सामग्री पर जाएँ

शिवलिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवलिङ्गम्, क्ली, (शिवस्य लिङ्गम् ।) महादेवस्य शेफः । तस्योत्पत्तिर्यथा, -- “तत्रापि गत्वा मदनो ददर्श वृषकेतनम् । दृष्ट्वा प्रहर्त्तुकामोऽस्य ततः स प्राद्रवद्धरः ॥ ततो दारुवनं घोरं मदनाभिसृतो हरः । विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥ ते चापि ऋषयः सर्व्वे दृष्ट्वा मूर्ध्ना नताभवन् । ततस्तान् प्राह भगवान् भिक्षां मे प्रतिदीयताम् ततस्ते मौनिनस्तस्थुः सर्व्व एव महर्षयः । तदाश्रमाणि पुण्यानि परिचक्राम नारद ! ॥ तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः । प्रक्षोभमगमन् सर्व्वा हीनसत्त्वाः समन्ततः ॥ ऋते त्वरुन्धतीमेनामनसूयाञ्च भाविनीम् । एताभ्यां भर्त्तृपूजासु कृतं वै सुस्थिरं मनः ॥ ततः संक्षुभिताः सर्व्वा यत्र याति महेश्वरः । तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥ त्यक्त्वाश्रमाणि शून्यानि खानि ता मुनियोषितः । अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥ ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने । क्रोधान्विताब्रुवन् सर्व्वे लिङ्गोऽस्य पततां भुवि ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत् । अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥ ततस्तत्पतितं लिङ्गं विभिद्य वसुधातलम् । रसातलं विवेशाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत् ॥ ततश्चचाल पृथिवी गिरयः सरितो नगाः । पातालभुवनाः सर्व्वे जङ्गमाजङ्गमाः स्थिताः ॥ संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पिता- महः । जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥ तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः । उवाच देव भुवनाः किमर्थं क्षुभिता विभो ॥ निर्म्माय पार्थिवं लिङ्गं कुण्डलीसहितं प्रिये ॥ या लिङ्गं परमेशानि स रुद्रः परमेश्वरः । कुण्डली वेष्टनी तस्य सा देवी परमेश्वरी ॥ शिवस्य पूजनात् देवि देवीदेवौ च पूजितौ ॥” इति मत्स्यसूक्तम् ॥ * ॥ बाणलिङ्गनिर्म्माल्यग्रहणे प्रतिप्रसवो यथा, -- “बाणलिङ्गे न चाशौचं न च निर्म्माल्यकल्पना सर्व्वं बाणार्पितं ग्राह्यं भक्त्या भक्तैश्च नान्यथा ॥ ग्राह्याग्राह्यविचारोऽयं बाणलिङ्गे न विद्यते । तदर्पितं जलं पत्रं ग्राह्यं प्रसादसंज्ञया ॥ बाणलिङ्गे स्वयम्भूते चन्द्रकान्तेन्द्रसंस्थिते । चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणैः ॥” इति शिवनारदसंवादः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवलिङ्ग¦ न॰

