कच्छप
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कच्छपः, पुं, (कच्छं आत्मनो मुखसम्पुटं पाति स हि किञ्चिद्दृष्ट्वा शरीरे एव मुखसम्पुटं प्रवेशयति सम्पुटे हि कच्छशब्दः प्रसिद्धः । यद्वा कच्छे अनूप- देशे पाति आत्मानं रक्षतीति । कच्छ + पा + कर्त्तरि डः ।) स्वनामख्यातजलजन्तुः । काछिम् इति भाषा । तत्पर्य्यायः । कूर्म्मः २ कमठः ३ । इत्यमरः ॥ १ । १० । २१ । गूढाङ्गः ४ धरणीधरः ५ कच्छेष्टः ६ पल्वलावासः ७ कठिनपृष्ठकः ८ । पञ्चसुप्तः ९ क्रोडाङ्गः १० । इति शब्दरत्नावली ॥ पञ्चनखः ११ गुह्यः १२ पीवरः १३ जलगुल्मः १४ । इति जटाधरः । अस्य मांसगुणाः । वातहरत्वम् । शुक्रवृद्धिकारित्वम् । चक्षुर्हित- त्वम् । बलवर्द्धनत्वम् । मेधास्मृतिकारित्वम् । पथ्यत्वम् । शोथदोषनाशित्वञ्च । तस्य चर्म्म पित्त- नाशकम् । पादः कफहारकः । अण्डं स्वादु वाजी- करञ्च ॥ (अवतारविशेषः । यथाभागवते ८ । ७ । १० । “सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं परिभ्रमन्तं गिरिमङ्गपृष्ठतः । बिभ्रत्तदावर्त्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः” ॥) नन्दीवृक्षः । इति राजनिर्घण्टः । कुवेरस्य निधि- विशेषः । मल्लस्य बन्धविशेषः । इति मेदिनी ॥ मदिरायन्त्रविशेषः । इति शब्दचन्द्रिका ॥ (ऋषि- विशेषः स तु विश्वामित्रपुत्त्रः ॥ यथा हरिवंशे २७ । ४७--५० ॥ “विश्वामित्रस्य पुत्त्रास्तु देवराजादयः स्मृताः । विख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥ देवश्रवाः कतिश्चैव यस्मात् कात्यायनाः स्मृताः । शालावत्यां हिरण्याक्षो जज्ञे रेणौ तु रेणुमान् ॥ साङ्कतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः । मधुच्छन्दादयश्चैव देवलश्च तथाष्टकः ॥ कच्छपः पूरितश्चैव विश्वामित्रस्य वै सुताः । तेषां ख्यातानि गोत्राणिकौशिकानां महात्मनां” ॥ नागविशेषः । यथा महाभारते १ । १२३ । ६८ । “कर्क्कोटकोऽथ सर्पश्च वासुकिश्च मुजङ्गमः । कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः” ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कच्छप पुं।
विशेषनिधिः
समानार्थक:पद्म,शङ्ख,महापद्म,पद्म,शङ्ख,मकर,कच्छप,मुकुन्द,कुन्द,नील,खर्व
1।1।71।3।5
स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥
पदार्थ-विभागः : धनम्
कच्छप पुं।
कूर्मः
समानार्थक:कूर्म,कमठ,कच्छप
1।10।21।1।5
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥
पत्नी : कच्छपी
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कच्छप¦ पुंस्त्री
“कच्छमात्मनो मुखसंपृटं पाति सहिकिञ्चिद्दृष्ट्वा शरीर एव सुखसमुटं प्रवेशयति संपुटेहि कच्छशब्दः प्रसिद्धः प्राणिवाच्यकच्छपुट इति। कच्छेन कटाहेन (कर्परेण) इतराङ्गाणि पाति वा। अथ वा कच्छेन मुखसम्पुटेन पिबतीति कच्छः खमा-काशं छादयतिः कच्छः। खच्छः खच्छदः अयम-पीतरो नदीकच्छ एतदीयमुदकं तेन च्छाद्यते” इतिच निरुक्तोक्तेः कच्छं पाति कच्छेन पाति वा कच्छेनपिबतीति वा पा--ड।
१ कूर्म्मे स्त्रियां जातित्वात् ङीष् साच
२ वीणाभेदे
३ कच्छपस्त्रियाञ्च।
४ क्षुद्ररोगभेदेस्त्री
५ कुवेरनिधिभेदे
६ मल्लबन्धभेदे च पु॰ मेदि॰। कच्छपीरोगश्च भाव॰ प्रका॰ दर्शितः
“ग्रथिताः पञ्च वाषड्वा दारुणाः कच्छपोन्नताः। कफानिलाभ्यां पि-डकाः सा स्मृता कच्छपी बुधैः” कच्छपोन्नता मध्ये प्रो-स्नता प्रान्ते नता। इयञ्च प्रमेहरेगोपेक्षायां दशविधपिडकान्तर्गता। निधिभेदः एकादिशब्दे नवसंख्यायांदर्शितस्तत्र द्रष्टव्यः। स्वार्थेकन् कच्छपिकाऽपि रोगभेदे।
“सदाहा कर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः” वैद्यकम्। कच्छपमांसगुणाः भावप्र॰ उक्ताः
