एकाकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाकी, [न्] त्रि, (एक + “एकादाकिनिच्चास- हाये” । आकिनिच् ।) सहायरहितः । अस- हायः । एकला इति भाषा । तत्पर्य्यायः । एकः २ एकक ३ । इत्यमरः ॥ एकलः ४ । इति शब्द- रत्नावली ॥ (यथा मनुः । ४ । २५८ । “एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः । एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकाकी&oldid=493964" इत्यस्माद् प्रतिप्राप्तम्