यूष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूष, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०- सेट् ।) षष्ठस्वरी । यूषति । इति दुर्गादासः ॥
यूषम्, पुं, क्ली, (यूष् + कः ।) मुद्गादिक्वाथरसः । इत्यमरः । ३ । ५ । ३५ ॥ यूषोऽन्तःस्थादिः । चवर्गादिश्चेति मुकुटः । इति भरतः ॥ * ॥ अथ मुद्गयूषगुणाः । “मुद्गयषोऽग्निदो हृद्यः शुद्धानां व्रणिनामपि । पथ्यो बलाशपित्तघ्नो ज्वरहा च कृताकृतः ॥ अस्नेहलवणं सर्व्वमकृतं कटुकैर्विना । विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥ स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः । रुचिकृल्लघुपाकश्च दोषाणामविरोधकृत् ॥” * ॥ मसूरयूषगुणाः । “मसूरयूषः संग्राही वृंही स्वादुः प्रमेहजित् । पित्तश्लेष्मज्वरहरस्तथातीसारनाशनः ॥” * ॥ कुलत्थयूषगुणाः । “कुलत्थयूषोऽनिलहा शर्कराश्मरिनाशनः । तूणीप्रतूणीकासार्शोगुल्ममेदःकफापहः ॥” * ॥ अम्लेन सह माषयूषगुणाः । “अम्लमाषो गुरुर्भेदी वातघ्नो दीपनो मतः ॥” अथ खडयूषः । “तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः । सुपक्वं खडयूषोऽयमयं काम्बलिकोऽपरः ॥” * ॥ खडकाम्बलिकयूषगुणाः । “दध्यम्लो लवणस्नेहतिलमाषविपाचितः ॥ खडकाम्बलिकौ यूषौ ग्राहिवातकफापहौ ॥” रति राजवल्लभः ॥ * ॥ अपि च । अथ यूषस्य विधिर्गुणाश्च । “अष्टादशगुणे नीरे शमीधान्यशृतो रसः । विरलान्ने घनः किञ्चित् पेषातो यूष उच्यते । उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः ॥” यूषस्य प्रकारान्तरमाह । “कल्कद्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीम् । बारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते ॥” यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)
यूषः, पुं, (यूषतीति । यूष् + कः ।) ब्रह्मदारुवृक्षः । इति शब्दरत्नावली ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूष¦ बधे भ्वा॰ पर॰ सक॰ सेट्। यूषति अयूषीत् युयूषा।
यूष¦ पुंन॰ यूष--क।
१ मुद्गादिक्काथे अमरः।
“अष्टादशगुणे नीरे शमीथान्यशृतोरसः। विरसान्ने घनःकिञ्चित् पेयातो यूष उच्यते। उक्तः स एव निर्यूहोरुचिकृच्च विशेषतः”। यूषस्य प्रकारान्तरमाह कल्क-द्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीं। वारिप्रस्थेनविपचेत्तद्भवौ यूष उच्यते”।
“यूषो बल्यो लघुः पाके रुच्यः कण्ठ्यः कफापहः”। अथ मुद्गयूषविधिः
“मुद्गानां द्विपलं तोये शृतमर्द्धाटको-न्मिते। पादस्थं मर्दितं पूतं दाडिमस्य पलेन तत्। युक्तं सैन्धवविश्वाह्वधान्यकैः पादकांशिकैः। कणाजी-रकयोश्चूर्णाच्छाणैकेनावचूर्णितम्। संस्कृतो मुद्गयूषोऽयंपित्तश्लेष्महरो मतः”। अथ तस्य गुणाः
“मुद्गाना-मुत्तमो यूषो दीपनः शीतलो लघुः। व्रणोर्ध्वजत्रू-रुग्दाहकफपित्तज्वरास्रहृत्”। अथ मुद्गामलक-यूषगुणाः
“मुद्गामलकयूषस्तु भेदी पित्तानिलापहः। तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः” भावप्र॰।
२ ब्रह्मदारुदृक्षे पु॰ शब्दर॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूष¦ mn. (-षः-षं) Pease-soup, pease-porridge, the water in which pulse of various kinds has been boiled. m. (-षः) The mulberry tree, (Mo- rus Indica;) also पूष। E. यूष् to hurt, क aff.; यूषन् is optionally subs- tituted for this word is some cases. [Page590-b+ 60]
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूषः [yūṣḥ], The Indian mulberry tree.
यूषः [yūṣḥ] षम् [ṣam] यूषन् [yūṣan], षम् यूषन् m., n. Soup, broth, pease-soup. (यूषन् has no forms for the first five inflections, and is optionally substituted for यूष after acc. dual.)
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूष m. n. (fr. 2. यु)soup , broth , pease-soup , the water in which pulse of various kinds has been boiled Gr2S3rS. Katha1s. Sus3r.
यूष m. the Indian mulberry tree L. [ cf. Lat. ju1s ; Slav. jucha.]
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूष पु.
(न.) शोरबा (बलि दिये गए पशु के अस्थिविहीन भाग पर उड़ेला गया), मा.श्रौ.सू. 1.8.5.2०-21।