आस्यम्

विकिशब्दकोशः तः

असु क्षेपणे।अस्यते: अन्नम् अत्र अस्यते क्षिप्यते अत: आस्यम्- यास्क: १.३

आस्यन्दते एनम् अन्नम् इति वा। अन्नमत्र गत्वा आस्यन्दते, आर्द्रीभवति अत: आस्यम् - यास्क: १.३

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्यम्, क्ली, (अस्यते ग्रासोऽस्मिन् इति असु क्षेपणे कृत्यल्युट इति ण्यत् । यदा आस्यन्दते अम्लादिना प्रस्रवति इति स्यन्दू प्रस्रवणे + ड ।) मुखं । मुख- मध्यम् । (यथा, मनुः १ । ९५ ।) (“यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः” ।) (आस्ये भवमास्यं ।) मुखभवे त्रि । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=आस्यम्&oldid=116391" इत्यस्माद् प्रतिप्राप्तम्