६ त॰। शिवस्य लिङ्गाकारे प्रस्तरादिमये पदार्थेतदाविर्भावपूज्यतादिक यथा
“प्तत्राषि गत्वा मदनो ददर्श वृषकेतनम्। दृष्ट्वा प्रहर्त्तुकामोऽथ ततः स प्राद्रवद्धर। ततो दारुवनं घोरंमदनाभिसृतो हरः। विवेश ऋषयो यत्र सपत्नीकाव्यवस्थिताः। ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नता-भवन्। ततस्तान् प्राह भगवान् भिक्षां मे प्रति दीय-नाम्। ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः। तदाश्रमाणि पुण्यानि परिचक्राम नारद!। तं प्रविष्टंतदा दृष्ट्वा भार्गवात्रेययोषितः। प्रक्षोभमगमन् सर्वाहीनसत्त्वाः समन्ततः। ऋते त्वरुन्धतीमेकामनसूयाञ्चभाविनीम्। एताभ्यां भर्तृपूजासु कृतं वे सुस्थिरं मनः। ततः संक्षुभिताः सर्वा यत्र याति महेश्वरः। तत्र प्र-यान्ति कामार्त्ता मदविह्वलितेन्द्रियाः। त्यक्त्वाश्रमाणिशून्यानि स्वानि ता मुनियोषितः। अनुजग्मुर्यथा मर्त्तंकरिण्य इव कुञ्जरम्। ततस्तु ऋषयो दृष्ट्वा भार्गवा-ङ्गिरसो मुने!। क्रोधान्विताब्रुवन् सर्वे लिङ्गोऽस्य पततांभुवि। ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत्। अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः। ततः सपतितो लिङ्गो विभिद्य वसुधातलम्। रसातलं विवे-शाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत्। ततश्चचाल पृथिवीगिरयः सरितो नगाः। पातलभुवनाः मर्वे जङ्गमाऽज-ङ्गमाः स्थिताः। संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन्पितामहः। जगाम माधवं द्रष्टुं क्षीराटं नाम साग-रम्। तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः। उवाचदेव! भुवनाः किमर्थं क्षुभिता विभो!। अथोवाच हरि-र्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः। पतितस्तस्य भारार्त्तासञ्चचाल वसुन्धरा। ततस्तदद्भुतमयं श्रुत्वा देवः पि-तामहः। तत्र गच्छा देयेश एवमाह पुनः पुनः। ततः पितामहो देवः केशवश्च जगत्पतिः। आजगामतमुद्देशं यत्र लिङ्गं भवस्य तत्। ततोऽनन्तं हरि-र्लिङ्गं दृष्ट्वारुह्य खगेश्वरम्। पातालं प्रविवेशाथ विस्म-यात् त्वरितो विभुः। ब्रह्मा पद्मविमानेन उर्द्ध्वमाक्रम्यसर्वनः। नैवान्तमलभद् ब्रह्मा विस्मितः पुनरागमः। वि-ष्णुर्गत्वाथ पातालं सप्तलोकपरायणः। चक्रपाणिविंनिष्-क्तान्तो सेभेऽन्तं न महामुने!” इत्युपक्रमे
“हरा उवाच[Page5114-a+ 38] यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ!। तदेतत्-प्रतिगृह्णीयां नान्यथति कथञ्चन। ततः प्रोवाच भगवाने-वमस्त्विति केशवः। ब्रह्मा स्वयञ्च जग्राह लिङ्गं कनक-पिङ्गलम्। ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने। शास्त्राणि चैषां सुख्यानि नानोक्तिविदितानि च। आद्यं शैवं

१ परिख्यातमन्यत् पाशुपतं

२ मुने!। तृतीयंकालवदनं

३ चतुर्थञ्च कपालिकम्

४ । शैव आसीत् स्वयंशक्तिर्वशिष्ठस्य प्रियः सुतः। तस्य शिष्यो बभूवाथ गो-पायन इति श्रुतः। महापाशुपतस्त्वासीद्भारद्वाजस्तपो-धनः। तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः। कालास्यो भगवानासीदापस्तम्बस्तपोधनः। तस्य शिष्योवको वैश्यो नाम्ना क्राथेश्वरो मुने। महाव्रती च धनद-स्तस्य शिष्यश्च वीर्य्यवान्। कुन्दोदर इति ख्यातो जात्याशुद्रो महातपाः। एवं स भगवान् व्रह्मा पूजनायशिवस्य च। कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः। गते ब्रह्मणि सर्वोऽपि ततः संहृत्य तं तदा। लिङ्गंचित्रवनं, सूक्ष्मं प्रतिष्ठाप्य{??}चार ह”। वामनपु॰

