वर्णमाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णमाला, स्त्री, जातिमाला । (वर्णानां माला समूहः ।) अक्षरश्रेणी । तत्र संस्कृतवर्णाः ५० जपमालायाम् ५१ । इङ्गरेजीयवर्णाः २६ । फरासीयाः २३ । हिव्रू अर्थात् इहु- दीयाः २२ । आरवीयाः २८ । पारसीयाः ३१ । तुरस्कीयाः ३३ । रुशीयाः ४१ । ग्रिक् अर्थात् इयुनानीयाः २४ । लाटिन्देशीयाः २२ । डच् अर्थात् ओलन्दाजीयाः २६ । स्पान्देशीयाः २७ । इटालिदेशीयाः २० । तातारीयाः २०२ । ब्रह्मदेशीयाः १९ । चीनदेशीयवर्णाः शब्दा- त्मकाः तच्छब्दसंख्याः ८०००० ॥ * ॥ अका- रादिक्षकारान्तवर्णरूपैकपञ्चाशज्जपमाला । यथा, सनत्कुमारसंहितायाम् । “क्रमोत्क्रमगतैर्माला मातृकार्णैः क्षमेरुकैः । सबिन्दुकैः साष्टवर्गैरन्तर्यजनकर्म्मणि ॥” आदि कु चु टु तु पु यु शवोऽष्टौ वर्गाः प्रकी- र्त्तिताः । अकारादिवर्णान् सबिन्दून् प्रत्येकं कृत्वा शतं संजप्य अकारादीनां कवर्गा- दीनाञ्च वर्णाणां अन्तिमवर्णं सानुस्वारं कृत्वा पूर्ब्बमुच्चार्य्य मन्त्रजपः कार्य्यः । अनेन प्रकारेणाष्टोत्तरशतसंख्यो जपो भवति । अन्त- र्यजनमित्युपलक्षणम् । “सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेत् सुधीः । अकारादिक्षकारान्तं बिन्दुयुक्तं विभाव्य च ॥ वर्णमाला समाख्याता अनुलोमविलोमिका । क्षकारं मेरमेवात्र तत्र मन्त्रं जपेन्नहि ॥” इति नारदीयवचनात् ॥ प्रकारान्तरं विशुद्धेश्वरे । “अनुलोमविलोमेन वर्गाष्टकविभेदतः । मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितान् मनून् ॥ कुर्य्याद्वर्णमयीं मालां सर्व्वतन्त्रप्रकाशिनीम् । चरमार्णं मेरुरूपं लङ्घनं नैव कारयेत् ॥” इति तन्त्रसारः ॥ अपि च । “अनुलोमविलोमेन कॢप्तया वर्णमालया । आदिलान्तलादि आन्तक्रमेण परमेश्वरि ! । क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन ॥” इति मुण्डमालातन्त्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णमाला¦ स्त्री

६ त॰

१ जातिमालायां

२ अक्षरश्रेणौ

३ अन्तर्यागकर्मणि पञ्चाशद्वर्णात्मकमाल्यभेदे। अक्षमालाशब्दे

४३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णमाला¦ f. (-ला) The alphabet. E. वर्ण a letter, माला a garland.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णमाला/ वर्ण--माला f. order or series of letters ( esp. rows of letters written on a board or in a diagram) , the alphabet L.

"https://sa.wiktionary.org/w/index.php?title=वर्णमाला&oldid=504137" इत्यस्माद् प्रतिप्राप्तम्