सामग्री पर जाएँ

मरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरणम्, क्ली, (म्रियतेऽनेनेति । मृ + करणे ल्युट् ।) वत्सनाभः । इति राजनिर्घण्टः ॥ (भावे ल्युट् ।) विजातीयात्ममनःसंयोगध्वंसः । इति न्याय- मतम् ॥ तत्पर्य्यायः । पञ्चता २ कालधर्म्मः ३ दृष्टान्तः ४ प्रलयः ५ अत्ययः ६ अन्तः ७ नाशः ८ मृत्युः ९ निधनम् १० । इत्यमरः । २ । ८ । ११६ ॥ भूमिलाभः ११ निपातः १२ आत्ययिकम् १३ मृतिः १४ । इति शब्दरत्ना- वली ॥ कीर्त्तिशेषः १५ महानिद्रा १६ महा- पथगमः १७ संस्थानम् १८ । इति जटाधरः ॥ मरणदुःखान्याह । “मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि । श्लथग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना नरः ॥ मुहुर्ग्लानिः परवशो मुहुर्ज्ञानबलान्वितः । हिरण्यधान्यतनयभार्य्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीवममताकुलः ॥ मर्म्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥ विवर्त्तमानताराक्षिहस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ निरुद्धकण्ठो दोषौघौरुदानश्वासपीडितः । तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥ यज्जलस्पर्शमात्रेण माहात्म्यं महदद्भुतम् ॥ चक्राङ्कितशिलास्पर्शमरणस्येदृशं फलम् । न जाने वासुदेवस्य सेवया किं भविष्यति ॥” इति कल्किपुराणे २५ अध्यायः ॥ * ॥ मरणजनकवस्तूनि यथा, -- “अग्निरापः स्त्रियो मूर्खः सर्पा राजकुलानि च । नित्यं परोपसेव्यानि सद्यःप्राणहराणि षट् ॥” इति गारुडे ११४ अध्यायः ॥ (“मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे । शेफसः स्तध्वता मोक्षः शुक्रस्य तु विशेषतः ॥” इति माधवकरकृतरुग्विनिश्चये ज्वराधिकारे ॥ “अपानः कर्षति प्राणं प्राणोऽपानन्तु कर्षति । शङ्खिनी तु यदा भिन्ना तदैव मरणं ध्रुवम् ॥” इति वैद्यकम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण नपुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।2।4

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण¦ न॰ म्रियतेऽनेन मृ--करणे ल्युट्। वत्सनाभाख्ये

१ विषेराजनि॰। भावे ल्युट्। देहात्मनोर्विच्छेदरूपे, प्राणवायो-रुत्क्रमणरूपे वा

२ व्यापारभेदे।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण¦ n. (-णं) Death, dying. E. मृ to die, aff. ल्युट् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरणम् [maraṇam], [मृ-भावे ल्युट्]

Dying, death; मरणं प्रकृतिः शरीरिणाम् R.8.87; or संभावितस्य चाकीर्तिर्मरणादतिरिच्यते Bg. 2.34.

A kind of poison.

Passing away, cessation (as of rain).

(In astrol.) The 8th mansion.

A refuge, asylum. -Comp. -अन्त, -अन्तक a. ending in death. -अभिमुख, -उन्मुख a. on the point of death, near death, moribund. -आत्मक a. causing death, fatal. -दशा the time or hour of death. -धर्मः the law of death. -धर्मन् a. mortal. -निश्चय a. determined to die; Pt.1. -मण्डनम् Wearing dress and ornamants as a Satī usually wears; अथ मदम्बा मरणमण्डनमनुष्ठाय Dk. 2.1,4. -शील a. mortal.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरण n. the act of dying , death , ( ifc. dying by ; णं1. कृA1. कुरुते, to die) S3rS. Mn. MBh. etc.

मरण n. passing away , cessation (as of lightning or rain) AitBr.

मरण n. (in astrol. ) the 8th mansion VarBr2S. Sch.

मरण n. a kind of poison L. (prob. w.r. for मारण)

मरण n. a refuge , asylum BhP. (prob. w.r. for शरण).

"https://sa.wiktionary.org/w/index.php?title=मरण&oldid=503410" इत्यस्माद् प्रतिप्राप्तम्