६ अ॰। एकगृहे लिङ्गद्वयार्चननिषेधो यथा
“गेहे लिङ्गद्वयं नार्च्यंशालग्रामद्वयं तथा। द्वे चक्रे द्वारकायास्तु नार्च्यंसूर्य्यद्वयं तथा”। तन्निर्माल्यभक्षणविधिनिषेधौ यथा
“अभक्ष्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्। शाल-ग्रामशिलायोगात् पावनं तद्भवेत् सदा”।
“लिङ्गपूजांविना देवि! अन्यपूजां करोति यः। विफला तस्य पूजास्यादन्ते नरकमाप्नुयात्। तस्माल्लिङ्गं प्रयत्नेन प्रथमं प-रिपूजयेत्”। तत्पूजनप्रशंसा यथा
“यद्राष्ट्रं लिङ्गपू-जायां रहितं संततं प्रिये!। तद्राष्ट्र पतितं मन्येविष्ठाभूमिसमं स्मृतम्”।
“ब्रह्मा विट् क्षत्रियो देवि!यदि लिङ्गं न पूजयेत्। तत्क्षणात् परमेशानि! त्रयंचाण्डालतां व्रजेत्। शूद्रश्च परमेशानि! सदा शूकरवत्प्रिये!। पूजयेत् परमेशानि! चत्वारो ब्रह्मणादयः। शिवार्च्चनन्तु पूजासु यद्गृहे वर्जितं सदा। विष्ठागर्त्तसमं देवि! तद्गृहं विद्धि पार्वति!। शाक्तो वा वैष्णवोवापि शैवो वा परमेश्वरि!। आदौ लिङ्गं समभ्यर्च्यबिल्वपत्रैर्वरानने!। पश्चादन्यं महेशानि! शिवं प्रार्थ्य-प्रपूजयेत्। शिवपूजां विना देवि! अन्यपूजां करोतियः। स एव रसनाहीनः कुम्भीरो जायते प्रिये!। निर्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम्। आशुतोषंमहादेवं शङ्करं वृषभध्वजम्। निर्माय पाषितं लिङ्गं[Page5114-b+ 38] विधिवत् पूजयेत् शिवम्। शिवपूजा महेशानि! यदु-गृहे सततं प्रिये!। काशीपुरं महेशानि! तद् गृह वर-वर्णिनि!। शिवलिङ्गं प्रपूज्याथ सर्वपूजाफल लभेत्”। चतुर्विधलिङ्गं यथा
“चतुर्द्धा पार्थिवं लिङ्ग मृतस्ना-भेदेन पार्वति!। शुक्लं रक्तं तथा पीतं कृष्णञ्च परमे-श्वरि!। शुक्लन्तु ब्राह्मणे शस्तं, क्षत्रिये रक्तमिष्यते। पीतं च वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्त्तितम्। चान्द-नञ्च महेशानि! सर्वजातिषु शस्यते”। लिङ्गार्चनतन्त्रे

१ ।

२ ।

३ प॰। अस्य पञ्च वक्त्राणि यथा
“तत् सर्वंशृणु चार्कङ्गि पार्थिवस्य मुखं प्रिये!। विभाव्य मुखपद्मंहि शिवस्य वरवर्णिनि!। सद्योजातं वामदेवमघोरञ्चततः परम्। तत्पुरुषं तथेशानं पञ्चवक्त्वं प्रकीर्त्ति-तम्। सद्योजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम्। पीतवर्णं तथा सौम्यं वामदेवं मनोहरम्। कृष्णवर्ण-मघोरञ्च समं भीमविवर्द्धनम्। रक्तं तत्पुरुषं देवंदिव्यमूर्त्ति मनोहरम्। श्यामलञ्च तथेशानं सर्वदेवशिवात्मकम्। चिन्वयेत् पश्चिमे चाद्यं द्वितीयन्तु तथो-त्तरे। अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा। ईशानो मध्यतोध्येयं चिन्तयेत् भक्तितत्परः”। तत्रैव

