नीलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलः, पुं, पर्व्वतविशेषः । स तु इलावृतस्योत्तरतो रम्यकवर्षस्य सीमापर्व्वतः । प्रागायत उभयतः क्षीरोदावधि द्बिसहस्रयोजनपृथुः । अयुत- योजनोत्सेधः । इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥ (तथाच विष्णुपुराणे । २ । २ । १० । “नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः । लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथापरे ॥” “लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध- नीलौ । यद्यपि जम्बुद्वीपस्य मण्डलाकारस्य लक्षयोजनप्रमाणत्वात् तन्मध्ये रेखायामेव मुख्य- लक्षप्रमाणत्वं निषधनीलौ तु तन्मध्यरेखातो दक्षिणश्चोत्तरश्च सलक्षयोजनसहस्रान्तरित- त्वादीषन्न्यनौ तथापि स्थूलदृष्ट्या लक्षप्रमाणावि- त्युक्तम् ॥” इति तट्टीकायां स्वामी ॥ * ॥ (नीलासनवृक्षः । तत्पर्य्यायो यथा, -- “नीलः स्यान्नीलपत्रिका ॥” इति वैद्यकरत्नमालायाम् ॥) मणिविशेषः । नीलम् इति पारस्यभाषा ॥ अस्याधिष्ठातृदेवता शनिः । यथा, -- “माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं पुष्पकवज्रनीलम् । गोमेदवैदूर्य्यकमर्कतः स्यू रत्नान्यथोऽज्ञस्य मुदे सुवर्णम् ॥” इति मुहूर्त्तचिन्तामणिः ॥ तत्पर्य्यायः । सौरिरत्नम् २ नीलाश्मा ३ नीलोत्- पलः ४ तृणग्राही ५ महानीलः ६ सुनी- लकः ७ । अस्य गुणाः । तिक्तत्वम् । उष्ण- त्वम् । कफपित्तानिलापहत्वम् । शरीरे धृते सौरिर्म्मङ्गलदो भवति । इति राजनिर्घण्टः ॥ * अथ इन्द्रनीलमणेरुत्पत्तिपरीक्षादि यथा, -- “तत्रैव सिंहलवधूकरपल्लवाग्र- व्यालूनबाललवनीकुसुमप्रवाले । देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्लनीरजसमद्युतिनेत्रयुग्मम् ॥ तत्प्रत्ययादुभयशोभनवीचिभासा विस्तारिणी जलनिधेरुपकच्छभूमिः । प्रोद्भिन्नकेतकवनप्रतिबद्धलेखा सान्द्रेन्द्रनीलमणिरत्नवती विभाति ॥ इति कविकल्पलता ॥ अजमीढस्य राज्ञः नीलिन्यां पत्न्यां जातः पुत्त्रः । यथा । “अजमी- ढस्य नीलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्त्रो- ऽभवत् ।” इति विष्णुपुराणे ४ अंशे १९ अध्यायः ॥ (माहिष्मतीवासी नृपतिविशेषः । अग्निस्तु अस्य दुहितरमुपसंगृह्य वरेणैनं छन्दयामास परनृपादभयञ्चास्मै दत्तवान् । गच्छति काले पाण्डवः सहदेवस्तु दिग्विजयक्रमेण अस्य नगर- मवरोध्य वैश्वानरात् महद्भयमवाप्तवान् । ततो हव्यवाहनं स्तुत्वा शान्तिमलभत । एतद्बिवरणं महाभारते । २ । ३१ । अध्याये विस्तरतो द्रष्ट- व्यम् ॥ * ॥ नागविशेषः । यथा, महाभारते । १ । ३५ । ७ । “नीलानीलौ तथा नागौ कल्माषशवलौ तथा ॥”

"https://sa.wiktionary.org/w/index.php?title=नीलः&oldid=500710" इत्यस्माद् प्रतिप्राप्तम्