अनुकम्पा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पा, स्त्री, (अनु + कम्प् + भावे अः, स्त्रियां टाप् ।) दया । कृपा । इत्यमरः ॥ (“भूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पा स्त्री।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

1।7।18।2।3

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पा¦ स्त्री अनु + कम्प--अङ्। दयायाम्, दयया हिदुःखहेतुकान्यकम्पं दृष्ट्वा तत्सदृशकम्पकरणात् दयाया-स्तथात्वम् अतएवानुकम्पधातोरनुरोदनवत् सकर्म्मकत्वम्। दया च परदुःखप्रहरणेच्छा अनुपूर्ब्बककम्पतेस्तदर्थ-परत्वमित्येके धात्वर्थगृहीतकर्म्मकत्वेन तत्राकर्म्मकत्वमितिभेदः।
“तेषामेवानुकम्पार्थं प्रदेयं प्रीतिपूर्व्वकमिति” स्मृतिः।
“भूतानुकम्पा तव चेदियं गौरिति” रघुः। किञ्चिच्चलने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पा¦ f. (-म्पा) Tenderness, compassion. E. अनु before कपि to tremble, and affix अच्, and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पा [anukampā], [कम्प्-अङ्] Compassion, commiseration, pity; with gen.; तेषामेवानुकम्पार्थम् Bg.1.11; or with loc.; भक्त्या गुरौ मय्यनुकम्पया च R.2.63; or in comp.; भूतानुकम्पा तव चेत् R.2.48; अनुकम्पायां कन् P.V.3.76.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पा/ अनु-कम्पा f. id.

"https://sa.wiktionary.org/w/index.php?title=अनुकम्पा&oldid=486008" इत्यस्माद् प्रतिप्राप्तम्