६ प्रटलः। अथ रौद्रलिङ्गलक्षणम्, वीरमित्रोदयधृते
“नदीसमुद्भवं रौद्रमन्योन्यस्य विथर्षणात्। नदी-वेगात् समं स्निग्धं संजातं रौद्रमुच्यते”। समुच्चयेऽपि
“सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति। तदन्यदपिबोद्धव्यं रौद्रलिङ्गं सुखावहम्। नदीसारनर्मदायां व{??}लिङ्गसमाकृति। तदन्यदपि वोद्धव्यं लिङ्गं रौदूं भवि-ष्यति। रौद्रलिङ्गं तथाख्यातं वाणलिङ्गसमाकृति। श्वेतंरक्तं तथा षीतं कृष्णं विप्रादिपूजितम्। स्वभावात् कृष्ण-वर्णं वा सर्वजातिषु सिद्धिदम्। नर्मदासम्भवं रौद्रंवाणलिङ्गवदीरितम्”। दैवलिङ्गमधिकृत्य सिद्धान्तशेखरे
“करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम्। रेखाकोटरसं-युक्तं निम्नोन्नतसमन्वितम्। दीर्वाकारञ्च यल्लिङ्गं ब्रह्म-भानादिवर्जितम्”। अथ गोललिङ्गलक्षणम्
“लिङ्गंगोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना। कुष्माण्डस्यकलाकारं नागरङ्गफलोपमम्। काकडिम्बफलाकारंगोललिङ्गमितीरितम्”। अथार्षलिङ्गलक्षणम्। तत्रैव
“{??}कोलफलाकारं ब्रह्मसूत्रविवर्जितम्। मूले स्थू-मञ्च गलिङ्गं कपित्थफलसन्निभम्। तालस्य वा फला-कारं मध्ये स्थूल{??} यद्भवेत्। मध्ये स्थूस्तं वरं लिङ्ग[Page5115-a+ 38] मृषिलिङ्गमुदीरितम्”। लिङ्गं च द्विविधमकृत्रिमंकृत्रिमञ्च अकृत्रिमं स्वयम्भुवाणलिङ्गादि स्वयम्भूतम्। कृत्रिमं धातुलिङ्गादिनिर्मितम्। सिद्धान्तशेखरे
“तल्लिङ्गंद्विविधं ज्ञेयमचलञ्च चलं तथा। प्रत्येकं त्रिविधंज्ञेय लिङ्गं तदुभयात्मकम्। प्रासादे स्थापितं लिङ्गमचलंतच्छिलादिजम्। स्थापितमचलं गेहे स्थिरं लिङ्ग-मयोजिते। पञ्चधा तत स्थितं लिङ्गं स्वयम्भु दैवपालि-तम्। आर्षञ्च मामसं लिङ्गं तेषां लक्षणमुच्यते। नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम्। अदृष्टमूलंयल्लिङ्गं कर्कशं भुवि दृश्यते। तल्लिङ्गन्तु खयम्भू-तमषरं लक्षणच्युतम्। स्वयम्भुलिङ्गमित्युक्तं तच्चनानाविधं मतम्। शङ्खाभमस्तकं लिङ्गं वैष्णवं तदु-दाहृतम्। पद्माभमस्तकं ब्राह्मं छत्राभं शाक्रमुच्यते। शिरोयुग्मं तथाग्नेयं त्रिपदं याम्यमोरितम्। खड्गाभंनैरृतं लिङ्गं वारुणं कलसाकृति। वायव्यं ध्वजब-ल्लिङ्गं कौवेरन्तु गदान्वितम्। ईशानस्य त्रिशूलाभं लो-कपालादि निःसृतम्। सयम्भुलिङ्गमाख्यातं सर्वशास्त्रविशारदैः”। मत्स्यसूक्ते
