द्विगु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विगुः, पुं, षट्समासान्तर्गतसमासविशेषः । स तु संख्यापूर्ब्बपदानां समासः । वोपदेवेनास्य ग- संज्ञा कृता । स च त्रिविधः । तद्धितार्थः १ समाहारः २ उत्तरपदपरश्च ३ । तद्धितार्था- ऽपि द्विविधः । तद्धितप्रत्ययमात्रस्य अजादे- र्हसादेर्व्वा अर्थे विषये इत्येकः । अपत्यार्थष्ण्या- दिकं त्यक्त्रा अजादेस्तद्धितस्यार्थे वाच्ये इत्यपरः । तद्धितार्थविषयो यथा, द्वयोर्मात्रोरपत्यं द्वैमा- तुरः । पञ्चानां नापितानामपत्यं पाञ्चनापितिः ॥ तद्धितार्थवाच्यो यथा, पञ्चभिर्गोभिः क्रीतः पञ्चगुः ॥ समहारो यथा, त्रयाणां सखीनां समा हारः त्रिसखम् । समाहारे अदन्तानां स्त्रीत्वं पात्रादेस्तु क्लीवत्वम् ॥ उत्तरपदपरो यथा, -- पञ्च गावो धनं यस्य स पञ्चगवधन इत्यादि । इति मुग्धबोधटीकायां दुर्गादासः ॥ (द्वौ द्बे वा गावौ यस्य इति विग्रहे गौणत्वे गोशब्दस्य ह्रस्वः । द्विगवस्वामिके, त्रि । यथा, -- “द्वन्दो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययीभावः । तत् पुरुष कर्म्म धारय येनाहं स्यां बहुव्रीहिः ॥” इत्युद्भटः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विगु¦ त्रि॰ द्वौ गावौ यस्य गौणत्वात् गोर्ह्रस्वः।
१ द्वयो-र्गवोः सम्बन्धिनि द्विगवस्वामिके पुरुषे।
“द्वन्द्वो द्वि-गुरपि चाहं सततमस्मद्गृहे व्ययीभावः” उद्भटः। व्याकरणोक्ते तत्पुरुषान्तर्गते पा॰ सूत्रोक्ते
२ समासभेदेपु॰ स च सि॰ कौ॰ मनोरमादौ च दर्शितो यथा
“दिक्संख्ये संज्ञायाम्”।
२ ।
१ ।
५० । पा॰
“समानाधिकरणे-नेत्यापादपरिसमाप्तेरधिकारः। संज्ञायामेवेति निय-मार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। नेहउत्तरा वृक्षाः। पञ्च ब्राह्मणाः” सि॰ कौ॰।
“तद्धितार्थो-त्तरपदसमाहारे च” पा॰।
२ ।
१५
१ । पा॰
“तद्धितार्थे विषयेउत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्येप्राग्वद्वा। पूर्वस्यां शालायाम्भवः। पौर्वशालः। समासे कृते दिक्पूर्वपदादसंज्ञायां ञैति ञः। सर्व-नाम्नो वृत्तिमात्रे पुंवद्भावः। आपरशालः। पूर्वा-शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रिया-शब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः तेन शालाशब्देआकार उदात्तः। पूर्वशालाप्रियः। दिक्षु समाहारोनास्त्यनभिधानात्। संख्यायास्तद्धितार्थे षण्णां मातॄ-णामपत्यम् षाण्मातुरः। पञ्च गावो धनं यस्येतित्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते द्वन्द्व-तत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्” सि॰ कौ॰
