अकर्म्मक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मक¦ त्रि॰ नास्ति कर्म्म यस्य ब॰ कप्। व्याकरणोक्तेकर्म्मशून्ये धातौ,
“लः कर्म्मणि च भावे चाकर्म्मकेभ्य इति” पा॰।
“फलव्यापारयोरेकनिष्ठतायामकर्म्मक इति” हरिः। स्त्रियां टापि कापि अतैत्त्वम् अकर्म्मिका।
“प्रसिद्धेर-विवक्षातः कर्म्मणोऽकर्मिका क्रियेति” हरिः।

"https://sa.wiktionary.org/w/index.php?title=अकर्म्मक&oldid=193774" इत्यस्माद् प्रतिप्राप्तम्