अतिविषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिविषा, स्त्री, (विषमतिक्रान्ता प्रादिसमासः । वा विषमतिक्रान्तं यया बहुव्रीहिः ।) वृक्षविशेषः । आतैष । आतैच इति भाषा । तत्पर्य्यायः । विश्वा २ विषा ३ प्रतिविषा ४ उपविषा ५ अरुणा ६ श्टङ्गी ७ महौषधं ८ । इत्यमरः ॥ काश्मीरा ९ श्वेता १० । इति रत्नमाला ॥ श्वेतकन्दा ११ भृङ्गी १२ भङ्गुरा १३ विरूपा १४ श्यामकन्दा १५ विषरूपा १६ वीरा १७ माद्री १८ श्वेत- वचा १९ अमृता २० । इति राजनिर्घण्टः ॥ तस्या गुणाः । पाचकत्वं । ग्राहित्वं । दोषनाशित्वञ्च । इति राजवल्लभः ॥ कटुत्वं । कफपित्तज्वरामा- तिसारकासविषच्छर्द्दिनाशित्वञ्च । “त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा । रसवीर्य्यविपाकेषु निर्व्विषेव गुणाधिका” ॥ इति राजनिर्घण्टः ॥ “विषा त्वतिविषा विश्वा श्टङ्गी प्रतिविषारुणा । शुक्लकन्दा चोपविषा भङ्गुरा व्रणवल्लभा ॥ विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् । कफपित्तातिसारामविषकासवमिक्रिमीन्” ॥ इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिविषा स्त्री।

अतिविषा

समानार्थक:विश्वा,विषा,प्रतिविषा,अतिविषा,उपविषा,अरुणा,शृङ्गी,महौषध

2।4।99।2।4

गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि। विश्वा विषा प्रतिविषातिविषोपविषारुणा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिविषा¦ स्त्री अतिक्रान्ता विषम् अत्या॰ स॰। (आतैच्)इति ख्यातायाम् लतायाम्।
“त्रिविधाऽतिविषा ज्ञेया शुक्ला कृष्णा तथाऽरुणा। रसवीर्य्यविपाकेषु निर्विषेव गुणाधिकेति” वैद्यकम्। विषातिक्रम-कारके त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिविषा/ अति--विषा f. the plant Aconitum Ferox

"https://sa.wiktionary.org/w/index.php?title=अतिविषा&oldid=484942" इत्यस्माद् प्रतिप्राप्तम्