वैध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैधः, त्रि, (विधिना बोधितः । विधि + अण् ।) विधिबोधितः । यथा । अदृष्टार्थैकजातीय- कर्म्मणः कालदेशकर्त्रादीनां प्रयोगानुबन्धवैध- हेतुभूतानामभेदे उद्दिश्यविशेषाग्रहः । इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अथ वैधहिंसाविचारः । “मा हिंस्यात् सर्व्वा भूतानि इत्यत्र सर्व्वशब्दस्य व्यापकार्थपरतया एतद्विधिमनुल्लङ्घ्य वायव्यं श्वेतमालभेत । इत्यादिविधेर्विषयाप्राप्तेरगत्या वैधातिरिक्तविषयत्वम् । सर्व्वाः सर्व्वाणि छन्दसि वा इत्यनेन तत् पदं सिद्धम् । यदपि नाना- दर्शनटीकाकृद्भिर्व्वाचस्पतिमिश्रैस्तत्त्वकौमुद्याम- भिहितम् । ‘न च मा हिंस्यात् सर्व्वा भूतानि इति सामान्यशास्त्रं विशेषशास्त्रेण अग्नीसोमीयं पशुमालभेत इत्यनेन वाध्येत इति वाच्यं विरोधाभावात् । विरोधे हि बलीयसा दुर्ब्बलं वाध्यते । न चास्ति विरोधः भिन्नविषयत्वात् । तथा हि । मा हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि । न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोश्च उपकरिष्यति’ इत्यन्तेन । तदपि सांख्य- नये । मीमांसकमते तु विरोध एव । तथा हि । गुरुनये न खलु सर्व्वभूतहिंसाभावविषयकं कार्य्यमिति निषेधविध्यर्थस्य वाधं विना अग्नी- सोमीयपश्वालम्भनविषयकं कार्य्यमिति भाव- विध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु । न च मुख्यपशुयागे पुरुषार्थे पशु- हिंसनस्यार्थसाधनत्वमनर्थ-साधनत्वञ्चोपपद्यते विरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव कुतः विधेरेष स्वभावो यः स्वविषयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगमयति । अन्यथा अङ्गानां प्रधानोपकारकत्वमपि नाङ्गी- क्रियते । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट- साधनत्वं अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र समावेश इति । अतएवोक्तं तस्माद्यज्ञे वधोऽवधः इति । नन्वेवं श्येनेनाभि- चरन् यजेत इत्यत्र श्येनस्य शत्रुवधरूपेष्ट- साधनत्वमवगतम् । अभिचारो मूलकर्म्म च इति मनुना उपपातकगणमध्ये पाठादनिष्ट- साधनत्वमवगतम् । तदेतत् कथमुपपद्यतामिति चेन्मैवम् । आततायिनमायान्तं हन्यादेवा- विचारयन् इत्येकवाक्यतया आततायिस्थले इष्टसाधनत्वं अनाततायिस्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध इति । गुरु- चरणा अप्येवम् ।” इति तिथ्यादितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैध¦ त्रि॰ विधित आगतः अण्। विधिप्रतिपाद्ये।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैध¦ mfn. (-धः-धी-धं) According to rule, preceptive, ritual. E. विधि, अण् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैध [vaidha], a. (-धी f.), -वैधिक a. (-की f.) [विधित आगतः अण् ठक् वा]
Conformable to rule, settled, fixed, ritual; वैधी विचित्रा भवति प्रवृत्तिः Rām. ch.6.57.
Legal, lawful.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वैध mf( ई)n. (fr. विधि)enjoined by rule or precept , prescribed , legal(707184 -त्वn. ) TS. Sch. Ka1tyS3r. Sch. etc.