योग्यता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्यता, स्त्री, (योग्यस्य भावः । योग्य + तल् । टाप् ।) क्षमता । इति लोकप्रसिद्धिः ॥ (यथा, मार्कण्डेये । ११३ । ९ । “तथान्यानप्ययोग्यानि योग्यतां यान्ति कालतः । योग्यान्ययोग्यतां यान्ति कालवश्या हि योग्यता ॥”) शाब्दबोधकारणविशेषः । स तु पादार्थानां परस्परसम्बन्धे वाधाभावः । इति साहित्य- दर्पणम् ॥ न्यायमते तत्पदार्थे तत्पदार्थवत्ता । यथा, -- “पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता ।” इति भाषापरिच्छेदः ॥ “योग्यतां निरूपयति पदार्थ इत्यादिना । एकपदार्थेऽपरपदार्थसम्बन्धो योग्यता इत्यर्थः । तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्यादौ न शाब्दबोधः । नन्वेतस्या योग्यताया ज्ञानं शाब्दबोधात् प्राक् सर्व्वत्र न सम्भवति वाक्यार्थ- स्यापूर्ब्बत्वादिति चेन्न तत्तत्पदार्थस्मरणे सति क्वचित् संशयरूपस्य क्वचिन्निश्चयरूपस्यापि योग्यताया ज्ञानस्य सम्भवात् । नव्यास्तु योग्यताज्ञानं न शब्दज्ञाने कारणं वह्निना सिञ्चति इत्यादौ सेके वह्निकरणकत्वाभाव- रूपायोग्यताया निश्चयेन प्रतिबन्धान्न ज्ञाब्द- बोधः । तदभावनिश्चयस्य लौकिकसन्निकर्षा- जन्यदोषविशेषाजन्यज्ञानपात्रे प्रतिबन्धकत्वात् शाब्दे प्रतिबन्धकत्वं सिद्धं योग्यताज्ञान- विलम्बाच्च शाब्दविलम्बोऽसिद्ध इति वदन्ति ।” इति सिद्धान्तमुक्तावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्यता¦ स्त्री योग्यस्य भावः तल्।

१ सामर्थ्ये

२ शाब्द-बोधसाधने
“पदार्थे तत्र तद्वता योग्यता परिकीर्त्तिता” भाषा॰ उक्ते

३ तत्पदार्थे तत्पदार्थवत्तारूपे

४ परस्परान्वयेबाधाभावरूपे वार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्यता¦ f. (-ता) Fitness, suitableness, propriety. E. योग्य, तल् aff.; also with त्व, योग्यत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्यता [yōgyatā], 1 Ability, capability; न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः Rām.

Fitness, propriety.

Appropriateness.

(In Nyāya phil.) Fitness or compatibility of sense, the absence of absurdity in the mutual connection of the things signified by the words; e. g. in अग्निना सिञ्चति there is no योग्यता; it is thus defined: एकपदार्थे$परपदार्थसंसर्गो योग्यता Tarka K.; or पदार्थानां परस्पर- संबन्धे बाधाभावः S. D.2; पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता Bhāṣāparichcheda.

Purity (पवित्रता); व्यनक्ति कालत्रित- ये$पि योग्यताम् Śi.1.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योग्यता/ योग्य--ता f. suitableness , fitness , propriety , ability R. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=योग्यता&oldid=386437" इत्यस्माद् प्रतिप्राप्तम्