महाभारतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाभारतम्, क्ली, (महत् भारतम् । यद्वा, महान्तं भारं तनोतीति । महाभार + तन् + डः ।) व्यासप्रणीतेतिहासशास्त्रम् । तन्नामकारणं यथा, -- “एकतश्चतुरो वेदा भारतञ्चैतदेकतः । पुरा किल सुरैः सर्व्वैः समस्य तुलया धृतम् ॥ चतुर्भ्यः सरहस्येभ्यो वेदेभ्योऽभ्यधिकं यदा । तदाप्रभृति लोर्कऽस्मिन् महाभारतमुच्यते ॥ महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते ॥” इति महाभारते आदिपर्व्व ॥ * ॥ लोकविशेषेषु तस्य श्लोकसंख्या वाचकाश्च यथा, “षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । त्रिंशच्छतसहस्रञ्च देवलोके प्रतिष्ठितम् ॥ पित्रे पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्द्दश । एकं शतसहस्रन्तु मानुषेषु प्रतिष्ठितम् ॥ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्व्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान् ॥” इति महाभारते १ पर्व्वणि अनुक्रमणिका- ध्यायः ॥ * ॥ तत्र शतपर्व्वाणि तेष्वष्टादश मुख्यानि यथा, -- “आदिसभाविपिनानि विराट- प्रोद्यमभीष्मगुरूणि च कर्णः । शल्यकसौप्तिकपर्व्व तथा स्त्री- शान्त्यनुशास्तितुरङ्गममेधाः ॥ भारतश्रवणाद्राज्ञा पारणे च नृपोत्तम ! ॥ सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता । * । भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥ भारतं परमं पुण्यं भारते विविधाः कथाः । भारतं सेव्यते देवैर्भारतं परमं पदम् ॥ भारतं सर्व्वशास्त्राणामुत्तमं भरतर्षभ ! । भारतात् प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि ते ॥ महाभारत्तमाख्यान क्षितिं गाञ्च सरस्वतीम् । ब्राह्मणान् केशवञ्चैव कीर्त्तयन्नावसीदति ॥ वेदे रामायणे पुण्ये भारते भरतर्षभ ! । आदौ चान्ते च मध्ये च हरिः सर्व्वत्र गीयते ॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः । तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥ एतत् पवित्रं परममेतद्धर्म्मनिदर्शनम् । एतत् सर्व्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥” इति महाभारते हरिवंशे सर्व्वपर्व्वानुकीर्त्त- नम् ॥ * ॥ त्रिषष्ठिवर्णसंयुक्तमित्यत्र त्रिषष्टि- वर्णाः । अ इ उ ऋ ऌ इति ह्रस्वपञ्चकम् । आ ई ऊ ॠ ॡ इति दीर्घपञ्चकम् । आ ई ऊ ऋ ॡ इति प्लुतपञ्चकम् । ए ओ ऐ औ च दीर्घाः । प्लुतत्वेनापरचतुष्टयम् । अं अः क + प~ इति चत्वारः । ॠ ॡ इति अच्संज्ञकौ द्बौ । अनुनासिकश्चैकः । तथा कादिमावसानाः पञ्चविंशतिवर्णाः । अन्तःस्थाश्चत्वारः । उष्म- चतुष्टयमिति त्रिषष्टिः । इति ॥ * ॥ वर्णानां किलाष्टौ स्थानानि भवन्ति तानि यथा, -- “उरः कण्ठः शिरस्तालु जिह्वादन्तौष्ठ- नासिकाः । अष्टौ स्थानानि वर्णानां ये विदुस्ते हि पाठकाः ॥” * ॥ पारणं यथा, -- “भारतं शतपर्व्वोक्तं मुनिना तत्त्वदर्शिना । पर्व्वभिर्द्दशभिश्चैषां पर्व्वणां पारणं स्मृतम् ॥” इति विक्रमादित्यः ॥ “द्यूतान्तं प्रथमं प्रोक्तं द्बितीयं वनवासिकम् । उद्योगान्तं तृतीयन्तु भीष्मान्तञ्च तुरीयकम् ॥ पञ्चमं द्रोणपर्व्वान्तं कर्णान्तं पारणं ततः । विशोकान्तं सप्तमन्तु शान्तिपर्व्वान्तमष्टमम् ॥ नवमं स्वर्गपर्व्वान्तमाश्चर्य्यान्तमतः परम् ॥” इति च भारतटीकायां अर्ज्जुनमिश्रः ॥ (अन्यत्सर्व्वं भारतशब्दे द्रष्टव्यम् ॥)