अक्षमाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षमाला स्त्री, (अक्षाणां माला ।) अक्षसूत्रं । वशिष्ठपत्नी । इति मेदिनी ॥ (यथाह मनुः -- “अक्षमाला वशिष्ठेन संयुक्ताधमयोनिजा” । अक्षसूत्रेति तान्त्रिकभाषया अकारादिक्षका- रान्तवर्णमाला रुद्राक्षमाला च । यथा गौत- मीये, -- “पञ्चाशल्लिपिभिर्माला विहिता जपकर्म्मसु । अकारादिक्षकारान्ता अक्षमाला प्रकीर्त्तिता ॥ क्षर्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम । अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः” ॥ इति तन्त्रसारः ॥ * ॥ अन्यत् मालाशब्दे वर्ण- मालाशब्दे च द्रष्टव्यं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षमाला¦ स्त्री अक्षाणां रुद्राक्षाणां माला। रुद्राक्षवीजग्रथितमालायाम्। अकारादिक्षकारान्तः अक्ष स्तत्कृतातत्प्रतिनिधीभूता वा माला शा॰ त॰। एकपञ्चाशद्वर्ण-मालायाम् तत्प्रतिनिधीभूतायां स्फटिकादिग्रथितायाम्वाह्यमालायाञ्च
“शोष्यमाणपुष्करवीजं ग्रथ्यमनाक्ष माल-मिति” काद॰।
“विभान्तमच्छस्फटिकाक्षमालयेति” माघः। तद्विवरणम्।
“क्रमोत्क्रमगते माला मातृकार्णे क्षमेरुके। लावसानैः साष्टवर्गैरन्तर्यजनकर्म्मणीति” सनत्कुमारीये।
“पद्मवीजादिभिर्माला वहिर्यागे शृणुष्व ताः। रुद्राक्षशङ्ख-पद्माक्षपुत्रजीवकमौक्तिकैः। स्फाटिकैर्मणिरत्नैश्च सुवर्णैर्विद्रुमैस्तथा। रजतैः कुशमूलैश्च गृहस्थस्याक्षमालि-केति” तन्त्रसारे एतत्विस्तारस्ततएवागन्तव्यः। अक्षस्य[Page0044-a+ 38] नक्षत्रचक्रस्य मालेव भूषणत्वात्। अरुन्धत्यां, सा हिउत्तरस्यां दिशि गगने सप्तर्षिमण्डलचक्रे वसिष्ठसमीपे-मालारूपेण वर्त्तते सर्व्वेभ्यश्च उज्वलत्वात्तस्या मालारूपेणस्थितत्वाच्च नक्षत्रचक्रभूषणत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षमाला¦ f. (-ला)
1. A rosary, a string of beads, especially of the seeds of the Eleocarpus.
2. The name of ARUNDHATI, wife of VASISHT'- HA, (from her wearing a rosary.) E. अक्ष a kind of seed or bead, and माला a necklace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षमाला/ अक्ष--माला f. a string or rosary of beads , especially of Eleocarpus seeds

अक्षमाला/ अक्ष--माला f. N. of अरुन्धती, wife of वसिष्ठ(from her wearing a rosary) Mn. ix , 23

अक्षमाला/ अक्ष--माला f. N. of the mother of वत्स.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of शेष; see अक्षसूत्र। वा. ५०. ५०. [page१-006+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AKṢAMĀLĀ (ARUNDHATĪ) : See under Arundhatī.


_______________________________
*1st word in left half of page 23 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अक्षमाला&oldid=483860" इत्यस्माद् प्रतिप्राप्तम्