प्रवीणः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • प्रवीणः, दक्षं, पटुः, विज्ञः, निपुणः, चतुरः, विचक्षणः, विशारदः, कोविदः, समर्थः, कार्यसाधकः, कार्यसिद्धिक्षमः।

नामः[सम्पाद्यताम्]

  • प्रवीणः नाम निपुणः।

अनुवादाः[सम्पाद्यताम्]

प्रवीणः]]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीणः, त्रि, (प्रकृष्टा संसाधिता वीणास्य । यद्वा, प्रवीणयति वीणया प्रगायतीति । प्र + वीण + णिच् + अच् । वीणया गायकस्य नैपुण्यप्रसिद्धे- स्तत्तुल्यनैपुण्यात् तथात्वम् ।) प्रकृष्टं वेत्ति यः । तत्पर्य्यायः । निपुणः २ अभिज्ञः ३ विज्ञः ४ निष्णातः ५ शिक्षितः ६ वैज्ञानिकः ७ कृत- मुखः ८ कृती ९ कुशलः १० । इत्यमरः । ३ । १ । ४ ॥ (यथा, कुमारे । १ । ४८ । “विश्वावसुप्राग्रहरैः प्रवीणैः सङ्गीयमानत्रिपुरावदानः । अध्वानमध्वान्तविकारलङ्घ्य- स्ततार ताराधिपखण्डधारी ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रवीणः&oldid=461249" इत्यस्माद् प्रतिप्राप्तम्