निश्चय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चयः, पुं, (निश्चीयतेऽनेनेति । निर् + चि + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) निःसंशयज्ञानम् । तत्पर्य्यायः । निर्णयः २ । इत्यमरः । १ । ५ । ३ ॥ निर्णयनम् ३ निचयः ४ । इति शब्दरत्नावली ॥ (यथा, देवी- भागवते । १ । १९ । ३५ । “देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता । तथा धनं गृहं राज्यं न ममेति च निश्चयः ॥”) “तदभावा प्रकारा धीस्तत्प्रकारा तु निर्णयः ॥” इति भाषापरिच्छेदः ॥ (अर्थालङ्कारविशेषः । तल्लक्षणादिकं यथा, साहित्यदर्पणे । १० । ५६ । “अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः ॥” उदाहरणं यथा, -- “वदनमिदं न सरोजं नयने नेन्दीवरे एते । इह सविधे मुग्धदृशो मधुकर ! न मुधा परि- भ्राम्य ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय पुं।

निश्चयः

समानार्थक:निर्णय,निश्चय,सर्ग,निर्

1।5।3।2।4

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

वैशिष्ट्य : बुद्धिः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय¦ पु॰ निर् + चि--अच्।

१ संशायान्यज्ञाने निर्णये

२ सि-द्धान्ते इदमित्थमेवेति

३ विषयपरिच्छेदे च
“तद्भावाप्रकाराधीः तत्प्रकारा तु निश्चयः” भाषा॰।
“तद्भभावाप्रकारकत्वेसति तत्प्रकारकज्ञानत्वं निश्चयत्वम्” सुक्ता॰ अनु-मित्यादौ निश्चयत्वमेव न सन्देहत्वम्
“परोक्षज्ञान-मनाहार्य्य निश्चयश्च” अनु॰ चि॰ उक्ते।
“संशयो-ऽथ विपर्य्यासो निश्चयः स्मृतिरेव च” भाग॰

३ ।

२६ ।

३०

४ बुद्धेरसाधारणवृत्तिभेदे
“मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयो निश्चयो गर्वः स्मरणं विषया इमे” वेदान्तपरिभा॰
“बुद्धिर्नाम निश्चयात्मकान्तःकरणवृत्तिः” वेदा॰ सा॰।
“अध्यवसायो बुद्धिः” सा॰ सू॰
“महत्तत्त्वस्यपर्य्यायो बुद्धिरिति अध्यवसायश्च निश्चयाख्यस्तस्यासाधा-रणी वृत्तिरित्यर्थः अभेदनिर्देशस्तु धर्मधर्म्यभेदात्” भा॰।

५ अर्थालङ्कारभेदे अलङ्कारशब्दे

३८

८ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय¦ m. (-यः)
1. Certainty, ascertainment, positive, conclusion.
2. A fixed intention, design, purpose, aim. E. निर affirmative particle, चि to collect, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चयः [niścayḥ], 1 Ascertainment, investigation, inquiry.

A fixed opinion, settled or firm conviction, firm belief.

A determination, resolution, resolve; एष मे स्थिरो निश्चयः Mu.1.

Certainty, positiveness, positive conclusion.

Fixed intention, design, purpose, aim; कैकेयी क्रूरनिश्चया R.12.4; Ku.5.5.

N. of a figure in Rhetoric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय/ निश्-चय etc. See. निश्-चि.

निश्चय/ निश्- m. inquiry , ascertainment , fixed opinion , conviction , certainty , positiveness( इति निश्चयः, " this is a fixed opinion " ; यं-ज्ञा, " to ascertain the certainty about anything " ; 610607 येनind. or 610607.1 यात्ind. certainly) Mn. MBh. R. etc.

निश्चय/ निश्- m. resolution , resolve fixed intention , design , purpose , aim( यं-कृ, to resolve upon , determine to [dat. loc. or inf]) MBh. Ka1v. etc.

निश्चय/ निश्- m. (in rhet. )N. of a partic. figure Sa1h.

"https://sa.wiktionary.org/w/index.php?title=निश्चय&oldid=500688" इत्यस्माद् प्रतिप्राप्तम्