विश्वम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • विश्वं, जगत्, भुवनं, लोकः, चराचरं, त्रिविष्टपं, अखिलं जगत्, त्रिलोकी।

नाम[सम्पाद्यताम्]

  • विश्वं नाम प्रपंचः, जगत्, त्रैलोक्यम्।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • कृष्णं वन्दे जगत् गुरुम्।
  • विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात्।
  • सहस्त्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम्।
विश्वं नारायणं देवमक्षरं परमं पदम्॥

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वम्, क्ली, (विशति स्वकारणमिति । विश प्रवे- शने + “अशूप्रषिलटिफणीति ।” उणा० १ । १५१ । इति क्वन् ।) जगत् । इति मेदिनी । वे, २३ ॥ (यथा, भागवते । ३ । १० । १२ । “विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना ॥”) शुण्ठी । (अस्य पर्य्यायो यथा, -- “विश्वं महौषधं शुण्ठी नागरं विश्वभेषजम् ॥” इति वैद्यकरत्नमालायाम् ॥ “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेजम् । ऊषणं कटुभद्रञ्च शृङ्गबेरं महौषधम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) बोलम् । इति राजनिर्घण्टः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--false; like a serpent in rope, and water in the desert, etc. वा. १०४. ३९.

"https://sa.wiktionary.org/w/index.php?title=विश्वम्&oldid=506978" इत्यस्माद् प्रतिप्राप्तम्