ग्रास
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रासः, पुं, (ग्रस्यते अद्यते इति । ग्रस् + कर्म्मणि घञ् ।) मुखपूरणान्नादि । यथा, -- “कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम् । एतं ग्रासं विजानीयात् शुद्ध्यर्थं कायशोधनम् ॥” इति प्रायश्चित्तप्रकरणे पराशरः ॥ (तथा च मनुः । ११ । २१३ । “एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ब्बवत् ॥”) तत्पर्य्यायः । कबलः २ । इत्यमरः । २ । ९ । ५४ ॥ गुडेरकः ३ पिण्डः ४ गण्डोलः ५ कवकः ६ गुरुः ७ । इति हेमचन्द्रः । ३ । ८९ ॥ (दशौषध- कालान्तर्गतकालविशेषः । “तत्र निर्भक्तं प्राग्- भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुः ग्रासं ग्रासान्तरञ्चेति दशौषधकालाः ॥” इत्युत्तरतन्त्रे चतुःषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रास पुं।
ग्रासः
समानार्थक:ग्रास,कवल
2।9।54।2।4
मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।
पदार्थ-विभागः : खाद्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रास¦ पु॰ ग्रस्यते ग्रस--कर्मणि घञ्। मुखपूरणयोग्यान्नादौतन्मानञ्च
“कुक्कुटाण्डप्रमाणश्च यावान् वा प्रविशेनमुखम्। एतं ग्रासं विजानीयात् शुद्ध्यर्थं कायशोधनम्” पराशरः।
“यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित्। तावतोग्रसते प्रेत्य तीव्रशूलर्ष्ट्ययोगुडान्”
“ग्रामादाहृत्यबाश्नीयादष्टौ ग्रासान् वने वसन्”
“ऐकैकं ग्रासमश्नी-यात् त्र्यहाणि त्रीणि पूर्व्ववत्” इति च मनुः।
“सायंद्वाविंशतिर्ग्रासाःप्रातः षड्विंशतिः स्मृताः। अया-[Page2774-b+ 38] चिते चतुविशः परञ्चानशनं स्मृतम” पराशरः। प्रायश्चित्ते ग्रासभोजनस्य परिसङ्ख्यारूपत्वमुक्त प्रा॰ त॰
“भोजनस्य रागप्राप्तत्वात् नापाप्तपापको विधिः। सचाहरहः सन्ध्यामुपासीत पव्येवं रूपः। नापितद्भक्षणस्यानावश्यकत्वेन स्वायोगव्यवच्छेदमात्रफलकोनियमविधिः। स च तत्ततिथौ तत्तदगासान् भुञ्जीतै-वेत्येवं रूपः। तथा च
“स्वरुच्या क्रियमाणे च यत्रावश्यंक्रिया क्वचित्। नोद्यते नियमः सोऽत्र ऋतावभिगमोयथा”। तथात्वे च पितृमरणादावपि भोजनं प्रसज्येतहविष्यान्नभोजनव्रतादावपि उपवासाभाव एव सम्प-द्येत तद्भक्षणसमकालमेवान्यभक्षणेऽपि न दोषःस्यात्। तस्मादगत्या
“श्रुतार्थस्य परित्यागादश्रुतार्थय्यकल्पनात्। प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका”। इत्युक्तस्वार्थहान्यर्यान्तरकल्पनरागप्राप्तबाधरूपदोषत्रयदूष्टापि अ-न्ययोगव्यवच्छेदफलिका परिसंख्यैव युक्ता, सा चसतिं भोजने तत्तत्तिथौ तत्तद् ग्रासानेव भुञ्जीत नान्य-दित्येवं रूपा तस्मात्तदतिरिक्तभोजनाभावपरत्वेन उप-वासेऽपि दोषाभावः। तदुक्तं भट्टपादैः
“अन्यार्थश्रूयमाणा च यान्यार्थपतिषेधिका। परिसंख्यां तु साज्ञेया यथा प्रोक्षितभोजनम्”। अन्यथा प्राजापत्यव्रतेऽपि
“त्र्यहमद्यादयाचितमिति”
“अयाचितन्तुमध्याह्ने चतुर्विंशन्तु शुद्धये” इति ब्रह्मपुराणोक्तस्या-याचितस्यालाभे व्रतलोपापत्तिः स्यात्”॥
१ ग्रहणे छाद्यच्छादकयोः
