रङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्गम्, क्ली पुं, (रङ्गतीति । रङ्ग + अच् । रज्यते अस्मिन् । रन्ज् + अधिकरणे घञ् वा ।) धातुविशेषः । राङ्ग इति भाषा ॥ तत्पर्य्यायः । त्रपुः २ त्रपुषम् ३ आपूषम् ४ वङ्गम् ५ मधु- रम् ६ हिमम् ७ कुरूप्यम् ८ पिच्चटम् ९ पूति- गन्धम् १० । अस्य गुणाः । कटुत्वम् । तिक्त- त्वम् । हिमत्वम् । कषायत्वम् । लवणरसत्वम् । मेहघ्नत्वम् । कृमिपाण्डुदाहशमनत्वम् । कान्ति- करत्वम् । रसायनत्वञ्च । तद्विशेषो यथा, -- “श्वेतं मृदु लघु स्वच्छं स्निग्धमुष्णसहं हिमम् । सूत्रपत्रकरं कान्तं त्रपुश्रेष्ठमुदाहृतम् ॥ क्षुरकं मिश्रकञ्चापि द्विविधं वङ्गमुच्यते । उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम् ॥” इति राजनिर्घण्टः ॥ तस्याशुद्धस्य दोषमाह । “वङ्गो विधत्ते खलु शुद्धिहीन- स्तथा ह्यपक्वश्च किलासगुल्मौ । कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च ॥ विषोपमं रक्तविकारवृन्दं क्षयञ्च कृच्छ्राणि कफज्वरञ्च । मेहाश्मरीविद्रुधिमुख्यरोगान् नागोऽपि कुर्य्यात् कथितान् विकारान् ॥” तस्य शोधनमभिधीयते । “वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत् । त्रिधा त्रिधा विशुद्धिः स्याद्रविदुग्धेऽपि च त्रिधा ॥ तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषु प्रत्येकं त्रिधा त्रिधा । ततोऽर्कदुग्धे त्रिधा ॥ * ॥ अथ वङ्गस्य मारणविधिः । “मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः । क्षिप्त्वा वङ्गचतुर्थांशमयोदर्व्व्या प्रचालयेत् ॥” चिञ्चा अमिली । रजञ्चूर्णम् । अग्रोदर्व्वी कर- छुली । “ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते । अथ भस्मसमं तालं क्षिप्त्वाम्लेन विवर्द्धयेत् ॥ ततो गजपुटे पक्त्वा पुनरम्लेन मर्द्दयेत् । तालेन दशमांशेन याममेकं ततः पुटेत् । एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥” एवं मारितस्य वङ्गस्य गुणाः । “वङ्गं लघु सरं रूक्षं कुष्ठमेहकफकृमीन् । निहन्ति पाण्डुं सश्वासं नेत्र्यमीषत्तु पित्तलम् ॥ सिंहो गजौघन्तु यथा निहन्ति तथैव रङ्गोऽखिलहेमवर्गम् । देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम् ॥” इति भावप्रकाशः ॥ (यथाच । “वङ्गं तिक्ताम्लकं रूक्षं किञ्चिद्वातप्रकोपणम् । मेदः श्लेष्मामयघ्नञ्च क्रिमिघ्नं मेहनाशनम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे ॥)

रङ्गः, पुं, (रन्ज् + घञ् ।) रागः । (यथा, महा- भारते । ५ । ३६ । १० । “वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥”) नृत्यम् । (यथा विष्णुपुराणे । २ । ६ । २० । “रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा । सूचीमाहिषिकश्चैव पर्व्वकारी च यो द्बिजः ॥” रजति आसज्जति मल्लोऽत्र । रन्ज् + अधि- करणे घञ् ।) रणभूमिः । इति मेदिनी । गे, २१ ॥ (यथा, श्रीमद्भागवते । १० । ४३ । १७ । “वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥”) नाट्यस्थानम् । इति हेमचन्द्रः ॥ (यथा, मृच्छकटिकप्रकरणे । १ । “इयं रङ्गप्रवेशेन कलानाञ्चोपशिक्षया । वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥” लक्षणया नाट्यस्थानस्थितो जनः । यथा, अभि- ज्ञानशकुन्तले १ प्रस्तावनायाम् । “सूत्रधारः । आर्य्ये ! साधु गीतम् । अहो रागापहृतचित्तवृत्तिरालिखित इव विभाति सर्व्वतो रङ्गः । तदिदानीं कतमं प्रयोगमाश्रित्यै- नमाराधयामः ॥” राजमार्गः । यथा, देवी- भागवते । ७ । २२ । ३ । “अवतार्य्य तदा रङ्गे तां भार्य्यां नृपसत्तमः ॥”) टङ्कणः । खादिरसारः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्ग नपुं।

