मरकत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकतम्, क्ली, (मरकं मारिभयं तरन्त्यनेन । तन् + डः । यद्वा, मरकं मरणं तनोतीति । लोभान्मरणमनादृत्य तस्मिन् रत्ने प्रवर्त्तते इति मरकतमिति स्मरन्तीति वृद्धाः । इत्यमरटीकायां भरतः ।) हरिद्वर्णमणिविशेषः । पान्ना इति भाषा ॥ तस्य देवता बुधः । इति ज्योतिषम् ॥ तत्पर्य्यायः । गारुत्मतम् २ अश्मगर्भम् ३ हरि- न्मणिः ४ । इत्यमरः । २ । ९ । ९२ ॥ मरक्तम् ५ राज- नीलम् ६ गरुडाङ्कितम् ७ । इति शब्दरत्ना- बली ॥ रौहिणेयम् ८ सौपर्णम् ९ गरुडोद्गी- र्णम् १० बुधरत्नम् ११ अश्मगर्भजम् १२ गर- लारिः १३ वापबोलम् १४ गारुडम् १५ । कुत्रचित् पुस्तके गरुडोद्गीर्णस्थाने गरुडो- त्तीर्णं वापवोलस्थाने वाप्रबालं इति च पाठः ॥ अस्य गुणाः । विषघ्नत्वम् । नशीतलत्वम् । रसे मधुरत्वम् । आमपित्तहरत्वम् । रुच्य- त्वम् । पुष्टिदत्वम् । भूतनाशकत्वञ्च ॥ * ॥ अस्य लक्षणम् । “स्वच्छञ्च गुरु सच्छायं स्निग्धं गात्रञ्च मार्द्दव- समेतम् । अव्यङ्गं बहुरङ्गं शृङ्गारी मरकतं शुभं बिभृ- यात् ॥” तस्य कुलक्षणम् । “शर्करिलकलिलरूक्षं मलिनं लघुहीनकान्ति कल्माषम् । त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोप- भुञ्जीत ॥” * ॥ तस्य परीक्षा । “यच्छैवालशिखण्डिशाद्बलहरित्काचैश्च बाध- च्छदैः खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च । लाघवेनैव काचस्य शक्या कर्त्तुं विभावना ॥ कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुण- वर्णैः । भल्लातकस्य निर्नेतुर्वैशद्यमुपैति वर्णस्य ॥ वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्विजातयः । तेषामप्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥ ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते । तिर्य्यगालोक्यमानानां सद्यश्चैव प्रणश्यति ॥ स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ । ददद्भिर्गोहिरण्यानि कुर्व्वद्भिः साधनानि च ॥ दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च । वाध्यमानेषु विषमैर्दोषजातैर्विषोद्भवैः ॥ दौषैर्हीनं गुणैर्युक्तं काञ्चनप्रतियोजितम् । संग्रामे विचरद्भिश्च धार्य्यं मरकतं बुधैः ॥” अथ मूल्यम् । “तुलया पद्मरागस्य यन्मूल्यमुपजायते । लभतेऽभ्यधिकं तस्मात् गुणैर्मरकतं स्मृतम् ॥ तथा च पद्मरागाणां दोषैर्मूल्यं प्रलीयते । ततोऽस्याप्यधिका हानिर्दोषैर्मरकते भवेत् ॥ गुणपिण्डसमायुक्ते हरितश्यामभास्वरे । मूल्यं द्बादशकं प्रोक्तं जातिभेदेन सूरिभिः ॥ यवैकेन शतं पञ्चसहस्रं द्वितये यवे । त्रिभिश्चैव सहस्रे द्वे चतुर्भिश्च चतुर्गुणम् ॥” इति गारुडे मरकतपरीक्षा ७१ अध्यायः युक्तिकल्पतरुश्च ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकत नपुं।
मरतकमणिः
समानार्थक:गारुत्मत,मरकत,अश्मगर्भ,हरिन्मणि
2।9।92।1।2
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः। शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकत¦ न॰ मरकं मारिभयं तरत्यनेन तॄ--ड। हरिद्वर्णे-मणिभेदे (पान्ना) अमरः। तल्लक्षणादि परिशिष्टे दृश्यम्
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकत¦ m. (-तः) An emerald. E. मरक epidemic disease, तॄ to cross or escape, aff. ड; it is also read मरकतक n. (-कं) |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकतम् [marakatam], [मरकं तरत्यनेन तॄ-ड] An emerald; वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा Me.78; Śi.4.56; Ṛs.3. 21; (sometimes written मरक्त.) -Comp. -मणिः m., f. an emerald. -शिला an emerald slab. -श्याम a. dark or green as an emerald.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकत n. an emerald R. Var. Pan5cat. etc. [ cf. Gk. ? ; Lat. smaragdus.]