अक्षक्रीडा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अक्षक्रीडा, स्त्री, (अक्षैः या क्रीडा) द्यूतक्रीडा पाशकक्रीडा । यथा । अक्षक्रीडायां व्यासयुधि- ष्ठिरसंवादः प्रचरति । इति तिथ्यादितत्त्वं ॥ तद्विवरणं चतुरङ्गशब्दे द्रष्टव्यं ॥ * ॥ कार्त्तिक- शुक्लप्रतिपदि तत्क्रीडाविधिर्यथा । ब्रह्मपुराणे, -- “शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरं । कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते ॥ जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती । अतोऽर्थाच्छङ्करो दुःखी गौरी निथं सुखोषिता ॥ तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः । तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥ पराजयो विरुद्धस्तु लब्धनाशकरो भवेत” । द्यूतञ्चाप्राणिभिः क्रीडनं । यथा मनुः, -- “अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते” । इति तिथ्यादितत्त्वं ॥ * ॥ दशमीद्वादश्योस्तत्- करणनिषेधो यथा । स्मृतिः, -- “शाकं माषं मसूरञ्च पुनर्भोजनमैथुने । द्यूतमत्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेत्” ॥ कूर्म्मपुराणं, -- “कांस्यं मांसं सुरां क्षौद्रं हिंसां तैलमसत्यताम् । द्यूतक्रीडां दिवानिद्रां व्यायामं क्रोधमैथुनं ॥ द्वादश्यां द्वादशैतानि वैष्णवः परिवर्ज्जयेत्” । इत्येकादशीतत्त्वं ॥ * ॥ अन्यत् द्यूतशब्दे द्रष्टव्यं ॥