वङ्गम्

समानार्थक:त्रपु,पिच्चट,रङ्ग,वङ्ग

2।9।106।1।1

रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम्. स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्ग¦ पुंन॰ रगि--अच्।

१ धातुभेदे (राङ) राजनि॰। रन्ज--भावेघञ्।

२ रागे। आधारे घञ्।

३ रणभूमौ

५ नाट्यस्थानेच अमरः। करणे घञ्।

४ नृत्ये मेदि॰।

६ टङ्कणे (सो-हागा)

७ खादिरसारे च राजनि॰। रङ्गधातोः शो
“धनप्रकारो भावप्र॰ उक्तो यथा
“र(व)ङ्गनागौ प्रतप्तौ चगलितौ तौ निषेचयेत्। त्रिधा त्रिधा विशुद्धिः स्याद्रविदुग्धेऽपि च त्रिधा”। तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषुप्रत्येकं त्रिधा त्रिधा। अथ रङ्गस्य मारणविधिः।
“मृत्पात्रे द्राविते र(व)ङ्गे चिञ्चाश्वत्थत्वचोरजः। क्षिप्त्वार(व)ङ्गचतुर्थांशमयोदर्व्या प्रचालयेत्”। चिञ्चा(अमिली)रजश्चूर्णम्। अयोदर्वी (करछुली)।
“ततोद्वियाममात्रेणर(व)ङ्गं भस्म प्रजायते। अथ भस्मसमं तालं क्षिप्त्वाम्लेनविवर्द्धयेत्। ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्। तालेन दशमांशेन याममेकं ततः पुटेत्। एवं दशपुटैःपक्वं र(व)ङ्गं भवति मारितम्। एवं मारितस्य र(व)ङ्ग-{??}प गुणाः।
“रङ्गं लघु सरं रूक्षं कुष्ठमेहकफक्रमीन्। [Page4788-b+ 38] निहन्ति पाण्डुं सश्वासं नेत्रमीषत्तुपित्तलम्। सिंहोगजौघन्तु यथा निहन्ति तथैव र(व)ङ्गोऽखिलहेमवर्गम्। देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिंविदधाति नूनम्”। तस्याशुद्धस्य दोषमाह
“रङ्गोविधत्तेखलुशुद्धिहीनस्तथा ह्यपक्वश्च किलासगुल्मौ। कुष्ठानि-शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च। विषोपमं रक्तविकारवृन्दं क्षमञ्च कृच्छ्राणि कफज्वरञ्च। मेहाश्मरीविद्रधिमुख्यरोगान्नागोपि कुर्य्यात् कथितान्विकारान्” तद्भेदो यथा।
“श्वेतं मृदु लघु स्वच्छंस्निग्धमुष्णसहं हिमम्। सूत्रपत्त्रकरं कान्तं त्रपुश्रेष्ठमुदाहृतम्। क्षुरकं मिश्रकञ्चापि द्विबिधं र(व)ङ्ग-मुच्यते। उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम्”। राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्ग¦ m. (-ङ्गः)
1. Paint, colour, tint, dye.
2. Dancing, acting, singing, &c.
3. A field of battle.
4. The place where acting, &c. is exhibi- ted, a stage.
5. A place answering to an amphi-theatre.
6. An assembly.
7. The nasal modification of a vowel.
8. Borax. n. (-ङ्गं) Tin. E. रगि to go, aff. अच्; or रञ्ज् to colour, aff. घञ्, the final changed, and the nasal rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्गः [raṅgḥ], [रञ्ज्-भावे घञ्]

Colour, hue, dye, paint.