“दृष्ट्वा लिङ्गं महेशस्य स्वय-म्भूतस्य पार्वति!। सर्वपाधविनिर्मुक्तः परे ब्रह्मणि ली-यते”। एतेषां पूजाफलन्तु तत्रैव
“विशेषाच्छैलजंमुक्त्यै भुक्तये चानुषङ्गतः। पार्थिवं भुक्तये शस्तं मुक्तयेचानुषङ्गतः। एवं वै दारुजं ज्ञेयं धातुलिङ्गं तथापुनः। स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यपदञ्च तत्। पुत्रवृद्धिकरं ताम्रं राङ्गभायुःप्रवर्द्धनम्” पद्मपु॰
“पारदञ्च महाभूत्यै सौभाम्याय च मौक्तिकम्। चान्द्रकान्तं मृत्युजित् स्याद्धाटकं सर्वकामदम्”। वी॰ मि॰ धृतकल्पोत्तरेऽपि
“सर्वा फलप्रदा भूमिर्मणयस्तद्वदेव हि। अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः। रात्रौप्रकाशकाः सर्वे विषाद्याधातकारिणः। नानावर्णास्तुविज्ञेया रसैर्गन्धैश्च रूपतः। वज्राद्याः स्फाटिकाद्याश्चगुडान्नादिविनिर्मितम्। सर्वकामप्रदं पुंषां लिङ्गं तात्-कालिकं मतभ्”। लक्षणसमुच्चये
“गान्धं सौभाग्यदंलिङ्गं पौष्पं मुक्तिप्रदायकम्”। तथा
“नानागुणोद्भवंलिङ्गं नानाकामप्रदायकम्। सैकतं गुणदं लिङ्गं सौ-भाग्याय च कावणम्। उच्चाटनै तु पालाशं भास्मंशत्रुक्षयावहम्। तात्कालिकं दरिद्रश्च कृत्वा भक्त्या सम-र्चयेत्”। तथा
“कुस्तूरिकाया द्वौ भागौ चत्वारश्चन्द-मस्य च। कुङ्कुमस्य त्रवश्चैव शशिना च चतुःसमम्। [Page5115-b+ 38] एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः। शिवसा-युज्यमाप्तोति बन्धुभिः सहितो नरः। कार्य्यं पुष्पभयंलिङ्गं हयगन्धसमन्वितम्। नवखण्डां धरां भुक्त्वागणेशोऽधिपतिर्भवेत्। रजोभिर्निर्मितं लिङ्गं यः पूज-यति भक्तितः। विद्याधरपदं प्राप्य पश्चात् शिवसमी भ-वेत्। श्रीकामो गोशकृल्लिङ्गं कृत्वा मक्त्या प्रपूजयेत्। स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत्। कार्य्यं चषष्टिजं लिङ्गं यवगोधूमशालिजस्। श्रीकामः पुष्टिकामश्चपुत्रकामस्तदर्चयेत्। सिताखण्डमयं लिङ्गं कार्य्यमा-रोम्यवर्द्धनम्। वश्ये लवणजं लिङ्गं तले