प्रतीप:
१ अयोध्या नगरी ह्येषा यया तुल्यामरावती।(उपमानस्य उपमेयत्वकल्पनम्)
२ ज्ञानेन पूर्णं वचनं यथा ते प्राची तथैषा रविणा प्रकाशते।(उपमानस्य उपमेयत्वकल्पनम्)
३ श्रुत्वा दुर्जनवाक्यानि भयं हालाहलाद् कुत:? (उपमानस्य अनादर:)
४ गङ्गे त्वां नैव काङ्क्षेऽहं साधुसङ्गे सदा वसन्। (उपमानस्य अनादर:)
५ कामं दूरं याहि चन्द्र, रामोऽङ्के निद्रितोऽस्ति मे।(उपमानस्य अनादर:)
६ शैलोद्धर्तासि हनुमन् कथं ते मरुतोपमा? (उपमानोपमेयसम्बन्धस्य अनिष्पत्ति:)
७ क्व राम: क्व च चन्द्रमा:। (उपमानोपमेयसम्बन्धस्य अनिष्पत्ति:)
८ मारुतिर्यत्र दूतोऽस्ति मरुता किं प्रयोजनम्? (उपमानस्य व्यर्थत्वम्)
९ उदिते बोधे हृदयाकाशे कोऽर्थो रविणा महदाकाशे? (उपमानस्य व्यर्थत्वम्)
१० कोऽर्थो गगनचन्द्रेण रामचन्द्रोऽस्ति मद्गृहे।(उपमानस्य व्यर्थत्वम्)
११ किमरिभि: क्रोधोऽस्ति चेद्देहिनाम्? (उपमानस्य व्यर्थत्वम्)
वर्ग: काव्यालङ्कारकोश: