सामग्री पर जाएँ

दमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमः, पुं, (दमनमिति । दम + भावे घञ् । “नो- दात्तोपदेशस्येति ।” ७ । ३ । ३४ । इति वृद्ध्य- भावः ।) दण्डः । इत्यमरः । २ । ८ । २१ ॥ दण्डस्य लक्षणं यथा, -- “दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्ब्बुधाः । यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥” इति मत्स्यपुराणम् ॥ (यथा, मनुः । ८ । १९२ । “निक्षेपस्यापहर्त्तारं तत्समं दापयेत् दमम् ॥”) तपःक्लेशसहिष्णुता । तत्पर्य्यायः । दान्तिः २ दमथः ३ । इत्यमरः । ३ । २ । ३ ॥ दमनम् । तत्तु वाह्येन्द्रियनिग्रहः । इति वेदान्तसारः ॥ विषयाद्व्यावृत्तस्य मनसो यथेष्टविनियोगयोग्यता । इति केचित् ॥ दमस्य लक्षणं यथा, -- “कुत्सितात् कर्म्मणो विप्र ! यच्च चित्तनिवारणम् । स कीर्त्तितो दमः प्राज्ञैः समस्ततत्त्वदर्शिभिः ॥” इति पाद्मे क्रियायोगसारः ॥ (यथा, मनुः । ६ । ९२ । “धृतिःक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्राधा दशकं धर्म्मलक्षणम् ॥”) कर्द्दमः । इति मेदिनी । मे, १४ ॥ (गृहम् । इति निघण्टुः । ३ । ४ ॥ यथा, ऋग्वेदे । १ । ७५ । ५ । “अग्ने यक्षि स्वं दमम् ॥” महर्षिविशेषः । यथा, महाभारते । १३ । २६ । ५ । “विश्वामित्रः स्थूलशिराः सम्बर्त्तः प्रमतिर्दमः ॥” मरुत्तस्य राज्ञः पुत्त्रः । यथा, भागवते । ९ । २ । २९ । “मरुत्तस्य दमः पुत्त्रस्तस्यासीद्राजवर्द्धनः ॥” मरुत्तस्य पौत्त्रः । इति मार्कण्डेयपुराणम् । यथा तत्रैव । १३४ । १ -- ५ । “एवं स राजा धर्म्मात्मा नरिष्यन्तोऽभवत् पुरा । मरुत्ततनयो विप्र ! विख्यातबलपौरुषः ॥” “नरिष्यन्तस्य तनयो दुष्टारिदमनो दमः । शक्रस्येव बलं तस्य दयाशीलं मुनेरिव ॥ वाभ्रव्यामिन्द्रसेनायां स जज्ञे तस्य भूभृतः । नववर्षाणि जठरे स्थित्वा मातुर्महायशाः ॥ यद्ग्राहयामास दमं मातरं जठरे स्थितः । दमशीलश्च भविता यतश्चायं नृपात्मजः ॥ ततस्त्रिकालविज्ञानः स हि तस्य पुरोहितः । दम इत्यकरोत् नाम नरिष्यन्तसुतस्य तु ॥ स दमो राजपुत्त्रस्तु धनुर्व्वेदमशेषतः । जगृहे नरराजस्य सकाशाद्वृषपर्व्वणः ॥” अस्य विशेषविवरणन्तु तत्रैवाध्याये विशेषतो द्रष्टव्यम् ॥ भीमस्य राज्ञः पुत्त्रविशेषः । यथा, महाभारते । ३ । ५३ । ९ । “कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः । दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । १०५ । “धनुर्धरो धनुर्व्वेदो दान्तो दमयिता दमः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमः [damḥ], [दम् भावे घञ्]

Taming, subduing.

Selfcommand, subduing or curbing the passions, selfrestraint; Mb.1.1.2; Bg.1.4; (निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते).

Drawing the mind away from evil deeds or curbing its evil propensities; (कुत्सितात्कर्मणो विप्र यच्च चित्तनिवारणं स कीर्तितो दमः).

Firmness of mind,

Punishment, fine; चिकित्सकानां सर्वेषां मिथ्या प्रचरतां दमः Ms.9.284,29;8.293; Y.2.4; Bhāg.1.18.41.

Mire, mud.

Viṣṇu.

N. of a brother of Damayantī.

दमः [damḥ] मम् [mam], मम् Ved.

A house, home; दमेदमे समिधम् Vāj.8.24.

The immates of a house. -Comp. -कर्तृm. a lord, ruler. -घोषः N. of a king, father of शिशुपाल. q. v.

"https://sa.wiktionary.org/w/index.php?title=दमः&oldid=284326" इत्यस्माद् प्रतिप्राप्तम्