२ स्पर्शे।
“छादकोभास्करस्ये-न्दुरधःस्थेवनवद् भवेत्। भूच्छायां प्राड्मुखश्चन्द्रो विश-त्यस्य भवेदसौ” इत्युपक्रम्य
“यद्ग्राह्यमधिके तस्मिन् सकलंन्यूनमन्यथा। योगार्द्धादधिके न स्याच्छिक्षपे ग्राससम्भवःइति।
“स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत्। स्थित्यर्द्धनाडिकाहीने ग्रासेमोक्षस्तु संयुने” सू॰ सि॰
“स्पष्टतिप्यन्तकाले तुकारात् तत्पूर्व्वापरकालनिरासः। मध्यग्रहणं ग्रासोपचयसमाप्तिं कथयेत्। मध्यग हण-सम्बन्धेन मध्यसूर्य्यचन्द्रानीतमध्यतिथ्यन्ते तत्सम्भवइति कस्यचिद् भ्रमस्तद्वारणार्थम् स्फुटेति। स्थित्यर्द्धघटिकाभिरूने तिथ्यन्त ग्रासः र्म्पर्शः। सयतेस्थित्यर्धघटीभिर्युते तिथ्यन्ते काले मोक्षः। तुकारःस्पर्शमोक्षस्थित्यधाभ्यां स्पर्शमोक्षकालाविति विषयव्यव-स्थार्थकः। अत्रोपपत्तिः। तिथ्यन्तकाले छाद्यच्छादकयोःपूर्ब्बापरान्तराभावाद्योगे मण्डलस्पर्शो यावान् भवति[Page2775-a+ 38] ततः पूर्व्वाग्रिमकालयोर्न्यून एवातोऽत्र मध्यग्रहण-कालः” रङ्गना॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रास¦ m. (-सः) A mouthful or a quantity equivalent to a mouthfu!, a lump of rice, &c. of the size of a peacock's egg. E. ग्रस् to eat, affix कर्मणि घञ्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रासः [grāsḥ], [ग्रस् कर्मणि घञ्]
A mouthful, a quantity of anything equal to a mouthful; Ms.3.133;6.28; Y.3.55.
Food, nourishment; ग्रासाच्छादनमात्रं तु दद्या- दिति निदर्शनम् Mb.12.165.63.
The part of the sun or the moon eclipsed.
The morsel bitten.
The act of swallowing.
Slurring, indistinct pronunciation; fault in a pronunciation of the gutturals.
(In geom.) A piece cut out by the intersection of two circles
An eclipse. -Comp. -आच्छादनम् food and clothing; i. e. bare subsistence; see ग्रास (2); Ms.9.22. -प्रमाणम् the size of a morsel. -शल्यम् any extraneous substance lodged in the throat. -ग्रासीकृ To swallow; ग्रासीकर्तुं प्रवृत्तो$भूदुत्थायाजगरो महान् Ks.9.57.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रास mfn. ifc. swallowing Nr2isUp. ii , 5 , 10
ग्रास m. a mouthful , lump (of rice etc. of the size of a peacock's egg) Mn. Ya1jn5. etc.
ग्रास m. food , nourishment Gobh. S3a1n3khGr2. Pa1n2. 8-2 , 44 Va1rtt. 4 Mn. viii etc.
ग्रास m. the quantity eclipsed , amount of obscuration Su1ryas.
ग्रास m. (in geom. ) a piece cut out by the intersection of 2 circles W.
ग्रास m. the erosion , morsel bitten W.
ग्रास m. = ग्रस्तिBhartr2. ii , 22 Subh.
ग्रास m. the act of eclipsing VarBr2S. v
ग्रास m. an eclipse Su1ryas.
ग्रास m. the first contact with an eclipsed disk ib.
ग्रास m. slurring , inarticulate pronunciation of the gutturals RPra1t. xiv , 4.
ग्रास etc. See. ग्रस्.