चतुर्द्दश
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्द्दश, [न्] त्रि, चतुरधिका दश । चौद्द इति भाषा । इति ज्योतिषम् ॥ (यथा, नैषधे । १ । ४ । “अधीतिबोधाचरणप्रचारणै- र्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्द्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्द्दशस्वयम् ॥” चतुर्द्दशानां पूरणः । “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) पूरणार्थे अकारान्तोऽयं शब्दः ॥ (यथा, हेः रामायणे । २ । ११२ । २५ । “चतुर्द्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम ! । नद्रक्ष्यामि यदि त्वान्तु प्रवेक्ष्यामि हुताशनम् ॥”) तद्वाचकानि । विद्या १ यमः २ मनुः ३ इन्द्रः ४ भुवनम् ५ ध्रुवतारकम् ६ । इति कविकल्पलता ॥