“कच्छपो बलदो वा-तपित्तनुत् पुंस्त्वकारका”। अयञ्च भक्ष्यपञ्चनखान्तर्गतः
“शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः। भक्ष्याःपञ्चनखेष्वेते” इति मनुक्तेः
“पञ्च पञ्चनखान् भुञ्जीतेति” श्रुतिः। अत्र परिसंख्यैतदतिरिक्तपञ्चनखानां भोजन-निवृतिफलकत्वादित्याकरे स्पष्टम्। समुद्रमन्वनकाले एत-[Page1616-b+ 38] न्मूर्त्त्या मन्दरधारणार्थं भगवानवततार यथाह भाग॰
१ ,
३ अ॰ भगवतश्चतुविंशत्यवतारकथने।
“सुरासुरणामु-दधिं मघ्नतां मन्दराचलम्। दध्रे कमठरूपेण पृष्ठ एका-दशे विभुः
१७ श्लो॰।
“मथ्यमानेऽर्णवे सोऽद्रिरनाधारोह्यपो-ऽविशत्। ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन!। ते सुनिर्विण्णमनसः परिम्लानमुस्वश्रियः। आसन् स्वपौ-रुषे नष्टे दैवेनातिबलीयसा। विलोक्य विध्नेन विधिं तदे-श्वरोदुरन्तवीर्य्योऽवितथाभिसन्धिः। कृत्वावपुः कच्छपमद्भुतंमहत् प्रविश्य तोयं गिरिमुज्जहार। समुत्थितं वीक्ष्य-कुलाचलं पुनः समुद्यता निर्म्मथने सुरासुराः। दधारपृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान्। सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः। बि-भ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः” भाग॰
८ ,
७ ,
७ विश्वामित्रसुते मुनिभेदे कतशब्दे प्रमाणम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कच्छप¦ m. (-पः)
1. A turtle, a tortoise.
2. One of KUVERA'S Nid'his or treasures.
2. An attitude in wrestling.
4. A flat kind of still. f. (-पी)
1. A female tortoise, also a small one.
2. A kind of lute, also the lute of SARASWATI.
3. A cutaneous disease, wart or blotch. E. कच्छ a morass, and प who cherishes, who inhabits watery places: the lute, &c. are so named from being similar in shape to the tortoise.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कच्छप/ कच्छ--प m. " keeping or inhabiting a marsh " , a turtle , tortoise MBh. Gaut. Mn. etc.
कच्छप/ कच्छ--प m. a tumour on the palate Sus3r. i , 306 , 8
कच्छप/ कच्छ--प m. an apparatus used in the distillation of spirituous liquor , a flat kind of still L.
कच्छप/ कच्छ--प m. an attitude in wrestling L.
कच्छप/ कच्छ--प m. Cedrela Toona L.
कच्छप/ कच्छ--प m. one of the nine treasures of कुवेरL.
कच्छप/ कच्छ--प m. N. of a नागMBh.
कच्छप/ कच्छ--प m. of a son of विश्वा-मित्रHariv.
कच्छप/ कच्छ--प m. of a country Katha1s.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a son of विश्वामित्र. Br. III. ६६. ६९; वा. ९१. ९७; Vi. IV. 7. ३८.
(II)--a नाग. वा. ६९. ७३.
(III)--one of the eight निधिस् of Kubera. वा. ४१. १०.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kacchapa : m.: A mythical serpent.
Son of Kadrū, one of those who came to greet the birth of Arjuna 1. 114. 60, 40.
_______________________________
*2nd word in right half of page p9_mci (+offset) in original book.
Mahabharata Cultural Index

Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कच्छप पु.
(कच्छेन पाति, कच्छ + पा + क) कछुआ, मा.श्रौ.सू. 3.6.16 (वेदिचयन में इसकी अनुपलब्धता की स्थिति में केकड़ा इसका स्थानापन्न होता है), वारा.श्रौ.सू. 2.1.6.36।
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index
- यन्त्रोपारोपितकोशांशः-Vedic Rituals Hindi