A stage, theatre, play-house, an arena, any place of public amusement, as in रङ्गविघ्नोपशान्तये S. D.281; यदा- श्रौषं द्रोपदीं रङ्गमध्ये Mb.1.1.154; आनर्चुः पुरुषा रङ्गम् Bhāg. 1.42.33.

A place of assembly.

The members of an assembly, the audience; अहो रागबद्धचित्त- वृत्तिरालिखित इव सर्वतो रङ्गः Ś.1; रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ Sarva. S.

A field of battle.

Dancing, singing, acting.

Mirth, diversion.

The nasal modification of a vowel; सरङ्गं कम्पयेत् कम्पं रथीवेति निदर्शनम् Sik. 3; see 26,27,28 also.

An extract of Khadira. -गः, -गम् Tin. -Comp. -अङ्गनम्, -णम् an arena, an amphitheatre. -अङ्गा alum.

अवतरणम् entrance on the stage.

an actor's profession. -अवतारकः, -अवतारिन्m. an actor; कर्मारस्य निषादस्य रङ्गावतारकस्य च Ms.4.215.

आजीवः an actor;

a painter; रङ्गाजीवाश्च भूरिशः Śiva B.31.19; so, -उपजीविन् m., -कारः, -जीविकः a painter. -क्षारः borax.

चरः an actor, a player.

a gladiator. -जम् red lead.

जीवकः an actor.

a dyer, colourist. -तालः a kind of measure (in music)

दः borax.

an extract of Khadira. -दा, -दृढा alum.-देवता the goddess supposed to preside over battlefield, sports and public diversions generally; आतेने बलमिव रङ्गदेवताभ्यः Ki.17.62.

द्वारम् a stage door.

the prologue of a play. -पत्री, -पुष्पी the indigo plant. -पीठ a place for dancing; महति रत्नरङ्गपीठे स्थितां प्रथमं ताम्रोष्ठीम- पश्यम् Dk.2.6. -प्रदीपकः (in music) a kind of measure.

प्रवेशः entering on the stage.

engaging in theatrical performance. -बी(वी)जम् silver. -भूतिः f.

the night of full moon in the month of Aśvina. -भूमिः f.

a stage, theatre.

an arena, battle-field. -मङ्गलम् a festive ceremony on the stage. -मण्डपः a theatre.-मल्ली a lute. -मातृ f.

lac, red-dye, or the insect which produces it.

a bawd, procuress. -वस्तु n. a paint. -वाटः an arena, a place enclosed for plays, dancing &c. -विद्या the art of dancing and acting, theatrical profession. -शाला a dancing-hall, theatre, play house. -संगरः a contest on the stage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्ग रङ्गित, रङ्गिन्See. p.862.

रङ्ग m. colour , paint , dye , hue MBh. Sus3r. Lalit.

रङ्ग m. the nasal modification of a vowel S3iksh.

रङ्ग m. a place for public amusement or for dramatic exhibition , theatre , play-house , stage , arena , any place of assembly MBh. Ka1v. etc.

रङ्ग m. the members of an assembly , audience S3ak. Sa1m2khyak. Das3ar.

रङ्ग m. a dancing-place L.

रङ्ग m. a field of battle L.

रङ्ग m. diversion , mirth L.

रङ्ग m. love L.

रङ्ग m. (in music) a kind of measure Sam2gi1t.

रङ्ग m. borax L.

रङ्ग m. an extract obtained from Acacia Catechu L.

रङ्ग m. N. of a man Ra1jat.

रङ्ग m. of various authors (also with भट्टand ज्योतिर्-विद्) Cat.

रङ्ग n. (m.)tin(= वङ्ग) L.

"https://sa.wiktionary.org/w/index.php?title=रङ्ग&oldid=503716" इत्यस्माद् प्रतिप्राप्तम्