सामग्री पर जाएँ

अहिंसा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसा¦ स्त्री हिन्म--अङ् न॰ त॰।

१ वाङ्ममनःकायैःपरपीडाभावे,

२ प्राणिपीडानिवृत्तौ,

३ अशास्त्रीयप्राणि-पीडनाभावे च
“अहिंसापरमो धर्म्म” इति स्मृतिः।
“या वेद विहिता हिंसा नियतास्मिंश्चराचरे। अहिंसामेवतां विद्यात् वेदाद्धर्म्मोहि निर्बभौ” मनुना वैधहिंसायांदोषाभावौक्तः एतच्च मीमांसकादिनये सांख्यनये तु[Page0583-a+ 38] शास्त्रीयहिंसायामपि दोषः यथोक्तं सां॰ का॰।
“दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः”। अवि-शुद्धिर्हिंसादोषसंसर्गः यथा च वैधहिंसायां दोषसंसर्गस्तथो-क्तमशुद्धिशब्दे

४७

६ पृष्ठे। एतस्याश्च भावरूपत्वं गीता-यामुक्तम्
“बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। अहिंसा समता तुष्टिः” इत्युपक्रम्य
“भवन्ति भावा भूतानां मत्त-एव पृथग्विधाः”। इयञ्च साधारणधर्म्मः।
“अहिंसासत्यमस्तेयं शौचमिन्द्रियनिग्रहः एतत् सामासिकं धर्मंचातुर्वण्येऽब्रवीन्मनुः” इति मनूक्तेः
“क्षमा सत्यं दमः शौचंदानमिन्द्रियसंयमः। अहिंसा गुरुशुश्रूषा तीर्थानुसरणंदया, आर्जवं ह्रीरलोभश्च देवब्राह्मणपूजनम्। अन-भ्यसूया च तथा धर्म्मः सामान्य उच्यते
“विष्णूक्तेः
“अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः। दानं शमोदयाक्षान्तिः सर्वेषां धर्म्मसाधनमिति” याज्ञ॰ उक्तेश्च
“सर्वेषांपुरुषाणां ब्राह्मणाद्याचण्डालान्तं धर्म्मसाधनमिति”
“साधारणधर्मश्चाहिंसादिः”
“न हिंस्यात् सर्वाभूतानोति” श्रुत्युक्तः आचाण्डान्तं साधारणधर्मः” मिता॰। इयञ्च
“अ-हिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः” पात॰ उक्तो यमभेदः,
“अहिंसा नाम मनोवाक्कायैः सर्वदा सर्वभूतानाम-पीडनं सा परमः शुद्धोधर्मः
“अहिंसा परमोघर्म” इत्युक्तेःअन्ये सत्यादय एतस्या एव शुद्ध्यर्थाः तथा चोक्तं
“स खल्वयंब्राह्मणो यथा यथा तानि व्रतानि समादित्सति तथा तथाप्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्त्तमानस्तामेवावदा-तरूपामहिंसां करोतीति” वृत्तिः। तस्याश्च कथंकर्त्तव्यतातदपि
“वितर्कबाधने प्रतिपक्षभावनम्” पात॰ सू॰दर्शितम्
“एतेषां यमनियमानां वितर्कैर्हिंसादिसं-कल्पैः हनिष्याम्येनमसत्यं वदिष्यामि परस्वमादास्ये इत्या-दिभिः बाधने प्राप्ते सति यमपरो ब्राह्मणः प्रतिपक्षभावनं कुर्य्यात् घोरेषु संसाराङ्गारेषु पापच्यमानेन येन मयाशरणमुपगतः सर्वभूताभयप्रदानेन यमादिधर्म्मः सखल्वहं त्यक्त्वा हिंसादीन् पुनस्तानाददानस्तुल्यः शुना। यथा श्वा वान्ताशी तथा त्यक्तस्य पुनरादाने इति वितर्कप्रतिपक्षान् भावयेदित्यर्थः” वृत्तिः। वितर्काणां स्वरूप-प्रकारकारणावान्तरभेदफलानि पञ्चभिः पदैः क्रमेणवदन् प्रतिपक्षभावनं स्फुटयति।
“वितर्काः कृतकारितानु-मोदिता लोभक्रोधमोहपूर्ब्बका मृदुमध्यातिमात्रादुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्” पात॰ सू॰।
“वितर्क्यन्त इति वितर्काहिंसादयः इति स्वरूपोक्तिः। तत्र-[Page0583-b+ 38] हिंसा त्रिप्रकारा स्वयंकृता, कुर्विति कारिता, साधुसाध्वित्यनुमोदिता चेति तत्रेकैका पुनस्त्रिविघा भवति कारणभे-दात् मांसादिलोभेन, अपकृतमनेनेति क्रोधेन, धर्मो भविष्य-तीति मोहेन च। एवं नवविधा जाता हिंसा। लोभक्रोधमोहाअपि प्रत्येकं त्रिविधा भवन्ति मृदुमध्यातिमात्रत्वेन। तत्पू-र्ब्बकाहिंसादयोऽपि मृदवोमध्या अतिमात्राश्च भवन्ति। तथा कृतकारितानुमोदिताश्च प्रत्येकं नवधा भवन्तीति हिं-सायाः सप्तविंशतिर्भेदा भवन्ति। मृदुमध्यातिमात्रा अपिप्रत्येकं त्रिधा भवन्ति मृदुमृदुर्मध्यमृदुस्तीव्रमृदुःमृदु-मध्योमध्यमध्यस्तीव्रमध्यः मृदुतीव्रोमध्यतीव्रस्तीव्रतीव्रश्चेतिएवं लोभो नवविधः एवं क्रोधमोहाविति तत्पूर्ब्बकृता-हिंसा सप्तविंशतिभेदाभवन्ति तथा कारितानुमोदिता चेत्थ-मेकाशीतिभेदा हिंसा भवति” वृत्तिः। तेषां फलान्याह दुः-खाज्ञानानन्तफला इति। मनुनापि
“अनुमन्ता विशसितानियन्ता क्रयविक्रयी। संस्कर्त्ता चोपहर्त्ता च षडेते घातकाःस्मृताः” इत्यनेन अनुमत्यादीनां हिंसासाधनत्वमुक्तम्यममध्येऽहिंसाफलमप्याह पात॰ सू॰।
“अहिंसाप्रति-ष्ठायां तत्सन्निधौ वैरत्यागः”। अहिंसासिद्धौ सत्यां तस्याऽहिंसकस्य मुनिवर्य्यस्य सन्निधौ स्वभावविरुद्धानामपि अहिनकु-लादीनां वैरत्यागः अस्याएव प्रभावात्। अतएव कविभिःअहिंसायमप्रभावादेव शान्ताश्रमः
“विरोधिसत्त्वोज्झितपूर्व्व-वत्सरमित्यादि” वर्ण्ण्यते।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसा¦ f. (-सा) Harmlessness, doing injury to nothing, one of the car- dinal virtues of most Hindu sects, but particularly of the Baud- d'has and Jainas. E. अ neg. हिंसा hurt.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसा [ahiṃsā], 1 Harmlessness, abstaining from killing or giving pain to others in thought, word or deed; as अहिंसा परमो धर्मः, अहिंसा समता तुष्टिः Bg.1.5; यत्तपो दानमार्जवमहिंसा Ch. Up.3.17.4. Ms.1.63. या वेदविहिता हिंसा नियता$- स्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ Ms.5.44. 6.75. One of the cardinal virtues of most Hindu sects, The Jainas deserve special credit for making it social virtue of good conduct among the Hindus.

