तरक्षु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरक्षुः, पुं, (तरं बलं मार्गं वा क्षिणोति । क्षिणु हिंसायाम् + मितद्र्वादित्वात् डुः ।) व्याघ्र- विशेषः । नेकडे वाघ इति भाषा ॥ तत्- पर्य्यायः । तर्क्षुः २ मृगादनः ३ तरक्षुकः ४ । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । १६३ । १४ । “ततो मायां परां चक्रे देवशत्रुः प्रतापवान् । सिहान् व्याघ्रान् वराहांश्चतरक्षूनृक्षवा- नरान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरक्षु पुं।

तरक्षुः

समानार्थक:तरक्षु,मृगादन

2।5।1।4।4

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरक्षु¦ पु॰ तरं गतिं मार्गं वा क्षिणोति मितद्रु॰ डु। मृगा-दने क्षुद्रव्याघ्रे अमरः।
“श्वा कृष्णकर्णो गर्दभस्तर-क्षुस्ते रक्षसामिन्द्राय” यजु॰

२४ ।

४० । प्रश्वमेधे राक्ष-सेन्द्रदेवताकपशुकथनम्।
“तरक्षूनृक्षवानरान्” हरिवं॰

१६

५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरक्षु¦ m. (-क्षुः) A hyena. E. तर a road, and क्षि to anoy, affix डु infesting the road; also with कन् added तरक्षुक m. (-कः) or with ड affix तरक्ष m. (-क्षः) but not common. तरं गतिं मार्गं वा क्षिणोति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरक्षु m. a hyena VS. xxiv , 40 MaitrS. iii , 14 , 21 GopBr. i , 2 , 8 MBh. Hariv. 9373 R. Sus3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tarakṣu, the ‘hyæna,’ is mentioned in the list of victims at the Aśvamedha, or horse sacrifice, in the Yajurveda.[१]

  1. Taittirīya Saṃhitā, v. 5, 19, 1, where Sāyaṇa explains the animal to be ‘a kind of tiger with an ass's appearance’ (vyāghra-viśeṣo gardabhākāraḥ);
    Maitrāyaṇī Saṃhitā, iii. 14, 21;
    Vājasaneyi Saṃhitā, xxiv. 40.

    Cf. Zimmer, Altindisches Leben, 81.
"https://sa.wiktionary.org/w/index.php?title=तरक्षु&oldid=473510" इत्यस्माद् प्रतिप्राप्तम्