हिङ्गु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गु, क्ली, मूलविशेषनिर्यासः । स तु पारस्य- खोरासानमूलतानादिदेशे भवति । हिं इति भाषा । तत्पर्य्यायः । सहस्रवेधि २ जतुकम् ३ वाह्लोकम् ४ रामठम् ५ । इत्यमरः । २९ । ४० ॥ वाह्लिकम् ६ रामठम् ७ । इति भरतः ॥ जन्तु- घ्नम् ८ । इति रत्नमाला ॥ पिण्याकम् ९ वाह्ली १० सहस्रवेधी ११ गृहिणो १२ मधुरा १३ सूपधूपनम् १४ जतु १५ । इति शब्दरत्नावलो ॥ केशरम् १६ । इति जटाधरः ॥ उग्रगन्धम् १७ भूतारि १८ जन्तुनाशनम् १९ सूपाङ्गम् २० रक्षोघ्नम् २१ उग्रवीर्य्यम् २२ अगूढगन्धम् २३ जरणम् २४ भेदनम् २५ दीप्तम् २६ । अस्य गुणाः । हृद्यत्वम् । कटत्वम् । उष्णत्वम् । कृमिवातकफविबन्धाध्मानशूलगुल्मनाशित्वम् । चक्षुष्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ॥ “हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातवलासहृत् । रसे पाके च कटुकं स्निग्धञ्च वह्निदीपनम् । शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्द्धनम् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत् । लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित् ॥” इति राजवल्लभः ॥ वंशपत्री । इति भावप्रकाशः ॥ (काकादनी । तदर्थे पर्य्यायो यथा, -- “हिङ्गु काकादनी मता ।” इति गारुडे २०८ अध्याये ॥ क्वचिद्रामठार्थे, पुं । तत्पर्य्यायो यथा, -- “रामठं हिङ्गुरुच्यते ॥” इति च तत्रैव २०८ अध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गु नपुं।
हिङ्गुवृक्षनिर्यासः
समानार्थक:सहस्रवेधि,जतुक,बल्हीक,हिङ्गु,रामठ,बाह्लीक
2।9।40।1।4
सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम्. तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः॥
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गु¦ न॰ हिमं गच्छति गम--डु नि॰। (हिङ्) रामठदेशो-द्भवे वृक्षे अमरः यस्य निर्यासो हिङ्गुद्रव्यम्।
“हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासहृत्। रसे पाके च कटुकं स्निग्धञ्च वह्निदीपनम्। शूलगुल्मो-दरानाहकृमिध्नं पित्तवर्द्धनम्” भावप्र॰।
“हिङ्गुतीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत्। लघूष्णं पाचनंस्निग्धं दीपनं कफवातजित्” राजव॰।
२ वंशपत्रे भावप्र॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गु¦ mn. (-ङ्गुः-ङ्गु) Asafœtida, (the gum and plant respectively.) E. हि to go, deriv. irr., or हिम frost, गम् to go, डु aff., form irr.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गु m. Ferula Asa Foetida Buddh. BhP.
हिङ्गु n. a fluid or resinous substance prepared from the roots of the Asa Foitida (used as a medicine or for seasoning) MBh. Hariv. Sus3r. etc.