परत्व
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परत्वम्, क्ली, परस्य भावः । परता । न्यायमते तद्- द्विविधम् । दैशिकम् १ । तत्तु बहुतरसूर्य्य- संयोगज्ञानजन्यगुणः । कालिकम् २ तच्च बहु- तरकालान्तरितत्त्वज्ञानजन्यगुणः । एतद्द्वयं मूर्त्तपदार्थगुणः । दैशिकपरत्वस्यासमवायि- कारणं दिक्शरीरसंयोगः । कालपरत्वस्यासम- वायिकारणं कालपिण्डसंयोगः । ते अपेक्षा- बुद्धिजन्ये । तन्नाशनाश्ये च । यथा, -- “परत्वञ्चापरत्वञ्च द्बिविधं परिकीर्त्तितम् । दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम् ॥ परत्वं सूर्य्यसंयोगभूयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ तयोरसमवायी तु दिक्संयोगस्तदाश्रये । दिवाकरपरिष्पन्दपूर्ब्बोत्पन्नत्वबुद्धितः ॥ परत्वमपरत्वन्तु तदनन्तरवुद्धितः । अत्र त्वसमवायी तु संयोगः कालपिण्डयोः ॥ अपेक्षा बुद्धिनाशाच्च नाशस्तेषां निरूपितः ।” इति भाषापरिच्छेदः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परत्व¦ न॰ परस्य भावः। वैशेषिकोक्तौ दव्याश्रिते गुणभेदेतच्च द्विविधं दैशिकं कालिकञ्च तदेतत् कणादसूत्रो{??}-[Page4235-a+ 38] स्करवृत्त्योर्निर्णीतं यथा
“एकदिक्काभ्यामेककालाभ्यांसन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च” सू॰।
“इदानीमुद्देशक्रमप्राप्ते परत्वापरत्वे परस्परानुबद्धव्य-वहारकारणतया शिष्यबुद्धिवैशद्यार्थं संक्षेपार्थञ्चैकग्रन्थे-नाह परमपरञ्चेति भावप्रधानो निर्देशः, उत्पद्यतइति शेषः, यद्वा परमपरञ्चेति व्यवहार इति शेषः,इतिरध्याहार्यः। एका दिग् ययोस्तावेकदिकौ ताभ्या-मेकदिक्काभ्यां पिण्डाभ्यामित्यर्थः तुल्यदेशावप्येकदिक्कौभवतः न तु ताभ्यां परत्वापरत्वे उत्पद्येते व्यवह्रियेतेवेत्यत उक्तं सन्निकृष्टविप्रकृष्टाभ्यामिति, सन्निकर्षः सं-युक्तसंयोगाल्पत्वम्, विप्रकर्षस्तद्भूयस्त्वं, तद्वद्भ्यामित्यर्थः। एतेन समवायिकारणमुक्तं, दिक्पिण्डसंयोगस्त्वसमवायि-कारणं, तथा हि प्राङ्मुखस्य पुरुषस्य प्राच्यवस्थितयोःपिण्डयोरेकस्मिन् संयुक्तसंयोगभूयस्त्वमपरस्मिन् संयुक्त-संयोगाल्पतरत्वञ्चापेक्ष्य परत्वमपरत्वञ्चोत्षद्यते, असम-वायिकारणमुक्तम्, सन्निकृष्टविप्रकृष्टाभ्यामिति विषयेणविषयिणं प्रत्ययमुपलक्षयति तथा चापेक्षाबुद्धेर्निमित्त-कारणत्वमुक्तम्, एकदिगवस्थितयोरेव परत्वापरत्वे उत्-पद्येते इति न सर्वत्रोत्पत्तिः, एकस्यैव द्रष्टुरपेक्षावुद्धिःसमुत्पद्यते इति न सर्वथोत्पत्तिः, अपेक्षाबुद्धिनियमान्नसर्वदोत्पत्तिः कारणशक्तेरुत्पन्नयोः प्रत्यक्षसिद्धत्वान्नपरस्पराश्रयत्वम्, अन्यथा