पित्तल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तलम्, क्ली, (पित्तं तद्वर्णं लातीति । ला + कः ।) धातुविशेषः । पितल इति भाषा ॥ (यथा, वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे । “पित्तलञ्च तथा कांस्यं ताम्रवन्मारयेद्भिषक् । ताम्रवच्छोधनं तेषां ताम्रवद्गुणकारकम् ॥”) तत्पर्य्यायः । आरकूटम् २ रीतिः ३ पतिकावे- रम् ४ द्रव्यदारु ५ । इति जटाधरः ॥ रीती ६ । इति शब्दरत्नावली ॥ मिश्रम् ७ । इति रत्नमाला ॥ आरः ८ राजरीतिः ९ ब्रह्मरीतिः १० कपिला ११ पिङ्गला १२ । इति भाव- प्रकाशः ॥ क्षुद्रसुवर्णः १३ सिंहलम् १४ पिङ्ग- लकम् १५ पीतलकम् १६ लोहितकम् १७ पिङ्गललोहम् १८ पीतकम् १९ । रीतिका- युगलगुणाः । तिक्तत्वम् । शीतलत्वम् । रसे लवणत्वम् । शोधनत्वम् । पाण्डुवातकृमिप्लीह- पित्तनाशित्वञ्च । “शुक्ला स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्रिणी । हेमोपमा शुभा स्वच्छा जात्या रीतिः प्रकी- र्त्तिता ॥” इति राजनिर्घण्टः ॥ “रीतिरप्युपधातुः स्यात् ताम्रस्य यसदस्य च । पित्तलस्य गुणा ज्ञेया स्वयोनिसदृशा जनैः ॥ संयोगस्य प्रभावेण तस्यान्येऽपि गुणाः स्मृताः । रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे । शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम् ॥” इति भावप्रकाशः ॥ * ॥ भूर्जपत्रम् । इति शब्दमाला ॥ (बाहुल्येन पित्तमस्त्यस्येति । पित्त + “सिध्मादिभ्यश्च ।” ५ । २ । १७ । इति लच् ।) पित्तयुक्ते, त्रि । इति मेदिनी । ले, ११४ ॥ (पित्तवृद्धिकरे च । यथा, सुश्रुते सूत्रस्थाने । ४५ अध्याये । “सक्षारं पित्तलं कौपं श्लेष्मघ्रं दीपनं लघु ॥” यथा च माधवकरधृतरुग्विनिश्चयसंग्रहे पाण्डधि- कारे । “पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते । तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तल¦ त्रि॰ पित्तमस्त्यस्याधिक्ये न सिध्मा॰ लच्।

१ पित्तबहुले। पित्तं लाति ला--क।

२ उपधातुभेदे रीतौ

३ भूर्ज-पत्रे शब्दमा॰

४ तोयपिष्पल्यां स्त्री मेदि॰। रीतिश्च द्विविधायथोक्तं राजनि॰
“शुक्ला स्निग्धा मृदुः शीता सुरङ्गासूत्रपत्रिणी। हेमोपमा शुभा खच्छा जात्या रीतिःप्रकीर्त्तिता”।
“रीतिरप्य पधातुः स्यात्ताम्रस्य यसदस्यच। पित्तलस्य गुणा ज्ञेया स्वयोनिसदृशा जनैः। संयोगस्य प्रभावेन तस्यान्येऽपि गुणा स्मृताः। रीति-कायुगलं रूक्षं तिक्तञ्च लवणं रसे। शोधनं पाण्डुरो-[Page4337-a+ 38] गघ्नं कृमिघ्नं नातिलेखनम् भावप्र॰। तन्मारणशोधन-विधिः कांस्यशब्दे

१८

४२ पृ॰ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तल¦ mfn. (-लः-ला-लं) Bilious, relating to the bilious humour. n. (-लं)
1. Brass.
2. The Bhu4rjapatra or Birch tree, of which the bark is used for writing upon, &c. f. (-ला) A plant, (Jussieua repens.) E. पित्त bile, ला to get, to resemble, (in colour,) aff. ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तल [pittala], a. Bilious.

लम् Brass.

A species of birch tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पित्तल mf( आ)n. bilious , secreting bile Sus3r. ( g. सिध्मा-दि)

पित्तल n. brass , bell-metal L.

पित्तल n. Betula Bhojpatra (its bark is used for writing upon ; See. भूर्ज-पत्त्र) L.

"https://sa.wiktionary.org/w/index.php?title=पित्तल&oldid=301373" इत्यस्माद् प्रतिप्राप्तम्