रसूतिकाले नवमी यदि स्यात् ॥”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवमी f. (sc. तिथि)the 9th day of a lunar half-month.

"https://sa.wiktionary.org/w/index.php?title=नवमी&oldid=500578" इत्यस्माद् प्रतिप्राप्तम्