हि नोत्पद्येयातां न वा प्रतीये-यातां परस्परापेक्षायां हि द्वयोरनुत्पत्तिरप्रतीतिश्च स्यात्प्रतीयेते च परत्वापरत्वे, प्रतीतिश्च तयोर्नोत्पत्तिमन्तरे-णेति। एककालाभ्यामिति कालिकपरत्वापरत्वे अभिप्रेत्यतत्रैककालाभ्यामिति एको वर्त्तमानः कालोययीर्युवस्थ-विरपिण्डयोः तावेककालौ ताभ्यामेककालाभ्यामित्यर्थः। सम्निकर्षोऽल्पतरतपनपरिस्पन्दान्तरितजन्मत्वं, विप्रकर्षश्चबहुतरतपनपरिस्पन्दान्तरितजन्मत्वम्, अत्रापि विषयेणविषयिणीं बुद्धिमुपलक्षयति तेन युवस्थविरपिण्डौ सम-वायिकारणे, कालविण्डसंयोगश्चासमवायिकारणम्, अल्प-तरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिरपरत्वे बहुतरतप-नपरिस्पन्दान्तरितजन्मत्वबुद्धिः परत्वे निमित्तकारणम्। एते च परत्वापरत्वे अनियतदिग्देशयोरपि पिण्डयी-रुत्पद्येते, तत्र दैशिकपरत्वापरत्वयोः सप्तधा विनाशःउत्पादस्तु युगपदेव द्वयोरन्यथाऽन्योन्याश्रयः स्यात्,अपेक्षाबुद्धिनाशात्,
१ संयोगस्यासमवायिकारणस्य ना-शात्,
२ द्रव्यस्य च समवायिकारणस्य नाशात्,
३ निमि-[Page4235-b+ 38] त्तसमवायिकारणयोर्नाशात्,
४ समवाय्यसमवायिकारण-योर्नाशात्
५ निमित्तासमवायिकारणयीर्नाशात्,
६ नि-मित्तनाशासमवायिकारणनाशसमवायिकारणनाशेभ्यः
७ । तत्रापेक्षाबुद्धिनाशात्
१ तावत्, परत्वोत्पत्तिः परत्वसा-मान्यज्ञानं ततोऽपेक्षाबुद्धिविनाशस्तद्विनाशात् परत्व-विशिष्टद्रव्यज्ञानकाले परत्वनाशः, द्वित्वनाशवदेव सर्व-मूहनीयम्। असमवायिकारणनाशादपि
३ तद्यथा यदै-वापेक्षाबुद्धिस्तदैव परत्वाधारे पिण्डे कर्म्म ततो यदैवपरत्वोत्पत्तिस्तदैव दिक्पिण्डविभागस्ततो यदा परत्वसा-मान्यज्ञानं तदा दिक्पिण्डसंयोगनाशः ततः सामान्य-ज्ञानादपेक्षाबुद्धिनाशस्तदैव दिक्पिण्डसंयोगनाशत् पर-त्वापरत्वयोर्नाशः, तत्र चापेक्षाबुद्धिनाशस्य परत्वनाशसम-कालत्वान्न तन्नाशकत्वम्। नन्वसमवायिकारणनाशादपिगुणनाशे आत्ममनःसंयोगनाशादपि संस्कारादृष्टादोनांविनाशे बहु व्याकुलं स्यादिति चेन्न विप्रकृष्टत्वेन पर-त्वस्य व्यापनात् परत्वाधारस्यान्यत्र गमने विप्रकर्षाभावात्परत्वनिवृत्तिरावश्यकी न च तदा नाशकान्तरनस्तीत्य-न्यथाऽनुपपत्त्या संयोगनाश एव नाशकः कल्प्यते, सं-स्कारादृष्टादेः कार्य्यस्य स्मृतिसुखादेश्चिरेणापि दर्शनान्नतन्नाशकल्पना। उपलक्षणञ्चैतत् अवधेर्द्रष्टुश्च तत्तद्देशसं-योगनाशादपि परत्वापरत्वे विनश्यतः युक्तेस्तुल्यत्वात्। समवायिकारणनाशादपि क्वचित् परत्वनाशः