“निय-मार्थमिति विशेषणं विशेष्येणेत्यनेनैव सिद्धे तत्पुरुषेसंज्ञायामेव दिक्संख्ये समस्येते नान्यत्रेति नियाम-कमिदमिति भावः। त्रिलोकनाथ इत्यादौ तु उत्तर-पदद्विगुरिति असंज्ञकत्वेऽपि न क्षतिः। पूर्वसूत्रमि-त्यादौ संज्ञाभावेऽपि कालवाचकत्वात् समासो, नह्यत्र दिग्विशेषबोध उदयगिर्य्यादिसम्बद्धाया एवदिक्त्वात् एवं देशवाचकेनापिं समास इति द्रष्ट-[Page3812-a+ 38] व्यम्” मनो॰।
“तद्धितार्थोत्तरेत्यादिसूत्रे वैषयिके आघारेसप्तमी। विषयत्वञ्चानेकविधमित्याह तद्धितार्थे विषयेइत्यादि तद्धितार्थे वाच्ये इति तु नोक्तं पाञ्चना-पितिरित्यादौ समासेनोक्तत्वात्तदुत्तरं तद्धितानुत्पत्ति-प्रसङ्गात्। अतएव द्विगोस्तद्धितस्य लुग्वचनं चरि-तार्थमन्यथा तदर्थस्य समासेनोक्ततयाऽप्रयोगात् तदनुत्पत्तौकथं लोपः स्यात्”।
“समाहारः समूहः स चावय-वाभिन्नो बुद्धिकल्पितभेदवान्। अतएव समूहं प्रतितस्योपसर्ज्जनत्वं तेन पञ्चखद्वीत्यादिसिद्धिः तत्रखट्वाशब्दस्योपसर्जनत्वेन ह्रस्वे कृत एवादन्तत्वे सत्येवङीषः प्रवृत्तेरित्यन्यत्र विस्तरः। अत्रेदं बेध्यं सामू-हिकस्य तद्धितस्य लुकि पञ्चगवमित्यत्र गोरतद्धितलुकीति टच् न स्यादिति विषये इत्युक्तमेवञ्च समा-हारे वाच्ये इति तस्य पृथग्ग्रहणसामर्थ्यादेव समा-सान्त इत्याशयेन वाच्ये इति व्याख्यातमिति”
“तथाचसमासेनैव समाहारस्योक्तत्वात् न सामूहिकतद्धितोत्प-त्तिरिति भावः” मनी॰
“एतद्वार्त्तिकमुत्तरपूर्वेत्यादिद्वन्द्वसि-द्ध्यर्थमवश्यमारम्भणीयं तेन प्रकृते पुंवद्भावेनोपपत्ता-वपि न विफलतेति बोध्यम्”
“उदात्त इति असतित्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदा-त्तत्वमेव स्यादिति भावः” मनो॰
“षाणमातुर इति
“मातुरुत् संख्यासंभद्रपूर्वायाः” पा॰ इत्युदादेशः अनपत्यइत्युक्तेर्द्विगोर्लुगिति न लुक्”
“विकल्पे प्राप्ते इतिमहाविभाषयेति शेषः। ततश्च टजभावे पञ्चगोधनइत्यपि स्यादिति भावः”
“एतच्चोभयत्रापि नित्यताबो-धकमिति बोध्यम् अतएवैतद्वार्त्तिकमुक्त्वा समुदायवृ-त्तावयवानां कदाचिदप्यवृत्तिर्मा भूदिति प्रयोजन-मुक्तं भाष्य”
“द्वन्द्वोत्तरतत्पुरुषोदाहरणन्तु वाक्चदृषच्च प्रिये अस्य वाग्दृषदप्रिय एवं छत्रोपानह-प्रिय इह त्रिपदे बहुव्रीहौ कर्तव्ये पूर्वं नित्यद्वन्द्वस्तेनसमासान्तोऽपि नित्य एव” मनो॰। शब्दशक्तिप्रकाशिकायामेतल्लक्षणादिकमुक्तं यथा(
