आरोप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपः, पुं, (आङ् + रुह् + णिच् + घञ् ।) मिथ्या- ज्ञानं । यथा । “असर्पभूते रज्जौ सर्पारोपवत् वस्तुन्यवस्त्वारोपः अध्यारोपः” । इति वेदान्त- सारः ॥ मिथ्याविष्करणं । यथा । “असूया तु दोषारोपो गुणेष्वपि” । इत्यमरः ॥ (यथा साहित्यदर्पणे । १० म परिच्छेदे । “आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा” । “रूपितं रोपितारोपो विषये निरपह्ववे” ॥ “यत्र कस्यचिदारोपः परारोपणकारणं” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोप¦ पु॰ आ + रुह--णिच् करणे ल्युट्। अन्यपदार्थेअन्यधर्म्मस्यावभासरूपे मिथ्याज्ञाने। यस्मिन् यो धर्मोनास्तितादृशधर्मस्य तत्र बुद्ध्या अर्पणाद्बुद्धेस्तथात्वम्। यथा शुक्तौरजतत्वं तत्तादात्म्यं वा नास्ति बुद्ध्या च तत्र तयोरवगा-हनेन तद्धर्म्मस्यारोपणं क्रियते इति तस्या आरोपत्वम्। तथा च अतद्वति तत्प्रकारकज्ञानमारोपः इति नैयायिकाःसचाध्यास इति वेदान्तिनः अध्यासे कारणमेव तत्र कार-णम् तच्च अध्यासशब्दे

१४

० पृष्ठे विवृतम् स च द्विविधःआहार्यः अनाहार्य्यश्च यत्र बाधनिश्चयसत्त्वेऽपि इच्छयातथाज्ञानम् स आहार्य्यः। स च इच्छाप्रयोज्य एव इतरबु-द्धेर्बाधनिश्चयप्रतिबध्यत्वात्। स च प्रत्यक्षैव शाब्दोऽपि यथामुखं चन्द्रं इति रूपकयुक्तवाक्यजबोधः तत्र हि मुखे चन्द्र-त्वाभावनिश्चयेऽपि चन्द्राभेदेन मुखस्य बोधनादाहार्य्यत्वम्। [Page0805-a+ 38]
“परोक्षज्ञानमनाहार्य्यं निश्चयश्चेति सिद्धान्त” इतिप्रवादस्तु शाब्दबोधातिरिक्तपरः। एतदभिप्रायेणैव
“रूपकंरूपितारोपादित्यादिकं रूपकलक्षणम्” सारोपात्मकलक्षणा-भेदकथनञ्च सा॰ दर्पणोक्तं वेदितव्यम् यथा।
“विषयस्या-निगीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यात्” इतिसा॰ द॰।
“विषयस्यारोप्यस्य अनिगीर्ण्णस्य स्फुटतयाप्रतिभासमानस्यान्यतादात्म्यस्याभेदस्य प्रतीतिजनकत्वेनलक्षणायाः सारोपात्वम्।
“आरोपे सति निमित्तानुसरणंन तु निमित्तमस्तीत्यारोपः इति” चिन्ता॰।
“एवं वस्तुन्य-वस्त्वारोपः इति” वेदान्तसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोप¦ m. (-पः)
1. Placing in or on.
2. Assigning or attributing to. E. आङ् before रुह् to mount, causal form, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपः [ārōpḥ], 1 Attributing the nature or properties of one thing to another; वस्तुन्यवस्त्वारोपो$ध्यारोपः Vedānta S.; attributing or assigning to, imputation; दोषारोपो गुणेष्वपि Ak.

Considering as equal; identification (as in सारोपा लक्षणा).

Superimposition.

Imposing (as a burden), burdening or charging with.

Placing in or upon.

Relating to.

Superior position.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोप/ आ-रोप m. imposing (as a burden) , burdening with , charging with

आरोप/ आ-रोप m. placing in or on

आरोप/ आ-रोप m. assigning or attributing to

आरोप/ आ-रोप m. superimposition , Veda7nt. Sa1h. etc.

आरोप/ आ-रोप आ-रोह, etc. See. आ-रुह्.

"https://sa.wiktionary.org/w/index.php?title=आरोप&oldid=491226" इत्यस्माद् प्रतिप्राप्तम्