सामग्री पर जाएँ

वशिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिष्ठः, पुं, (वशवतां वशिनां श्रेष्ठः । वशवत् + इष्ठन् । “विन्मतोर्लक ।” ५ । ३ । ६५ । इति लुक् ।) यद्वा, वरिष्ठः । पृषोदरादित्वात् साधुः । अस्य निरुक्तिर्यथा, महाभारते । १३ । ९३ । ८९ । “वशिष्ठोऽस्मि वरिष्ठोऽस्मि वशे वासगृहेष्वपि । वशिष्ठत्वाच्च वासाच्च वशिष्ठ इति विद्धि माम् ॥”) स्वनामख्यातमुनिः । तपय्यायः । अरुन्धती- जानिः २ । इति हेमचन्द्रः ॥ अरुन्धतीनाथः ३ वाशिष्ठः ४ । इति शब्दरत्नावली ॥ स तु ब्रह्मणः प्राणेभ्यो जातः । तस्य भार्य्या कर्द्दमकन्या अरु- न्धती । पुत्त्राः सप्तर्षयः । इति श्रीभागवतमतम् ॥ अपि च । “वशिष्ठश्च तथो र्ज्जयां सप्त पुत्त्रानजीजनत् । कन्याञ्च पुण्डरीकाक्षां सर्व्वशोभासमन्विताम् ॥ रजो गात्रोर्द्वबाहुश्च मवनश्चानवस्तथा । सुतपाः शुक्र इत्येते सप्त पुत्त्रा महौजसः । सर्व्वे तपस्विनः प्रोक्ताः सर्व्वे यज्ञेषु भागिनः । अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः ॥” इति कौर्म्मे १२ अध्यायः ॥ मित्रावरुणयोः पुत्त्रः । यथा, -- “इति पृष्टा नरेन्द्रेण कथ्यतामिति भूपते । वशिष्ठं चोदयामासुः समस्तास्ते तपोधनाः ॥ मुनिभिः प्रेरितः सोऽपि यथावद्यतमानसः । योगमास्थाय सुचिरं मैत्रावरुणिरात्मवान् ॥” अन्यच्च । “मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः । एकार्षेयास्तथैवान्ये वशिष्ठा नाम विश्रुताः ॥ एते पक्षा वशिष्ठानां स्मृता ह्येकादशैव तु । अष्टावेते समाख्याता ब्रह्मणो मानसाःसुताः ॥” इति वह्निपुराणे घृतधेनुविधिवाराहप्रादुर्भावा- ध्यायौ ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिष्ठ¦ अतिशयेन वशी इष्ठन् इनेर्लुक्। अतिशयजिते-न्द्रियतायुक्ते मुनिभेदे।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिष्ठ¦ m. (-ष्ठः) VAS4HIST'HA, a Rishi or divine sage of the first order, he is also a Brahma4dika, a Praja4pati, and one of the seven stars of Ursa Major. E. अव before, शास् to govern, to instruct, (the other saints,) aff. क्त; the first vowel of the prefix rejected: also written वशिष्ट and वसिष्ट | अतिशयेन वशी इष्ठन् इनेर्लुक् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिष्ठ [vaśiṣṭha], See वसिष्ठ.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिष्ठ w.r. for वसिष्ठ.

"https://sa.wiktionary.org/w/index.php?title=वशिष्ठ&oldid=243062" इत्यस्माद् प्रतिप्राप्तम्