“द्विगुं लक्षयति। संख्याशब्दयुतं नाम तदलक्ष्यार्थ-बोधकम्। अभेदेनैव यत्स्वार्थे स द्विगुस्त्रिविधो मतः। संख्यावच्छिन्नशक्तं यत्पदोत्तरत्वविशिष्टं यन्नाम स्वार्थध-र्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं प्रति समर्थंतन्नामोत्तरतापन्नं तन्नामैव तदलक्ष्यार्थामिन्नस्वार्थेद्विगुरुच्यते। त्रिकटु त्रिभुवन चतुर्युग चतुर्वर्ग पञ्चगव्य[Page3812-b+ 38] पञ्चामृत षड्रस षट्पदार्थ सप्तर्षि अष्टनाग अष्टवसुनवरस नवग्रह दशमूल एकादशरुद्र एकादशेन्द्रिय द्वाद-शादित्य इत्यादिकस्तु कर्मधारयः शुण्ठ्यादिपर्याप्तत्रित्वा-वच्छिन्नबोधकतया न पूर्वपदाल क्ष्यार्थस्य बोधकस्त्रिकटु-प्रभृतिभ्यः कटुत्रयादिसामान्यस्याप्रतीतेः। पञ्चमूलीत्यादौतु मूलपञ्चकत्वेनैव मूलविशेषेषु तात्पर्यं नतु विशेष-रूपेणापि अतएव
“कण्टकार्यादिकं स्वल्पं गाम्भार्यादिच यन्महत्। पञ्चमूलं तदुभयं दशमूलमुदाहृतमित्यादि-कस्ताद्रूप्येण बोघस्थलीयः प्रयोगः।
“वर्षाकाले मघर्क्षेणयुक्ता चापि त्रयोदशी” इत्यादिवदेकवचनस्य साधुत्वसम्भ-वात् द्बयोरूपमित्याद्यर्थे द्विरूपादिपदं नाभेदेन द्विप्रभृते-रनुभावकम्। एकत्वसंख्याया विशिष्टं बोधयदपि एकपदंन पर्याप्तिसंसर्गेण तदवच्छिन्नस्य बोधकं, द्वितयादिपदंपर्याप्त्या द्वित्वावच्छिन्नं प्रतिपादयदपि न तत्र शक्तंवाक्यत्वादतोनैकघटद्वितयपटेत्यादिकर्मधारयेऽतिप्रसङ्गः। सप्तशती पठ्यतामित्यादौ च यद्यपि शते धर्मिणि सप्ता-नामभेदेन नान्वयः बाधितत्वान्नापि सप्तपदलक्षितस्य,द्विगुत्वहान्यापत्तेः तथापि शतपदार्धैकदेशे शतत्वसं-ख्यायां तस्याः सप्तत्वसम्भवादिति वदन्ति। द्विगार्ग्यंगच्छत इत्याद्यव्ययीभाववारणन्तु पूर्ववत्। स चायंद्विगुस्त्रिविधः तद्धितार्थोत्तरपदसमाहारभेदात्। तत्रतद्धितार्थं द्विगुं लक्षयति। तद्धितार्थान्वितस्वार्थस्तद्धि-तार्थद्विगुर्मतः। तद्धितार्थे लाक्षणिकस्वान्त्यनामा त्वस-र्वगः। यो द्विगुः स्वोत्तरतद्धितार्था न्वतस्वार्थकः सतद्धितार्थद्विगुः। द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यांक्रीतस्य द्विवर्षा गौरित्यादौ द्वाभ्यां वर्षाभ्यामभिन्नवय-स्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां निर्मितस्य,द्विगुञ्जं स्वर्णमित्यादौ द्वाभ्यां गुञ्जाभ्यां तुलितस्य,त्रिकाण्डः पुरुष इत्यादौ त्रिभिः काण्डैः परिमितस्य,पञ्चकपालश्चरुरित्यादौ पञ्चभिः कपालैः संस्कृतस्य, बोधनेलुप्तस्यैव ठगादितद्धितस्य क्रीताद्यभिधायकत्वात्, परि-शिष्टकृताम्मतेनेदम्। उक्तप्रयोगेषु द्विगोरन्तिमनाम्नैवक्रीतादिरूपार्थो लक्ष्यते नतु लुप्तष्ठगादिरप्यपेक्ष्यतेऽतस्त-द्धितार्थलाक्षणिकस्वान्त्यनासको द्विगुरेव तद्धितार्थद्विगु-रिति