चटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः, पुं, (चटति भिनत्ति धान्यादिकं चञ्चुपुटेनेति । चट भेदे + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति पचादित्वादच् ततः स्वार्थे कन् ।) पक्षि- विशेषः । चटा इति भाषा ॥ (यथा, देवी- भागवते । १ । ४ । ८ । “वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥”) तत्पर्य्यायः । कलविङ्कः २ । इत्यमरः । २ । ५ । १८ ॥ चित्रपृष्ठः ३ गृहनीडः ४ वृषायणः ५ । इति हारावली ॥ काभुकः ६ नीलकण्ठकः ७ काल- कण्ठकः ८ कामचारी ९ । इति जटाधरः ॥ कलाविकलः १० । इति शब्दरत्नावली ॥ तन्मांस- गुणाः । शीतत्वम् । लघुत्वम् । शुक्रबलप्रदत्वञ्च । तद्वच्चारण्यचटकं तत् क्रर्व्य लघु पथ्यदम् ॥ इति राजनिर्घण्टः ॥ (“चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम् । गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “चटका मधुराः स्निग्धा बलशुक्रविवर्द्धनाः । सन्निपातप्रशमनाः शमभा मारुतस्य च ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक पुं।

चटकः

समानार्थक:चटक,कलविङ्क

2।5।18।1।1

चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः। पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा॥

पत्नी : चटकस्त्री

जन्य : चटकपुमपत्यम्,चटकस्त्र्यपत्यम्

 : चटकस्त्री, चटकपुमपत्यम्, चटकस्त्र्यपत्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक¦ पुंस्त्री॰ चटति भिनत्ति धान्यादिकम् चट--क्वुन्।

१ कलविङ्के (चडुइ) अमरः जातित्वेऽपि स्त्रियामजादि-त्वात् टाप् न तु ङीप्। स्वार्थे क। चटककोऽप्यत्र। स्त्रियां जातित्वेऽपि टापि क्षिपका॰ नित्यं न अतइत्त्वम्। तन्मांसगुणादि भावप्र॰ उक्तं यथा
“चंटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः। कु-लिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफपदः। सन्नि-पातहरो ग्रामचटकश्चातिशुक्रलः”।

२ पिप्पलीमूले न॰ अमरटीका।

३ श्यामाखगे स्त्री राजनि॰। चटका + स्वार्थे क। अतो वेत्त्वम् चटकका चटकिका” सि॰ कौ॰। चटकस्य चटकाया वा अपत्यं पुमान् अण्ऐरक्। चाटकैर चटकापत्ये पुंसि। स्त्रियान्तु अणोलुक्। चटका चटकयोः स्त्र्यपत्ये स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक¦ m. (-कः) A sparrow. f. (-का)
1. A hen-sparrow.
2. A young hen- sparrow.
3. The root of long pepper: see चटकाशिरस् and चटिका। E. चट् to break, क्वुन् affix, braking corn, &c. चटति भिनत्ति धान्यादिकम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः [caṭakḥ], A sparrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक m. a sparrow MBh. xii Hariv. Sus3r. VarBr2S. Pan5cat.

चटक m. N. of a poet Ra1jat. iv , 496

चटक m. pl. " sparrows " , a nickname of वैशम्पायन's school( v.l. for चरक) Va1yuP.

"https://sa.wiktionary.org/w/index.php?title=चटक&oldid=353526" इत्यस्माद् प्रतिप्राप्तम्