हरितकी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरितकी, स्त्री, (हरि पीतवर्णं फलमिता प्राप्ता इति हरीता । ततः संज्ञायां कन् गौरादि- त्त्वात् ङीष् ।) स्वनामख्यातवृक्षः । हरडा इति हिन्दी भाषा । तत्पर्य्यायः । अभया २ अव्यथा ३ पथ्या ४ वयःस्था ५ पूतना ६ अमृता ७ हैम- वती ८ चेतकी ९ श्रेयसी १० शिवा ११ । इत्यमरः । २ । ४ । ५९ ॥ सुधा १२ कायस्था १३ कन्या १४ रसायनफला १५ । इति शब्दरत्ना- वली ॥ विजया १६ । इति जटाधरः ॥ जया १७ चेतनकी १८ रोहिणी १९ प्रपथ्या २० जीवप्रिया २१ जीवनिका २२ भिषग्वरा २३ पुस्तकान्तरे भिषक्प्रिया इति पाठः । जीवन्ती २४ प्राणदा २५ जीव्या २६ देवी २७ दिव्या २८ । अस्या गुणाः । नवा स्निग्धा घना वृत्ता गुर्व्वी क्षिप्ता च याम्भसि । निमज्जेत् सा सुप्रशस्ता कथितातिगुणप्रदा ॥ नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता । हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ॥ चर्व्विता वर्द्धयत्यग्निं पेषिता मलशोधिनी । स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोष- नुत् ॥ उन्मीलिनी बुद्धिबसेन्द्रियाणां निर्म्मूलिनी पित्तकफानिलानाम् । विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन ॥ अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान् । हरीतकी हरत्याशु भुक्तस्योपरियोजिता ॥ लवणेन कफं हन्ति पित्तं हन्ति सशर्करा । घृतेन वातजान् रोगान् सर्व्वरोगान् गुडान्विता । सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् । वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥ अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्षितश्च । पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “जीवन्ती रोहिणी चैव विजया चाभयामृता । पूतना कालिका चेति सप्तजातिर्हरीतकी ॥ सुवर्णवर्णा जीवन्ती रोहिणी कपिलद्युतिः । अलावुवृत्ता विजया पञ्चांशा चाभया स्मृता ॥” पञ्चांशा पञ्चशिरा । “स्थूलमांसामृता ज्ञेया पूतनास्थिमती मता । त्र्यंशा च कालिकेत्येवं सप्तजातिर्हरीतकी ॥ स्नेहपानेषु सर्व्वेषु जीवन्ती तु प्रशस्यते । रोहिणी क्षतरोगेषु विजया सर्वकर्म्मसु ॥ पूतना लेपने ज्ञेया अमृता तु विरेचने । अभया नेत्ररोगेषु गन्धयुक्तौ तु कालिका ॥ हरस्य भवने जाता हरिता च स्वभावतः । हरते सर्व्वरोगांश्च तेन नाम्ना हरीतकी ॥ * ॥ पीयूषं पिबतस्त्रिपिष्टपपतेर्ये विन्दवो निर्गता- स्तेभ्योऽभूदभया दिवाकरकरश्रेणीव दोषापहा । कालिन्दीव बलप्रमोदजननी गीरीव शूलिप्रिया वह्निद्योतकरी हुताहुतिरिव क्षौणीव नाना- रसा ॥ पथ्या पञ्चरसायुष्या चक्षुष्यालवणा सरा । मेध्योष्णा दीपनी कुष्ठदोषशोथब्रणाप्रहा ॥” * ॥ पञ्चरसस्य विवरणम् । त्वक् कटुः । मांसं अम्ल कषायम् । अस्थि तिक्तम् । तन्मध्ये माधुर्य्यम् ॥ * ॥ तन्मज्जगणाः । “पथ्यामज्जा तु चक्षुष्यो वातपित्तहरो गुरुः ॥” इति राजवल्लमः ॥
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरितकी f. Terminalia Chebula DivyA7v.