फणिभाष्यमतन्तु न युक्तम् असर्वगत्वात् पाञ्चपुरु-षिरित्यादौ पञ्चानां पुरुषाणामपत्यस्य पञ्चगार्ग्यरूप्योगौरित्यादौ पञ्चानां गर्गाणां भूतपूर्वस्य बोधने तद्धितेनैव स्वार्थस्यापत्यप्रभृतेरुपस्थापनात् द्विस्वर्णमुद्रः पशु-[Page3813-a+ 38] रित्यादावुत्तरपदस्य शक्तिविरहेण क्रीताद्यर्थे लाक्षुणिक-त्वायोगात्। उत्तरपदद्विगुं लक्षयति। स्वान्तर्निबिष्ट-शब्दाभ्यां शब्दान्तरसमासगः। यो द्विगुः शाब्दिकैरुक्तःस उत्तरपदद्विगुः। यो द्विगुः स्वघटकनामभ्यां सहसाकाङ्क्षनामान्तरेण समासस्यान्तर्गतः स उत्तरपदद्विगुःयथा पञ्च गावो धनमस्येत्यादिविग्रहे पञ्चगवघनः पुरुषइत्यादौ बहुब्रीह्यादिनिविष्टः पञ्चगवादिः। समाहार-द्विगुं लक्षयति। स्वार्थान्वितसमाहारलक्षकस्वान्त्यश-ब्दकः। उक्ताभ्यामितरः किं वा समाहारद्विगुर्द्विगुः। स्वोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्यशब्दः सद्विगुः समाहारद्विगुः पञ्चपुलीत्यत्र हि योगलभ्यानांपञ्चाभिन्नपुलानां समाहारः परस्थपुलशब्देन लक्ष्यते नतु तत्र द्विगोः शक्तिरन्यलभ्ये शक्त्ययोगात् अतएव नलक्षणापि शक्यसम्बन्धस्यैव लक्षणात्वेन वाक्ये तद-सम्भवात्। यदि च पञ्चपुलीत्यतः पञ्चानां पुलानामेवबोधो न तु तत्समाहारस्यापि अतएव पञ्चपुलीं छिनत्तिइत्यादिकः प्रयोगः प्रमाणम् अन्यथा समूहात्मनः समा-हारस्य छिदाद्यसम्भवेन तदयोग्यत्वापत्तेः पुलादेर्द्वित्व-बहुत्वेऽप्येकवचनन्त्वानुशासनिकं दारादेर्बहुवचनवदुप-पद्यते। न च द्रव्यप्राधान्ये पञ्चखट्वीत्यादौ ह्रस्वो नस्यात् गोशब्दस्येव स्त्रीप्रत्ययस्यापि समामान्त्यस्योप-सर्जनस्यैव तद्विधानादिति बाच्यं समाहारसंज्ञकद्विगोर-प्यन्त्यस्य स्त्रीप्रत्ययस्य पृथगेव ह्रस्वविधेर्वक्तव्यत्वात् प्रयो-गानुसारित्वात् कल्पनायाः, पञ्चपाचकीत्यादावव्याप्तिश्चतत्रोत्तरपदस्य वाक्यत्वेन लक्षकत्वायोगादिति सूक्ष्ममी-क्ष्यते तदा पूर्वनिरुक्ताभ्यां तद्धितार्थोत्तरपदद्विगुभ्यांभिन्नोद्विगुरेव समाहारद्विगुर्बाच्यः। एवञ्च द्विगोः कर्म-धारयान्तर्गतत्वेऽपि न क्षतिरिति तु विभावनीयम्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विगु¦ m. (-गुः) A form of grammatical combination, that in which the first member of the compound is a numeral.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विगु/ द्वि--गु m. (sc. समास)N. of a तत्पुरुषcompound in which the Ist member is a numeral (being formed like द्वि-गु, " worth 2 cows ") Pa1n2. 2-1 , 52 etc.