Security.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसा/ अ-हिंसा f. not injuring anything , harmlessness (one of the cardinal virtues of most Hindu sects , but particularly of the Buddhists and Jains ; also personified as the wife of धर्मVa1mP. ) ChUp. Nir. Mn. etc.

अहिंसा/ अ-हिंसा f. security , safeness S3Br. AitBr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AHIṀSĀ : Non-injury. There are opinions both in favour of and against Ahiṁsā in the purāṇas. Śukrācārya ex- tols the importance of Ahiṁsā to the asuras (demons) thus:

Bho! Devaripavaḥ satyaṁ
Bravīmi bhavatāṁ hitam
Ahiṁsā paramo dharmo
Hantavyā hyātatāyinaḥ
Dvijairbhogaratairvede
Darśitaṁ hiṁsanam paśoḥ
Jihvāsvādaparaiḥ Kāma--
Mahiṁsaiva parā matā.


“Oh, foes of the devas, I shall tell you the truth which is good for you. Non-injury to any living being is the most righteous thing. Do not molest even those who come to kill you. Even that act would be ‘hiṁsā’ (injury). It was those brahmins who were attached to worldly plea- sures and addicted to overeating that enjoined in the Vedas that hiṁsā is permissible for yāgas.” (Devī Bhāga- vata, Skanda 4). Mārkaṇḍeya Muni (sage) says thus: “Why should I mind the innumerable killings going on unnoticed in this world full of life. People of old speak very sacredly about Ahiṁsā. But O best of brahmins, who can live in this world without injury to another life?” (M.B., Araṇya Parva, Ślokas 32 & 33, Chapter 208).


_______________________________
*4th word in left half of page 18 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अहिंसा&oldid=490146" इत्यस्माद् प्रतिप्राप्तम्