सामग्री पर जाएँ

कल्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्यम्, क्ली, (कल्यते आगम्यते । कल गतौ + कर्म्मणि यत् । प्रत्यूषः । इत्यमरः । १ । ४ । २ ॥ (यथा, भागवते ४ । २४ । ७८ । “इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । शृणुयाच्छ्रावयेन्मर्त्त्यो मुच्यते कर्म्मबन्धनैः” ॥ कलयति मिष्टतां सम्पादयतीति । अघ्न्यादित्वात् यक् ।) मधु । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=कल्यम्&oldid=125426" इत्यस्माद् प्रतिप्राप्तम्