त्रिकटुका-न्वितम्। गव्यधृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम्। लव-णेन च सौभाग्यं पार्थिवं सर्वकामदम्। कामदं तिल-पिष्टोत्थं तुषोत्थं मारणे स्मृतम्। भस्मोत्थं सर्वफलदंगुडोत्थं प्रीतिवर्द्धनम्। गन्धोत्यं गुणदं भूरिशर्करोत्थंसुखप्रदम्। वांशाङ्कुरं वंशकरं गोमयं सर्वरोगदम्। केशास्थिसम्भवं लिङ्गं सर्वशत्रुविनाशनम्। क्षोभणेमारणे पिष्टसम्भवं लिङ्गमुत्तमम्। दारिद्र्यदं द्रुमोद्भूतंपैष्टं स्परस्वतप्रदम्। दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मीसुखप्रदम्। धान्यदं धान्यजं लिङ्गं फलोत्थं फलदंभवेत्। पुष्पोत्थं दिव्यभोनायुर्मुक्त्यै धात्रीफलोद्भवम्। नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम्। दूर्वा-काण्डसमुद्भूतमपमृत्युविनाशनम्। कर्पूरसम्भवं लिङ्गंकलायैर्भुक्तिमुक्तिदम्। आयख्यान्तं चतुर्द्ध्यं तु ज्ञेयंसामान्यसिद्धिषु” गरुडपु॰।
“सर्व मणिभवं श्रेष्ठंतत्र वाज्रमरिच्छिदे। यमलिङ्गं भहाभूत्यै सौभाग्यायच मौक्तिकम्। पुष्टिभूलं महानीलं ज्योतिस्तीरसमुद्भवम्। स्पर्शकं कुलसम्बत्त्यै तैजसं सूर्यकान्तजम्। चन्द्रा-पीडं मृत्युजिते स्फाटिकं सर्वकामदम्। शूलाख्य-मणिजं शत्रुक्षयार्थं मौक्तिकं तथा। आवत्थं हीरकं ज्ञेयंरोगहृन्मौक्तिकोद्भवम्। शुभकृत् पुष्कलं तीर्थे वैदूर्य्यंशत्रुदर्पहृत्। नीलं सक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्वकाम-दम्”। सारसंग्रहे
“महाभुक्तिप्रदं हैमं राजतं भूति-वर्द्धनम्। आरकूटं तथा कांस्यं शृणु सामान्यमुक्ति-दम्। त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम्। कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुत्रवर्द्धनम्। पैत्तलंभुक्तिमुक्त्यर्थं मिश्रजं सर्वसिद्धिदम्” कालोत्तर-तन्त्रम्। तत्रैव शिवनारदसंवादे
“पितॄणां मुक्तयेंलिङ्गं पूज्यं रजतसम्भवम्। हैमजं सत्यलोकस्य प्रा-[Page5116-a+ 38] प्तये पूजयेत् पुमान्। पूजयेत्ताम्रजं लिङ्गं पुष्टिकामोहि मानवः”। मत्स्यसूक्ते
“ताम्रलङ्गं कलो नार्च्यंरैत्यस्य सीसकस्य च। रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसंतथा”। मातृकाभेदतन्त्रे

