अर्थशास्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थशास्त्रम्, क्ली, (अर्थस्य भूमिधनादेः प्रापकं शास्त्रं, षष्ठीतत्पुरुषः ।) चाणक्यादिप्रणितं नीतिशास्त्रं । तत्पर्य्यायः । दण्डनीतिः २ । इत्यमरः ॥ यथा, -- “वृहस्पतिप्रभृतिभिः प्रणीतञ्चार्थशास्त्रकं । तत्रैव दण्डनीतिः स्यादत्र ज्ञेयौ नयानयौ” ॥ इति शब्दरत्नावली ॥ अष्टादशविद्यान्तर्गतविद्या- विशेषः । यथा विष्णुपुराणं । “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्ब्बश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः” ॥ इति प्रायश्चित्ततत्त्वं ॥ * ॥ धर्म्मशास्त्रेणार्थ- शास्त्रस्य बाध्यत्वं यथा ॥ “स्मृत्यर्थेन विरोधे हि अर्थशास्त्रस्य बाधनं । परस्परविरोधे तु न्याययुक्तं प्रमाणवत्” ॥ अर्थशास्त्रस्य मन्वादिप्रणीतराजनीत्यादिविष यस्य । यदाह, -- “अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥ इत्यनयोर्धर्म्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्तौ धर्म्म शास्त्रेण दण्डविधायकमर्थशास्त्रं बाध्यते । तत- श्चार्थशास्त्रस्य त्रिपुरुषीयेतरपरत्वेन सङ्कोचः” । इति मलमासतत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थशास्त्र¦ न॰ अर्थस्य भूमिधनादेः प्रापकं शास्त्रं शाक॰ त॰।

१ नीतिशास्त्रे, अभिचारादिकर्म्मप्रतिपादके

२ शास्त्रे च।
“अर्थशास्त्रात्तु बलवत् धर्म्मशास्त्रमिति स्थितिः” या॰ स्मृ॰विवृतमेतन्मिताक्षरायाम्
“यद्यपि समानकर्तृकतयाअर्थशास्त्रधर्म्म शास्त्रयोः स्वरूपगतो विशेषोनास्तितथापि प्रमेयस्य धर्म्मस्य प्राष्टान्यादर्थस्य चाप्राधान्याड्वर्म-शास्त्रं बलवदित्यभिप्रायः धर्मस्य च प्राधान्यं शास्त्रादौदर्शितन्तस्माद्धर्मशास्त्रार्थशास्त्रयोर्विरोधे अर्थशास्त्रस्यवाध एव।
“गुरुर्वा वालवृद्धौ वा ब्राह्मणं वा बहु-श्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषोहन्तुर्भवति कश्चन। प्रच्छन्नं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति” तथा
“आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तञ्जिघांसीयान्न ते-न व्रक्ष्महा भवेत्” इत्याद्यर्थशास्त्रम्।
“इयं विशुद्धिरुदिताप्रमाप्याकामतोद्विजम् सकामतो व्रक्ष्मबधे निष्कृतिर्नविधीयते” इत्यादि धर्म्मशास्त्रन्तयोर्विरोघे धर्म्मशास्त्रं बल-वदिति युक्त” मित्यन्यमतमुक्त्वा।
“हिरण्यभूमिलाभेभ्योमि-त्रलब्धिर्वरा वतः। अतो यतेततत् प्राप्तौ” इत्यर्थशास्त्रम्।
“धर्म्मशास्त्रानुसारेण क्रोधलोभविवर्जितः” इति धर्म्मशास्त्रम्। तयोः क्वचिद्विषये विरोधो भवतियथा चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्य्य-माणे धर्म्मानुमरणम् न मित्रलाभः। अन्यस्य तु जयेमित्रलब्धिर्नधर्म्म--शास्त्रमनुसृतम्भवति तत्रार्थशास्त्रा-द्धर्मशास्त्रं बलवत् अतएव
“धर्मार्थसन्निपाते अर्थग्राहिण[Page0370-b+ 38] एतदेवेति” प्रायश्चित्तस्य गुरुत्वन्दर्शितमापस्तवेन” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थशास्त्र¦ n. (-स्त्रं) The science of polity or moral and political govern- ment. E. अर्थ possession, property, and शास्त्र institutes of a science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थशास्त्र/ अर्थ--शास्त्र n. a book treating of practical life(See. -विद्याabove ) and political government(See. -चिन्तनabove ) MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the १८ विद्यस्: फलकम्:F1: Br. II. ३१. २३; ३५. ८९; वा. ५८. २३; ६१. ७९.फलकम्:/F Science of Polity pleaded by Indra in extenuation of his destruction of Diti's गर्भ: फलकम्:F2: M. 7. ६३; १०. ३२; Vi. III. 6. २८.फलकम्:/F No regard for the शास्त्र during पृथु's reign: Budha learned in; फलकम्:F3: M. २४. 2.फलकम्:/F to be learnt by a prince. फलकम्:F4: M. १४४. २३; २२०. 2.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=अर्थशास्त्र&oldid=488633" इत्यस्माद् प्रतिप्राप्तम्