३ तथा हियदा पिण्डावयवे समुत्पन्नेन कर्मणाऽवयवान्तराद्विभाग-स्तदैवापेक्षाबुद्धिः, विभागात् पिण्डारम्भकसंयोगनाशःपरत्वोत्पत्तिः, अग्रिमक्षणे संयोगनाशाद्द्रव्यनाशः पर-त्वसामान्यज्ञानं, द्रव्यनाशात् परत्वनाशीऽपेक्षाबुद्धिनाशश्चसामान्यज्ञानात्, तथाच यौगपद्यान्नापेक्षाबुद्धिनाशात्परत्वनाश इति, क्वचिद्द्रव्यनाशापेक्षाबुद्धिवाशाभ्यांपरत्वनाशः
४ तद्यथा पिण्डावयवे कर्मापेक्षाबुद्धेरुत्पाद-स्ततोऽवयवान्तरविभागः परत्वोत्पत्तिः तत आरम्भक-संयोगनाशसामाम्यज्ञाने ततो द्रव्यनाशापेक्षाबुद्धिनाशौततश्च परत्वनाशः। क्वचिद्द्रव्यस्य संयोगस्य च नाशाभ्यांपरत्वनाशः
५ तद्यथा यदा द्रव्यावयवविभागस्तदैव पिण्ड-कर्मापेक्षाबुद्ध्योरुत्पादस्तदनन्तरमवयवसंयोगवाशदिक्पिण्डविभागपरत्वोत्पत्तयः ततो द्रव्यनाशदिक्पिण्डसंयोगवाश-परत्वसामान्यबुद्धयः ततो द्रव्यनाशदिकपिण्डसंयोगना-शाभ्यां परत्वनाशः सामान्यबुद्धेरपेक्षाबुद्धिनाश इति। क्वचित् संयोगनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाश
६ तदु[Page4236-a+ 38] यथा परत्वोत्पत्तिपिण्डकर्मणी सामान्यज्ञानविमागौ अ-पेक्षाबुद्धिनाशदिक्पिण्डसंयोगनाशौ ततः परत्वनाशः। कचित् समवाय्यसमवायिनिमित्तनाशेभ्यः
७ तद्यथा पर-त्वोत्पत्तिपिण्डावयवविभागपिण्डकर्माणि युगपत्, तद-नन्तरं परत्वसामान्यज्ञानावयवसंयोगनाशदिक्पिण्डवि-मागाः तदनन्तरसपेक्षाबुद्धिनाशद्रव्यनाशदिक्पिण्डसंयोग-नाशेभ्यो युगपदुत्पन्नेभ्यः परत्वस्यापरत्वस्य वा दैशिकस्यनाशः। कालकृतयोस्तु परत्वापरत्वयोरसमवायिकारण-नाशाधीनो नाशो नास्ति दैशिकयोर्दिक्पिण्डसंयोगनाशेसन्निकर्षविप्रकर्षनाशो यथा न तथा कालिकयोरिति तयोःसमवायिकारणनाशात्
१ अपेक्षाबुद्धिनाशात्
२ द्वाभ्या-ञ्चेति
३ त्रयः पक्षाः पूर्ववदूहनीयाः”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परत्व¦ n. (-त्वं)
1. Difference, distinction, separateness.
2. Hostility.
3. (In Logic,) Priority of place or time, proximity, juvenility.
4. The nature of common or generic property. E. त्व added to पर; also with तल्, परता। [Page421-b+ 60]
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परत्वम् [paratvam], 1 The following of another letter, posteriority.
Distinction, difference.
Remoteness.
Consequence, result.
Enmity, hostility.
Priority of place or time, proximity, one of the 24 guṇas of the Vaiśeṣikas.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परत्व/ पर--त्व n. distance , remoteness , consequence , posteriority , difference , strangeness , superiority to( gen. ) A1past. MBh. Pur. etc.
परत्व/ पर--त्व n. = -ताKap.