१२ पटले
“पार्थिवे शिवपूजायांसर्वसिद्धियुतो भवेत्। पाषाणे शिवपूजायां द्विगुणंफलमीरितम्। स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनंमतम्। सर्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम्। ताम्रेपुष्टिं विजानीयात् कांस्ये च धनसंक्षयः। गङ्गा-याञ्च लक्षगुणं लाक्षायां रोगवान् भवेत्!। स्फाटिकेसर्वसिद्धिः स्यात् तथा मारकते प्रिये!। लौहलिङ्गे रि-पोर्नाशं कामदं भस्मलिङ्गकम्। बालुकायां काम्यसिद्धि-र्गोमये रिपुहंसनम्। सर्वलिङ्गस्य माहात्म्यं धर्मकामा-र्थमोक्षदम्। संस्कारेण विना देवि! पाषाणादौ नपूजयेत्”।
“मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम्। एतदन्यन्न कुर्वीत कदाचिदपि पार्वति!” मातृकाभेदतन्त्रे

७ प॰।
“मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम्। त्रिसू-त्रस्य प्रमाणेन घटनं कारयेद् बुधः। अङ्गुष्ठपर्वमानन्तुकृत्वा लिङ्गं प्रपूजयेत्” विश्वसारतन्त्रम्। त्रिसूत्रीक-रणमुक्तं कालात्तरे
“लिङ्गे वेद्यां तथा पीठे समसूत्र-निपातनात्। समञ्चैव विजानीयात् त्रिसूत्रीकरण-न्त्विदम्”। ब्राह्मणादीनां भृत्तिकाभेदेन पूजाफलप्रशंसा तत्रोक्ता यथा
“शुक्लं हि पार्थिवं लिङ्गं निर्माययस्तु पूजयेत्। स एव विप्रो देवेशि! त्रिवर्गफलभाग्-भवेत्। क्षत्रियस्तु वरारोहे! रक्तं निर्माय पार्थि-वम्। पूजयेत् सततं यस्तु त्रिवर्गफलभाग्भवेत्। पीतंतु पार्थिवं देवि! निर्माय यस्तु पूजयेत्। स च वैश्योमहेशानि। त्रिवर्गफलभाग्भवेत्। कृष्णं हि पार्थिवंलिङ्गं निर्माय यस्तु पूजयेत्। स शूद्रः परमेशानि!त्रिवर्गफलभाग्भवेत्। शिलादौ च महेशानि! स्थूलञ्चफलदायकम्। अङ्गुष्ठमानं देवेशि! यद्वा हेमाद्रिमान-कम्। क्रमेण देवदेवेशि! फलं बहुबिधं स्मृतम्। स्थूलात् स्थूलतरं लिङ्गं रुद्राक्ष परमेश्वरि!। पूजनाद्धारणाद्वापि फलं बहुविधं स्मृतम्”। स्थूलतरमितिपार्थिवलिङ्गेतरपरम् मृत्तिकातोलकं ग्राह्यमित्यादिवचनात्। शिलास्फाटिकमरकतादीनां पञ्चसूत्रीकर-णमुक्तम् लैङ्गे
“शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः। योन्यग्रमपि यन्मानं तदधोऽपि तथाभवेत्”।
“लिङ्गस्य यादृग्विस्तारः परिणामोऽपि[Page5116-b+ 38] तादृशः। लिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसंमिता। कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचिदपि क्वचित्। रत्नादि-शिवनिर्माणे मानमिच्छावशाद्भवेत्”। तन्त्रान्तरम्। लिङ्गशब्दव्युत्पत्तिर्यथा
“आकाशं लिङ्गमित्याहुःपृथिवी तस्य पीठिका। आलयः सर्वदेवानां लयना-ल्लिङ्गमुच्यते” स्कन्दपु॰।
“एकहस्तेन निर्माय प्रार्थिवं लिङ्गमर्चयेत्। लक्षलिङ्ग-पूजनस्य फलमाप्नोत्यसंशयम्। तदेव स्याच्छतगुणं वाम-हस्तेन निर्मितम्। मृदाहरणकेशादि शोधनञ्चैव पा-णिना।
“एवं कृते तु गृहिणां संसारात् स विमु-ञ्चतिः। द्व्याधिकैर्विं शतिपलैर्मृद्भिः शैवं प्रयत्नतः। लिङ्गं निर्माय देवेशि! पूजयेद्भक्तिसंयुतः” तन्त्रसारः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवलिङ्ग¦ n. (-ङ्गं) S4IVA in the form of a phallus.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवलिङ्ग/ शिव--लिङ्ग n. शिव's genital organ or शिवworshipped in the form of the लिङ्गVarBr2S. Katha1s.

शिवलिङ्ग/ शिव--लिङ्ग n. any temple or spot dedicated to the worship of शिव's लिङ्गMW.

शिवलिङ्ग/ शिव--लिङ्ग n. N. of the city काशीor Benares Gal.

शिवलिङ्ग/ शिव--लिङ्ग m. (with चोल-भूपति)N. of an author

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sacred to जलप्रिया, फलकम्:F1: M. १३. ३३.फलकम्:/F the sun to be worship- ped in the form of. फलकम्:F2: Ib. ५५. 5.फलकम्:/F

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIVALIṄGA : See under Śiva, Para 16.


_______________________________
*8th word in left half of page 731 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शिवलिङ्ग&oldid=438743" इत्यस्माद् प्रतिप्राप्तम्